TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शृङ्गारभेदप्रकरणम्

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान् ग्रंथ उज्ज्वलनीलमणिः होय.


शृङ्गारभेदप्रकरणम्
स विप्रलम्भः सम्भोग इति द्वेधोज्ज्वलो मतः ॥१॥
तत्र विप्रलम्भः

यूनोरयुक्तयोर्भावो युक्तयोर्वा तयोर्मिथः ।
अभीष्टालिङ्गनादीनां अनवाप्तौ प्रकृष्यते ।
स विप्रलम्भो विज्ञेयः सम्भोगोन्नतिकारकः ॥२॥

तथा चोक्तम्
न विना विप्रलम्भेन सम्भोगः पुष्टिं अश्नुते ।
काषायिते हि वस्त्रादौ भूयानेवाभिवर्धते ॥३॥

पूर्वरागस्तथा मानः प्रेमवैचित्त्यं इत्यपि ।
प्रवासश्चेति कथितो विप्रलम्भश्चतुर्विधः ॥४॥

तत्र पूर्वरागः

रतिर्या सङ्गमात्पूर्वं दर्शनश्रवणादिजा ।
तयोरुन्मीलति प्राज्ञैः पूर्वरागः स उच्यते ॥५॥

तत्र दर्शनात्
साक्षात्कृष्णस्य चित्रे च स्यात्स्वप्नादौ च दर्शनम् ॥६॥

तत्र साक्षात्, यथा पद्यावल्यां
इन्दीवरोदरसहोदरमेदुरश्रीर्
वासो द्रवत्कनकवृन्दनिभं दधानः ।
आमुक्तमौक्तिकमनोहरहारवक्षाः
कोऽयं युवा जगदनङ्गमयं करोति ॥७॥

चित्रे, यथा विदग्धमाधवे
शिशिरय दृशौ दृष्ट्वा दिव्यं किशोरं इतीक्षितः
परिजल्पनगिरां विश्रम्भात्त्वं विलासफलाङ्कितः ।
शिव शिव कथं जानीमस्त्वां अवक्रधियो वयं
निविडबडवावह्निज्वालाकलापविकासिनम् ॥८॥

स्वप्ने, यथा
स्वप्ने दृष्ट्वा सहचरि सरित्कासरी श्यामनीरा
तीरे तस्याः क्वणितमधुपा माधवईकुञ्जशाला ।
तस्यां कान्तं कपिशजघनो ध्वान्तराशिः शरीरी
चित्रं चन्द्रावलिं अपि स मां पातुं इच्छन्नरौत्सीत्  ॥९॥

अथ श्रवणम्
वन्दिदूतीसखीवक्त्राद्गीतादेश्च श्रुतिर्भवेत्  ॥१०॥
ततो वन्दिवक्त्रात्, यथा
पठति मगधराजनिर्जयार्थां
सखि विरुदावलिं अत्र वन्दिवर्ये ।
वद कथं इव लक्ष्मणे तनुते
पुलककुलेन विलक्षणा किलासीत्  ॥११॥

दूतीवक्त्रात्, यथा
आविष्कृते तव मुकुन्द मया प्रसङ्गे
तारावली पुलकिताङ्गलता नताक्षी ।
शुश्रूषुरप्यलघुगद्गदरुद्धकण्ठी
प्रष्टुं तवाक्षमत सा न कथाविशेषम् ॥१२॥

सखीवक्त्रात्, यथा
यावदुन्मदचकोरलोचना
मन्मुखात्तव कथां उपाशृणोत् ।
तावदञ्चति दिनं दिनं सखी
कृष्ण शारदनदीर्य तानवम् ॥१३॥

गीतात्, यथा
नयने प्रणयन्नुदश्रुणी
मम सद्यः सदसि क्षितीशितुः ।
उपवीणयति प्रवीणधीः
कं उदश्रुः सखि वैणिको मुनिः ॥१४॥

पुरोक्ता येऽभियोगाद्या हेतवो रतिजन्मनि ।
अत्र ते पूर्वरागेऽपि ज्ञेया धीरैर्यथोचितम् ॥१५॥
अपि माधवरागस्य प्राथम्ये सम्भवत्यपि ।
आदौ रागे मृगाक्षीणां प्रोक्ते स्याच्चारुताधिका ॥१६॥
अत्र सञ्चारिणो व्याधिः शङ्कासूया श्रमः क्लमः ।
निर्वेदौत्सुक्यदैन्यानि चिन्तानिद्राप्रबोधनम् ॥१७॥
विषादो जडतोन्मदो मोहमृत्यादयः स्मृताः ।
प्रौढः समञ्जसः साधारणश्चेति स तु त्रिधा ॥१८॥

तत्र प्रौढः
समर्थारतिरूपस्तु प्रौढ इत्यभिधीयते ।
लालसादिरिह प्रौढे मरणान्ता दशा भवेत् ।
तत्तत्सञ्चारिभावानां उत्कटत्वादनेकधा ॥१९॥
तथापि प्राक्तनैरस्य दशावस्था समासतः ।
प्रोक्तास्तदनुरोधेन तासां लक्षणं उच्यते ॥२०॥
लालसोद्वेगजागर्यास्तानवं जडिमात्र तु ।
वैयग्र्यं व्याधिरुन्मादो मोहो मृत्युर्दशा दश ॥२१॥
प्रौढत्वात्पूर्वरागस्य प्रौढाः सर्वा दशा अपि ॥२२॥

तत्र लालसः
अभीष्टलिप्सया गाढगृध्नुता लालसो मतः ।
अत्रौत्सुक्यं चपलता घूर्णाश्वासादयस्तथा ॥२३॥
यथा
त्वं अवसितान्निष्क्रामन्ती पुनः प्रविशन्त्यसौ
झटिति घटिकामध्ये वाराञ्छतं व्रजसीमनि ।
अगणितगुरुत्रासा श्वासान्विमुच्य विमुच्य किं
क्षिपसि बहुशो नीपारण्ये किशोरि दृशोर्द्वयम् ॥२४॥

यथा वा विदग्धमाधवे
दूरादप्यनुषङ्गतः श्रुतिं इते त्वन्नामधेयाक्षरे
सोन्मादं मदिरेक्षणा विरुवती धत्ते मुहुर्वेपथुं ।
आः किं वा कथनीयं अन्यदसिते दैवाद्वराम्भोधरे
दृष्टे तं परिरब्धुं उत्सुकमतिः पक्षद्वयीं इच्छति ॥२५॥

अथ उद्वेगः
उद्वेगो मनसः कम्पस्तत्र निःश्वासचापले ।
स्तम्भश्चिन्ताश्रुवैवर्ण्यस्वेदादय उदीरिताः ॥२६॥

यथा विदग्धमाधवे
चिन्तासन्ततिरद्य कृन्तति सखि स्वान्तस्य किं ते धृतिं
किंवा सिञ्चति ताम्रं अम्बरं अतिस्वेदाम्भसां डम्बरः ।
कम्पश्चम्पकगौरि लुम्पति वपुःस्थैर्यं कथं वा बलात्
तथ्यं ब्रूहि न मङ्गला परिजने सङ्गोपनाङ्गीकृतिः ॥२७॥

अथ जागर्या
निद्राक्षयस्तु जागर्या स्तम्भशोषगदादिकृत्  ॥२८॥

यथा
श्यामं कञ्चन काञ्चनोज्ज्वलपटं सन्दर्श्य निद्रा क्षणं
मां आजन्म सखी विमुच्य चलिता रुष्टेव नावर्तते ।
चिन्तां प्रोह्य सखि प्रपञ्चय मतिं तस्यास्त्वं आवर्तने
नान्यः स्वाप्निकतस्करोपहरणे शक्तो जनस्तां विना ॥२९॥

अथ तानवम्
तानवं कृशता गात्रे दौर्बल्यभ्रमणादिकृत्  ॥३०॥

यथा
च्युते वलयसञ्चये प्रबलरिक्ततादूषण
व्ययाय निहितोर्मिकावलिरपि स्खलत्यञ्जसा ।
निशम्य मुरलीकलं सखि सकृद्विशाखे तनु
स्तवासितचतुर्दशीशशिकला कृशत्वं ययौ ॥३१॥

कैश्चित्तु तानवस्थाने विलापः परिपठ्यते ॥३२॥

यथा
अत्रासीन्नवनीपभूरुहतटे कुर्वन्विहारं हरि
श्चक्रे ताण्डवं अत्र मित्रसहितश्चण्डांशुजारोधसि ।
पश्यन्ती लतिकान्तरे क्षणं अहं व्यग्रा निलीय स्थितं
सख्यः किं कथयामि दग्धविधिना क्षिप्तास्मि दावोपरि ॥३३॥

अथ जडिमा
इष्टानिष्टापरिज्ञानं यत्र प्रश्नेष्वनुत्तरं ।
दर्शनश्रवणाभावो जडिमा सोऽभिधीयते ।
अत्राकाण्डेऽपि हुङ्कारस्तम्भश्वासभ्रमादयः ॥३४॥

यथा
अकाण्डे हुङ्कारं रचयसि शृणोषि प्रियसखी
कुलानां नालापं दृतिरिव मुहुर्निःश्वसिषि च ।
ततः शङ्के पङ्केरुहमुखि ययौ वैणवकला
मधुली ते पालि श्रुतिचषकयोः प्राघूणिकताम् ॥३५॥

अथ वैयाग्र्यम्
वैयाग्र्यं भावगाम्भीर्यविक्षोभासहतोच्यते ।
तत्राविवेकनिर्वेदखेदासूयादयो मताः ॥३६॥

यथा विदग्धमाधवे
प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन्मनो धित्सते
बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः ।
यस्य स्फूर्तिलवाय हन्त हृदये योगी सुमुत्कण्ठते
मुग्धेयं किल तस्य पश्य हृदयान्निष्क्रान्तिं आकाङ्क्षति ॥३७॥

अथ व्याधिः
अभीष्टालाभतो व्याधिः पाण्डिमोत्तापलक्षणः ।
अत्र शीतस्पृहामोहनिःश्वासपतनादयः ॥३८॥

यथा
दवदमनतया निशम्य भद्रा
मदनदवज्वलिता दधे हृदि त्वां ।
द्विगुणितदवथुव्यथाविदग्धा
मुरहर भस्ममयीव पाण्डुरासीत्  ॥३९॥

अथ उन्मादः
सर्वावस्थासु सर्वत्र तन्मनस्कतया सदा ।
अतस्मिंस्तु तदिति भ्रान्तिरुन्माद इति कीर्त्यते ।
अत्रेष्टद्वेषनिःश्वासनिमेषविरहादयः ॥४०॥

यथा विदग्धमाधवे
वितन्वानस्तन्वा मरकतरुचीनां रुचिवतां
पटान्निष्क्रान्तोऽभूद्धृतशिखण्डो नवयुवा ।
भ्रुवं तेन क्षिप्त्वा किं अपि हसतोन्मादितमतेः
शशी वृत्तो वह्निः परं अहह वह्निर्मम शशी ॥४१॥

अथ मोहः
मोहो विचित्तता प्रोक्तो नैश्चल्यपतनादिकृत्  ॥४२॥

यथा
नासाश्वासपराङ्मुखी विघटिते दृष्टी स्नुषायाः कथं
हा धिक्कृष्णतिलान्ममार्पय करे कुर्यां अपामार्जनं ।
इत्यारोहति कर्णयोः परिसरं कृष्णेति कर्णद्वये
कम्पेनाच्युत तत्र सूत्रितवती त्वां एव हेतुं सखी ॥४३॥
अथ मृत्युः
तैस्तैः कृतैः प्रतीकारैर्यदि न स्यात्समागमः ।
कन्दर्पबाणकदनात्तत्र स्यान्मरणोद्यमः ॥४४॥
तत्र स्वप्रियवस्तूनां वयस्यासु समर्पणं ।
भृङ्गमन्दानिलज्योत्स्नाकदम्बानुभवादयः ॥४५॥

यथा
राधा रोधसि रोपितां मुकुलिनीं आलिङ्ग्य मल्लीलतां
हारं हीरमयं समर्प्य ललिताहस्ते प्रशस्तश्रियं ।
मूर्च्छां आप्नुवती प्रविश्य मधुपैर्गीतां कदम्बाटवीं
नाम व्याहरता हरेः प्रियसखीवृन्देन सन्धुक्षिता ॥४६॥

यथा वा विदग्धमाधवे
अकारुण्यः कृष्णो यदि मयि तवागः कथं इदं
मुधा मा रोदीर्मे कुरु परं इमां उत्तरकृतिं ।
तमालस्य स्कन्धे विनिहितभुजवल्लरिरियं
यथा वृन्दारण्ये चिरं अविचला तिष्ठति तनुः ॥४७॥

अथ समञ्जसः
भवेत्समञ्जसरतिस्वरूपोऽयं समञ्जसः ॥४८॥
अत्राभिलाषचिन्तास्मृतिगुणसङ्कीर्तनोद्वेगाः ।
सविलापा उन्मादव्याधिजडता मृतिश्च ताः क्रमशः ॥४९॥

तत्र अभिलाषः
व्यवसायोऽभिलाषः स्यात्प्रियसङ्गं अलिप्सया ।
स्वमण्डनान्तिकप्राप्तिरागप्रकटनादिकृत् ॥५०॥

यथा
यदिह सखि सुभद्रासख्यं आख्याय धूर्ते
व्रजसि पितुरगाराद्देवेकीमन्दिराय ।
रचयसि बत सत्ये मण्डने च प्रयत्नं
स्फुटं अजनि तदन्तर्वस्तु गूढं तवाद्य ॥५१॥

अथ चिन्ता
अभीष्टावाप्त्युपायानां ध्यानं चिन्ता प्रकीर्तिता ।
शय्याविवृत्तिनिःश्वासनिर्लक्षप्रेक्षणादिकृत् ॥५२॥

यथा
निःश्वासस्ते कमलवदने म्लापयत्योष्ठबिम्बं
शय्यायां च क्रशिमकलिता चेष्टते देहयष्टिः ।
द्वन्द्वं चाक्ष्णोर्विकिरति चिरं रुक्मिणि श्याम अम्भो
न श्वोभाविन्युपयमविधौ शोभते विक्रियेयम् ॥५३॥

अथ स्मृतिः
अनुभूतप्रियादीनां अर्थानां चिन्तनं स्मृतिः ।
अत्र कम्पाङ्गवैवश्यबाष्पनिःश्वसितादयः ॥५४॥

यथा
प्लुतं पुरेणापां नयनकमलद्वन्द्वं अभितो
धृतोत्कम्पं सात्राजिति कुचरथाङ्गद्वयं अपि ।
श्लथारम्भं चैतद्भुजविसलयुगं तत्तव मन
स्तडागेऽस्मिन्कृष्णद्विरदपतिरन्तर्विहरति ॥५५॥

अथ गुणकीर्तनम्
सौन्दर्यादिगुणश्लाघा गुणकीर्तनं उच्यते ।
अत्र वेपथुरोमाञ्चकण्ठगद्गदिकादयः ॥५६॥

यथा
यान्त्यस्तृष्णापि युवतयो येषु घूर्णां भजन्ते
यान्याचम्य स्वयं अपि भवान्रोमहर्षं प्रयाति ।
गन्धं तेषां तव मधुपते रूपसम्पन्मधूनां
दूरे विन्दन्मम न हि धृतिः चित्तभृङ्गस्तनोति ॥५७॥

षडुद्वेगादयः पूर्वं प्रौढे तस्मिन्नुदाहृताः ।
सामञ्जस्याद्रतेरत्र किन्तु ताः स्युर्यथोचितम् ॥५८॥

अथ साधारणः
साधारणरतिप्रायः साधारण इतीरितः ।
अत्र प्रोक्ता विलापान्ताः षड्दशान्ताश्च कोमलाः ॥५९॥

अथ अभिलाषो, यथा प्रथमस्कन्धे
एताः परं स्त्रीत्वं अपास्तपेशलं
निरस्तशौचं बत साधु कुर्वते ।
यासां गृहात्पुष्करलोचनः पतिर्
न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥६०॥

चिन्तादीनां तथान्यासां ऊह्या धीरैरुदाहृतिः ॥६१॥
पूर्वरागे प्रहीयेत कामलेखस्रगादिकं ।
वयस्यादिकरेणात्र कृष्णेनास्य च कान्तया ॥६२॥

तत्र कामलेखः
स लेखः कामलेखः स्यात्यः स्वप्रेमप्रकाशकः ।
युवत्या यूनि यूना च युवत्यां संप्रहीयते ॥६३॥
निरक्षरः साक्षरश्च कामलेखो द्विधा भवेत्  ॥६४॥

तत्र निरक्षरः
सुरक्तपल्लवमयश्चन्द्रार्धादिनखाङ्कभाक् ।
वर्णविन्यासरहितो भवेदेष निरक्षरः ॥६५॥

यथा
किसलयशिखरे विशाखिकाया
नखरशिखालिखितोऽयं अर्धचन्द्रः ।
दधदिह मदनार्धचन्द्रभावं
हृदि मम हन्त कथं हठाद्विवेश ॥६६॥

अथ साक्षरम्
गाथामयी लिपिर्यत्र स्वहस्ताङ्कैष साक्षरः ॥६७॥

यथा जगन्नाथवल्लभे
सुइरं विज्झसि हिआं लम्भै माणो क्खु दुज्जसः बलिअं ।
दीससि सालदिसासुं दीसै माणो ण कुत्ताबि ॥६८॥

(सुचिरं बिध्यसि हृदयं लभते मदनः खलु दुर्यशो बलीयः ।
दृश्यसे सकलदिशासु दृश्यते मदनो न कुत्रापि ॥)

बन्धोऽब्जतन्तुना रागः किं वा कस्तूरिकामसी ।
पृथुपुष्पदलं पत्रः मुद्राकृत्कुङ्कुमैरिह ॥६९॥

अथ माल्यार्पणम्
सुश्लिष्टां निजशिल्पकौशलभरव्याहारिणीं अद्भुतां
गोष्ठाधीश्वरनन्दनं स्रजं इमां तुभ्यं सखि प्राहिणोत् ।
इत्याकर्ण्य गिरं सरोरुहदृशः स्वेदोदबिन्दूच्छला
दङ्गेभ्यः कुलधर्मधैर्यं अभितः शङ्के बहिर्निर्ययौ ॥७०॥

केचित्तु
नयनप्रीतिः प्रथमं चिन्तासङ्गस्ततोऽथ सङ्कल्पः ।
निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाप ।
उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥७१॥
इत्याचक्षते ।

एवं क्रमेण विज्ञेयः पूर्वरागो हरेरपि ।
निदर्शनाय तत्रैकं उदाहरणं उच्यते ॥७२॥

यथा
उपारंसीद्वंशीकलपरिमलोल्लासरभसा
द्विसस्मार स्फारां विविधकुसुमाकल्परचनां ।
जहौ कृष्णस्तृष्णां सहचरचमूचारुचरिते
सखि त्वद्भ्रूव्यालीचुलुकितचलच्चित्तपवनः ॥७३॥

इति पूर्वरागः ।

अथ मानः

दम्पत्योर्भाव एकत्र सतोरप्यनुरक्तयोः ।
स्वाभीष्टाश्लेषवीक्षादिनिरोधी मान उच्यते ॥७४॥
सञ्चारिणोऽत्र निर्वेदशङ्कामर्षाः सचापलाः ।
गर्वासूयावहित्थाश्च ग्लानिश्चिन्तादयोऽप्यमी ॥७५॥
अहेतोर्नेति नेत्युकेर्हेतोर्यन्मान उच्यते ।
अस्य प्रणय एव स्यान्मानस्य पदं उत्तमम् ॥७६॥

तत्र सहेतुः
हेतुरीर्ष्याविपक्षादेर्वैशिष्ट्ये प्रेयसा कृते ।
भावः प्रणयमुख्योऽयं ईऋषामानत्वं ऋच्छति ॥७७॥

तथा चोक्तं
स्नेहं विना भयं न स्यान्नेर्ष्या च प्रणयं विना ।
तस्मान्मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥७८॥

अतएव हरिवंशे
रुषितां इव तां देवीं स्नेहात्सङ्कल्पयन्निव ।
भीतभीतोऽतिशनकैर्विवेश यदुनन्दनः ॥७९॥
रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता ॥८०॥
इति ।

तत्रापि च सुसख्यादि हृदि यस्या विराजते ।
तस्या विपक्षवैशिष्ट्ये न स्यादेव सहिष्णुता ॥८१॥
अतः सत्यां विनान्यासां सुसख्यादेरभावतः ।
श्रुतेऽपि पारिजातस्य दाने मानो न चाभवत्  ॥८२॥
श्रुतं चानुमितं दृष्टं तद्वैशिष्ट्यं त्रिधा मतम् ॥८३॥

अथ श्रवणम्
श्रवणं तु प्रियसखीशुकादीनां मुखाद्भवेत्  ॥८४॥

तत्र सखीमुखात्, यथा
शशिमुखि मृषा जल्पं श्रुत्वा कठोरसखीमुखात्
प्रणयिनि हरौ मा विश्रम्भं कृथाः शिथिलं वृथा ।
परिहर मनःक्लान्तिं देवि प्रसीद मनोरमे
तव मुखं अनालोच्य प्रेयान्वनेऽद्य विशीर्यति ॥८५॥

यथा वा
अहह गहना केयं वार्ता श्रुतौ पतिताद्य मे
विदितं अनृतं हास्याद्ब्रूषे विमुञ्च कदर्थनां ।
सहचरि कुतो जीवत्यस्मिन्जनेऽपि जनार्दनो
द्युतरु कुसुमं तस्यै हा धिक्कृती वितरिष्यति ॥८६॥

शुकमुखा, यथा
आस्ते काचिद्दयितकलहा क्रूरचेताः सखी ते
कीरो वन्यः स्फुटं इह यया श्यामले पाठितोऽस्ति ।
अथ व्यर्थे विहगलपिते सुष्ठु विश्रम्भमाणा
मानारम्भे न कुरु हृदयं कातरोऽस्मि प्रसीद ॥८७॥

अनुमितिः
भोगाङ्कगोत्रस्खलनस्वप्नैरनुमितिस्त्रिधा ॥८८॥

अत्र भोगाङ्कः
भोगाङ्को दृश्यते गात्रे विपक्षस्य प्रियस्य च ॥८९॥

तत्र विपक्षगात्रे भोगाङ्कदर्शनं, यथा
कालिन्दीतटधूर्त चाटुभिरलं निद्रातु चन्द्रावली
खिन्नाक्षी क्षणमङ्गनादपसर क्रुद्धास्ति वृद्धा गृहे ।
किञ्चिद्बिम्बितधातुपत्रमकरीचित्रेण  तत्राधुना
सर्वा ते ललिता ललाटफलकेनोद्घाटिता चातुरी ॥९०॥

प्रियगात्रे भोगाङ्कदर्शनं, यथा विदग्धमाधवे (४.४०)
मुक्तान्तर्निमिषं मदीयपदवीं उद्वीक्षमाणस्य
जाने केशररेणुभिर्निपतितैः शोणीकृते लोचने ।
शीतैः काननवायुभिर्विरचितो बिम्बाधरे च व्रणः
सङ्कोचं त्यज देव दैवहतया न त्वं मया दूष्यसे ॥९१॥

तत्र गोत्रस्खलनम्
विपक्षसंज्ञयाह्वानं ईर्ष्यातिशयकारणं ।
आसां तु गोत्रस्खलनं दुःखदं मरणादपि ॥९२॥

तेन यथा बिल्वमङ्गले
राधामोहनमन्दिरादुपगतश्चन्द्रावलीं ऊचिवान्
राधे क्षेमं इहेति तस्य वचनं श्रुत्वाह चन्द्रावली ।
कंस क्षेमं अये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥९३॥

यथा वा
अहह विलसत्यग्रे चन्द्रावली विमलद्युतिः
कितव कलिता तारा सात्र त्वया क्व नु षोडशी ।
तिमिरमलिनाकार क्षिप्रं व्रजारुणमण्डला
मम सहचरी यावन्मन्युद्युतिं न विमुञ्चति ॥९४॥

अथ स्वप्नः
हरेर्विदूषकस्यापि स्वप्नः स्वप्नायितं मतः ॥९५॥

तत्र हरेः स्वप्नायितम्, यथा
शपे तुभ्यं राधे त्वं असि हृदये त्वं मम बहि
स्त्वं अग्रे त्वं पृष्ठे त्वं इह भवने त्वं गिरिवने ।
इति स्वप्ने जल्पं निशि निशमयन्ती मधुरिपो
रभूत्तल्पे चन्द्रावलिरथ परावर्तितमुखी ॥९६॥

विदूषकस्य, यथा
अवञ्चि चटुपाटवैरघभिदाद्य पद्मासखी
ततस्त्वरय राधिकां किं इति माधवि ध्यायसि ।
निशम्य मधुमङ्गलादिति गिरं पुरः स्वप्नजां
विदूनवदना सखि ज्वलति पश्य चन्द्रावली ॥९७॥

अथ दर्शनम्, यथा
मिथ्या मा वद कन्दरे सम सखीं हित्वा त्वं एकाकिनीं
निष्क्रान्तः पृथुसम्भ्रमेण किं अपि प्रख्यापयन्कैतवं ।
दूरात्किञ्चिदञ्चितेन रसनाशब्देन सातङ्कया
निष्क्रम्याथ तया शठेन्द्र पुलिने दृष्टोऽसि राधासखः ॥९८॥

यथा वा
सहचरि परिगुम्फ्य प्रातरेवार्पितासीद्
ब्रजपतिसुतकण्ठे या मयोत्कण्ठयाद्य ।
अपि हृदि ललितायास्तस्थुषी हन्त हृन्मे
दहति दहनदीप्तिः पश्य गुञ्जावली सा ॥९९॥

अथ निर्हेतुः
अकारणाद्द्वयोरेव कारणाभासतस्तथा ।
प्रोद्यन्प्रणय एवायं व्रजेन्निर्हेतुमानताम् ॥१००॥
आद्यं मानं परीणामं प्रणयस्य जगुर्बुधाः ।
द्वितीयं पुनरस्यैव विलासभरवैभवं ।
बुधैः प्रणयमानाख्यं एष एव प्रकीर्तितः ॥१०१॥

तथा चोक्तं
अहेरिव गतिः प्रेम्णः स्वभावकुटिला भवेत् ।
अतो हेतोरहेतोश्च यूनोर्मान उदञ्चति ॥१०२॥

अवहित्थादयो ह्यत्र विज्ञेया व्यभिचारिणः ॥१०३॥

तत्र कृष्णस्य, यथा
अव्यक्तस्मितदृष्टिं अर्पय पुरः स्वल्पोऽपि मन्तुर्न मे
पत्युर्वञ्चनपाटवाद्व्रजपते ज्योत्स्नीनिशार्धं ययौ ।
शुभ्रालङ्कृतिभिर्द्रुतं पथि मया दूरं ततः प्रस्थिते
सान्द्रा चान्द्रं अरुन्ध बिम्बं अचिरादाकस्मिकी कालिका ॥१०४॥

यथा वा
पुष्पेभ्यः स्पृहया विलम्बितवतीं आलोक्य मां उन्मनाः
कंसारिः सखि लम्बिताननशशी तूष्णीं निकुञ्जे स्थितः ।
आतङ्केन मया तदङ्घ्रिनखरे क्षिप्ते प्रसूनाञ्जलौ
तस्यालीकरुषा भ्रुवं विभुजतोऽप्याविर्बभूव स्मितम् ॥१०५॥

कृष्णप्रियायाः, यथा उद्धवसन्देशे (४४)
तिष्ठन्गोष्ठाङ्गणभुवि मुहुर्लोचनान्तं विधत्ते
जातोत्कण्ठस्तव सखि ःअरिर्देहलीवेदिकायां ।
मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी
स्वान्तं हन्त ग्लपयसि बहिः प्रीणय प्राणनाथम् ॥१०६॥

यथा वा
अहं इह विचिनोमि त्वद्गिरैव प्रसूनं
कथय कथं अकाण्डे चण्डि वाचं यमासि ।
विदितं उपधिनालं राधिके शाधि केन
प्रियसखि कुसुमेन श्रोत्रं उत्तंसयामि ॥१०७॥

द्वयोरेव युगपद्, यथा
कुञ्जे तुष्णीं असि नतशिराः किं चिरात्त्वं मुरारे
किं वा श्यामे त्वं अपि विमुखी मौनमुद्रां तनोषि ।
ज्ञातं ज्ञातं स्मितविमुषिते कापि वामास्ति योग्या
क्रीडावादे बलवति यया न द्वयोरेव भङ्गः ॥१०८॥

यथा वा
कुञ्जद्वारि निविष्टयोस्तरणिजातीरे द्वयोरेव नौ
तत्रान्योन्यं अपश्यतोः सखि मुधा निर्बन्धतः क्लान्तयोः ।
हस्ते द्रागथ दाडिमीफलं अभिन्यस्ते मया निस्तलं
राधां उद्भिदुरस्मितां परिहसन्फुल्लाङ्गं आलिङ्गिषम् ॥१०९॥

निर्हेतुकः स्वयं शाम्येत्स्वयंग्राहस्मिताविधिः ॥११०॥

यथा
रोषस्तवाभूद्यदि राधिकेऽधिक
स्तथास्तु गण्डः कथं उच्छ्वसित्यसौ ।
स्वनर्मणेत्थं दुरपह्नवस्मितां
प्रियां अचुम्बत्पशुपेन्द्रनन्दनः ॥१११॥

हेतुर्यस्तु शमं यथायोग्यं प्रकल्पितैः ।
सामभेदक्रियादाननत्युपेक्षारसान्तरैः ॥११२॥
मानोपशमनस्याङ्का बाष्पमोक्षस्मितादयः ॥११३॥

तत्र साम
प्रियवाक्यस्य रचनं यत्तु तत्साम गीयते ॥११४॥

यथा
जातं सुन्दरि तथयं एव पृथुना राधेऽपराधेन मे
किन्तु स्वारसिको ममात्र शरणं स्नेहस्त्वदीयो बली ।
इत्याकर्ण्य गिरं हरेर्नतमुखी बाष्पाम्भसां धारया
सानङ्गोत्सवरङ्गमङ्गलघटो पूर्णावकार्षीत्कुचौ ॥११५॥

अथ भेदः
भेदो द्विधा स्वयं भङ्ग्या स्वमाहात्म्यप्रकाशनं ।
सख्यादिभिरुपालम्भप्रयोगश्चेति कीर्त्यते ॥११६॥

तत्र भङ्ग्या स्वमाहात्म्यप्रकाशनं, यथा विदग्धमाधवे
चञ्चन्मीनविलोचनासि कमठोतकृष्टस्तनी सङ्गता
क्रोङेन स्फुरता तवायं अधरः प्रह्लादसंवर्धनः ।
मध्योऽसौ बलिबन्धनो मुखरुचा रामास्त्वया निर्जिता
लब्धा श्रीघनताद्य मानिनि मनस्यङ्गीकृता कल्किता ॥११७॥

अथवेदं प्रियोक्तित्वात्सामोदाहरणं भवेत् ।
नायकस्य स्ववचसा भङ्ग्यायं भेद ईर्यते ॥११८॥

यथा
रूक्षा यन्मयि वर्तसे त्वं अभितः स्निग्धेऽपि ते दूषणं
तत्रास्ते न हि किन्तु तत्किल ममानौचित्यजातं फलं ।
येन स्वस्तरुणीरुपेक्ष्य चरमां अप्याश्रयन्तीर्दशां
प्रेमार्तं व्रजयौवतं च सुमुखि त्वं केवलं सेव्यसे ॥११९॥

सख्यादिभिरुपालम्भप्रयोगो, यथा
कर्तुं सुन्दरि शङ्खचूडमथने नास्मिन्नुपेक्षोचिता
सर्वेषां अभयप्रदानपदवीबद्धव्रते प्रेयसि ।
इत्यालीभिरलक्षितं मुरभिदा भद्रावली भेदिता
नासाग्रे वरमौक्तिकश्रियं अधादस्रस्य सा बिन्दुना ॥१२०॥

अथ दानम्
व्याजेन भूषणादीनां प्रदानं दानं उच्यते ॥१२१॥

यथा
कामो नाम सुहृन्ममास्ति भवतीं आकर्ण्य मत्प्रेयसीं
हारस्तेन तवार्पितोऽयं उरसि प्राप्नोतु सङ्गोत्सवं ।
इत्युन्नम्य करं मुरद्विषि वदत्युद्भिन्नसान्द्रस्मिता
पद्मा मानविनिग्रहात्प्रणयिना तेनोद्भटं चुम्बिता ॥१२२॥

अथ नतिः
केवलं दैन्यं आलम्ब्य पादपातो नतिर्मता ॥१२३॥

यथा
क्षितिलुठितशिखण्डापीडं आरान्मुकुन्दे
रचयति रतिकान्तस्तोमकान्ते प्रणामं ।
नयनजलधराभ्यां कुर्वती बाष्पवृष्टिं
वरतनुरिह मानग्रीष्मनाशं शशंस ॥१२४॥

अथ उपेक्षा
सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणं ।
उपेक्षा कथ्यते कैश्चित्तूष्णीम्भावतया स्थितिः ॥१२५॥

तद्द्वयं, यथा
सूनुर्वल्लभ एष वल्लवपतेस्तत्रापि वीराग्रणी
स्तत्रापि स्मरमण्डलीविजयिना रूपेण विभ्राजितः ।
सख्यः सम्प्रति रूक्षता पृथुरियं तेनात्र न श्रेयसे
दूरे पश्यत याति निष्ठुरमनाः का युक्तिरत्रोचिता ॥१२६॥

माने मुहुर्नितिभिरप्यतिदुर्निवारे
वाचंयमव्रतं अहं तरसाग्रहीषं ।
बाष्पं ततो विकिरती निजगाद पद्मा
पौष्पं रजः पतितं अत्र दृशोर्ममेति ॥१२७॥

अथवा
प्रसादनविधिं मुक्त्वा वाक्यैरन्यार्थसूचकैः ।
प्रसादनं मृगाक्षीणां उपेक्षेति स्मृता बुधैः ॥१२८॥

यथा
धम्मिल्ले नवमालती परिचिता सव्ये च शब्दग्रहे
मल्ली सुन्दरि दक्षिणे तु कतरत्पुष्पं तव भ्राजते ।
आघ्रेयं परिचेतुं इत्युपहिते व्याजेन नासापुटे
गण्डोद्यत्पुलका विहस्य हरिणा चन्द्रावली चुम्बिता ॥१२९॥

अथ रसान्तरम्
आकस्मिकभयादीनां प्रस्तुतिः स्याद्रसान्तरं ।
यादृच्छिकं बुद्धिपूर्वं इति द्वेधा तदुच्यते ॥१३०॥
तत्र यादृच्छिकम्
उपस्थितं अकस्माद्यत्तद्यादृच्छिकं उच्यते ॥१३१॥

यथा
अपि गुरुभिरुपायैरद्य सामादिभिर्या
लवं अपि न मृगाक्षी मानमुद्रां अभाङ्क्षीत् ।
हरिं इह परिरेभे सा स्वयंग्राहं अग्रे
नवजलधरनादैर्भीषिता पश्य भद्रा ॥१३२॥

यथा वा
उपायेषु व्यर्थोन्नतिषु बत सामादिषु सखे
सखीनां चातुर्ये गतवति च सद्यः शिथिलतां ।
विशाखायाः कोपज्वरहरणमन्त्रप्रतिनिधिं
सचीत्कारं रूक्षस्वनितं अकरोदुक्षदनुजः ॥१३३॥

अथ बुद्धिपूर्वम्
बुद्धिपूर्वं तु कान्तेन प्रत्युत्पन्नधिया कृतम् ॥१३४॥

यथा
पाणौ पञ्चमुखेन दुष्टकृमिणा दष्टोऽस्मि रोषादिति
व्याजात्कूणितलोचनं व्रजपतौ व्याभुज्य वक्त्रं स्थिते ।
सद्यः प्रोज्झितरोषवृत्तिरसकृत्किं वृत्तं इत्याकुला
जल्पन्ती स्मितबन्धुरास्यं अमुना गान्धर्विका चुम्बिता ॥१३५॥

यथा वा
न्यस्तं दाम कृतागसाद्य हरिणा दृष्ट्वा पुरो राधया
क्षिप्तेनाभिहतः स तेन कपटी दुःखीव भुग्नाननः ।
मीलन्नेव निषेदिवान्भुवि ततः सद्यस्तया व्यग्रया
पाञिभ्यां धृतकन्धरः स्थितमुखो बिम्बोष्ठं अस्याः पपौ ॥१३६॥

देशकालबलेनैव मुरलीश्रवणेन च ।
विनाप्युपायं मानोऽसौ लीयते व्रजसुभ्रुवाम् ॥१३७॥

तत्र देशबलेन, यथा
अलङ्कीर्णं चन्द्रावलिरलिघटाझङ्कृतिभरैः
पुरो वृन्दारण्यं किं अपि कलयन्ती कुसुमितं ।
हरिं च स्मेरास्यं प्रियकतरुमूले प्रियं इतः
स्खलन्माना सख्यां अदिशत सतृष्णं दृशं असौ ॥१३८॥

कालबलेन, यथा
शरदि मधुरमूर्तिः पश्य कान्तिच्छटाभिः
स्नपयति रविकन्यातीरवन्यां सुधांशुः ।
इति निशि निशमय्य व्याहृतिं दूतिकायाः
स्मितरुचिभिरतानीत्तत्र राधा प्रसादम् ॥१३९॥

मुरलीशब्देन, यथा
यदि रोषं न हि मुञ्चसि
न मुञ्च मम देवि नात्र निर्बन्धः ।
फुत्कृतिविधूतमानः
स भवतु विजयी हरेर्वेणुः ॥१४०॥

यथा वा
मानस्योपाध्यायि प्रसीद सखि रुन्धि मे श्रुतिद्वन्द्वं ।
अयं उच्चाटनमन्त्रं सिद्धो वेणुर्वने पठति ॥१४१॥

तारतम्यं तु मानस्य हेतोः स्यात्तारतम्यतः ।
स्याल्लघुर्मध्यमश्चासौ महिष्ठश्चेत्यतस्त्रिधा ॥१४२॥
सुसाध्यः स्याल्लघुर्मानो यत्नसाध्यस्य मध्यमः ।
दुःसाध्यः स्यादुपायेन महिष्ठः प्रेयसाप्ययम् ॥१४३॥
कृष्णे रोषोक्तयस्तासां वामो दुर्लीलशेखरः ।
कितवेन्द्रो महाधूर्तः कठोरो निरपत्रपः ॥१४४॥
अतिदुर्ललितो गोपीभुजङ्गो रतहिण्डकः ।
गोपिकाधर्मविध्वंसी गोपसाध्वीविडम्बकः ॥१४५॥
कामुकेशस्तमिस्रौघः श्यामात्माम्बरतस्करः ।
गोवर्धनतटारण्यबाटपाटच्चरादयः ॥१४६॥

इति मानः ।

अथ प्रेमवैचित्त्यम्

प्रियस्य सन्निकर्षेऽपि प्रेमोन्मादभ्रमाद्भवेत् ।
या विश्लेषधियार्तिस्तत्प्रेमवैचित्त्यं उच्यते ॥१४७॥

यथा
आभीरेन्द्रसुते स्फुरत्यपि पुरस्तीव्रानुरागोत्थया
विश्लेषज्वरसम्पदा विवशधीरत्यन्तं उद्घूर्णिता ।
कान्तं मे सखि दर्शयेति दशनैरुद्गूर्णशस्याङ्कुरा
राधा हन्त तथा व्यचेष्टते यतः कृष्णोऽप्यभूद्विस्मितः ॥१४८॥

यथा वा विदग्धमाधवे
समजनि दवाद्वित्रस्तानां किं आर्तरवो गवां
मयि किं अभवद्वैगुण्यं वा निरङ्कुशं ईक्षितं ।
व्यरचि निभृतं किं वाहूतिः कयाचिदभीष्टया
यदिह सहसा मां अत्याक्षीद्वने वनजेक्षणः ॥१४९॥

विलासं अनुरागस्तु कुत्रचित्कं अपि व्रजं ।
पार्श्वे सन्तं अपि प्रेष्ठं हारितं कुरुते स्फुटम् ॥१५०॥
सुष्ठूदाहरता पट्टमहिषीगीतविभ्रमं ।
स्पष्टं मुक्ताफले चैतद्वोपदेवेन वर्णितम् ॥१५१॥

इति प्रेमवैचित्त्यं

अथ प्रवासः

पूर्वसङ्गतयोर्यूनोर्भवेद्देशान्तरादिभिः ।
व्यवधानं तु यत्प्राज्ञैः स प्रवास इतीर्यते ॥१५२॥
तज्जन्यविप्रलम्भोऽयं प्रवासत्वेन कथ्यते ।
हर्षगर्वमदव्रीडा वर्जयित्वा समीरिताः ॥१५३॥
शृङ्गारयोग्याः सर्वेऽपि प्रवासे व्यभिचारिणः ।
स द्विधा बुद्धिपूर्वः स्यात्तथिअवाबुद्धिपूर्वकः ॥१५४॥
अत्र बुद्धिपूर्वः
दूरे कार्यानुरोधेन गमः स्याद्बुद्धिपूर्वकः ।
कार्यं कृष्णस्य कथितं स्वभक्तप्रीणनादिकम् ॥१५५॥
किञ्चिद्दूरे सुदूरे च गमनादप्ययं द्विधा ॥१५६॥

तत्र आद्यः
दृष्टिं निधाय सुरभीनिकुरम्बवीथ्यां
कृष्णेति वर्णयुगलाभ्यसेन रसज्ञां ।
शुश्रूषणे मुरलिनिस्वनितस्य कर्णौ
चित्तं मुखे तव नयत्यहरद्य राधा ॥१५७॥

अथ द्वितीयः
भावी भवंश्च भूतश्च तिर्विधः स तु कीर्त्यते ॥१५८॥

तत्र भावी, यथा उद्धवसन्देशे
एष क्षत्ता व्रजनरपतेः आज्ञया गोकुले अस्मिन्
बाले प्रातो नगरगतये घोषणामातनोति ।
दुष्टं भूयः स्फुरति च बलादीक्षणं दक्षिणं मे
तेन स्वान्तं स्फुटति चटुलं हन्त भाव्यं न जाने ॥१५९॥

भवन्, यथा ललितमाधवे
भानोर्बिम्बे त्वरितं उदयप्रस्थतः प्रस्थितेऽसौ
यात्रानन्दीं पठति मुदितः स्यन्दने गान्दिनेयः ।
तावत्तूर्णं स्फुट खुरपुटैः क्षौणिपृष्टं खनन्तो
यावन्नामी हृदय भवतो घोटकाः स्फोटका स्युः ॥१६०॥

भूतो, यथा उद्धवसन्देशे
कामं दूरे सहचरि वरीवर्ति यत्कंसवैरी
न इदं लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति ।
आशाकीलो हृदि किल वृतः प्राणरोधी तु यो मे
सोऽयं पीडां निविडवडवावह्नितीव्रस्तनोति ॥१६१॥

अत्र श्रीयदुसिंहेन प्रेयसीहिरमुष्य च ।
प्रेषणं क्रियते प्रेम्णा सन्देशस्य परस्परम् ॥१६२॥

यथा उद्धवसन्देशे
सोढव्यं ते कथमपि बलाच्चक्षुषी मुद्रयित्वा
तीव्रोत्तापं हतमनसिजोद्दामविक्रान्तचक्रं ।
द्वित्रैरेव प्रियसखि दिनैः सेव्यतां देवि शव्ये
यास्यामि त्वत्प्रणयचटुलभ्रूयुगाडम्बराणाम् ॥१६३॥

तथा पद्यावल्यां
कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशङ्कांशवः
सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः ।
सन्दिष्टं व्रजयोषितां इति हरेः संशृण्वतोऽन्तःपुरे
निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥१६४॥

अथ अबुद्धिपूर्वः
पारत्न्त्र्योद्भवो यस्तु प्रोक्तः सोऽबुद्धिपूर्वकः ।
दिव्यादिव्यादिजनितं पारतन्त्र्यं अनेकधा ॥१६५॥

यथा ललितमाधवे
आनीतासि मया मनोरथशतव्यग्रेण निर्बन्धतः
पूर्णं शारदपुर्णिमापरिमलैर्वृन्दाटवीमण्डलं ।
सद्यः सुन्दरि शङ्खचूडकपटप्राप्तोदयेनाधुना
दैवेनाद्य विरोधिना कथं इतस्त्वं हन्त दूरीकृता ॥१६६॥

चिन्तात्र जागरोद्वेगौ तानवं मलिनाङ्गता ।
प्रलापो व्याधिरुन्मादो मोहो मृत्युर्दशा दश ॥१६७॥

तत्र चिन्ता, यथा हंसदूते
यदा यातो गोपीहृदयमदनो नन्दसदनान्
मुकुन्दो गान्दिन्यास्तनयमनुविन्दन्मधुपुरीं ।
तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर्
अगाधायां बाधामयपयसि राधा विरहिणी ॥१६८॥

अथ जागरः, यथा पद्यावल्यां
याः पश्यन्ति प्रियं स्वप्ने धन्यास्ताः सखि योषितः ।
अस्माकं तु गते कृष्णे गता निद्रापि वैरिणी ॥१६९॥

अथ उद्वेगः, यथा हंसदूते
मनो मे हा कष्टं ज्वलति किमहं हन्त करवै
न पारं नावारं किमपि कलयाम्यस्य जलधेः ।
इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मां
परामृष्ये यस्माद्धृतिकणिकयापे क्षणिकया ॥१७०॥

अथ तानवं, यथा
उदञ्चद्वक्त्राम्भोरुहविकृतिरन्तःकलुषिता
सदाहाराभावग्लपितकुचकोका यदुपते ।
विशुष्यन्ती राधा तव विरहतापादनुदिनं
निदाघे कुल्येव क्रशिमपरिपाकं प्रथयति ॥१७१॥

अथ मलिनाङ्गता
हिमविसरविशीर्णाम्भोजतुल्याननश्रीः
खरमरुदपरज्यद्बन्धुजीवोपमौष्ठी ।
अघहर शरदर्कोत्तापितेन्दीवराक्षी
तव विरहविपत्तिम्लापितासीद्विशाखा ॥१७२॥

अथ प्रलापः, यथा ललितमाधवे
क्व नन्दकुलचन्द्रमाः क्व शिखिचन्द्रकालङ्कृतिः
क्व मन्द्रमुरलीरवः क्व नु सुरेन्द्रनीलद्युतिः
क्व रासरसताण्डवी क्व सखि जीवरक्षौषधिर्
निधिर्मम सुहृत्तमः क्व बत हन्त हा धिग्विधिम् ॥१७३॥

अथ व्याधिः, यथा तत्रैव
उत्तापी पुटपाकतोऽपि गरलग्रामादपि क्षोभणो
दम्भोलेरपि दुःसहः कटुरलं हृन्मग्नशूल्यादपि
तीव्रः प्रौढविसूचिकानिचयतोऽप्युच्चैर्ममायं बली
मर्माण्यद्य भिनत्ति गोकुलपतेर्विश्लेषजन्मा ज्वरः ॥१७४॥

अथ उन्मादः
भ्रमति भवनगर्भे निर्निमित्तं हसन्ती
प्रथयति तव वार्तां चेतनाचेतनेषु ।
लुतःअति च भुवि राधा कम्पिताङ्गी मुरारे
विषमविरहखेदोद्गारिविभ्रान्तचित्ता ॥१७५॥

यथा वा
अद्याकाण्डिकं अट्टहासपटलं निर्माति घर्माम्बुभाक्
चीत्कारं कुरुते चमत्कृतिपरा सोत्कण्ठं आकस्मिकं ।
आक्रन्दं वितनोति घर्घरघनोद्घोषं किलातर्कितं
राधा माधवविप्रयोगरभसादन्येव तीव्रादभूत्  ॥१७६॥

अथ मोहः
निरुन्धे दैन्याब्धिं हरति गुरुचिन्ता परिभवं
विलुम्पत्युन्मादं स्थगयति बलाद्बाष्पलहरीं ।
इदानीं कंसारे कुवलयदृशः केवलं इदं
विधत्ते साचिव्यं तव विरहमूर्च्छासहचरी ॥१७७॥

अथ मृत्युः, यथा हंसदूते
अये रासक्रीडारसिक मम सख्यां नवनवा
पुरा बद्धा येन प्रणयलहरी हन्त गहना ।
स चेन्मुक्तापेक्षस्त्वमपि धिगिमां तुलशकलं
यदेतस्या नासानिहितमिदमद्यापि चलति ॥१७८॥

प्रवासविप्रलम्भेऽस्मिन्दशास्तास्ता हरेरपि ।
अत्रोपलक्षणायैकं उदाहरणं ईर्यते ॥१७९॥

यथा
क्रीडारत्नगृहे विडम्बितपयःफेनावलीमार्दने
तल्पे नेच्छति कल्पशाखिचमरीरम्येऽपि राज्ञां सुताः ।
किन्तु द्वारवतीपतिर्व्रजगिरिद्रोणीविलान्तःशिला
पर्यङ्कोपरि राधिकारतिकलां ध्यायन्मुहुः क्लाम्यति ॥१८०॥

प्रोक्तानां प्रेमभेदानां विविधत्वाद्दशा अपि ।
विविधाः स्युरिहेत्येता भूमभीत्या न कीर्तिताः ॥१८१॥
एतास्तु प्रेमभेदानां अनुभावतया दशाः ।
साधारण्यः समस्तानां प्रायशः सम्भवन्त्यपि ॥१८२॥
किन्त्वत्रैवाधिरूढस्य मोहनत्वं अपेयुषः ।
असाधारणरूपास्तु तत्प्रसङ्गे पुरोदिताः ॥१८३॥
विप्रलम्भं परं केचित्करुणाभिधं उचिरे ।
स प्रवासविशेषत्वान्नैवात्र पृथगीरितः ॥१८४॥

इति विप्रलम्भभेदाः
अथ संयोगवियोगस्थितिः

हरेर्लीलाविशेषस्य प्रकटस्यानुसारतः ।
वर्णिता विरहावस्था गोष्ठवामभ्रुवां असौ ॥१८५॥
वृन्दारण्ये विहरता सदा रासादिविभ्रमैः ।
हरिणा व्रजदेवीनां विरहोऽस्ति न कर्हिचित्  ॥१८६॥

तथा च पाद्मे पातालखण्डे मथुरामाहात्म्ये
गोगोपगोपिकासङ्गे यत्र क्रीडति कंसहा ॥१८७॥
इति ।

इति संयोगवियोगस्थितिः

अथ सम्भोगः

दर्शनालिङ्गनादीनां आनुकूल्यान्निषेवया ।
यूनोरुल्लासं आरोहन्भावः सम्भोग उच्यते ॥१८८॥
मनीषिभिरयं मुखो गौणश्चेति द्विधोदितः ॥१८९॥
तत्र मुख्यः
मुख्यो जाग्रदवस्थायां सम्भोगः स चतुर्विधः ॥१९०॥
तान्पूर्वरागतो मानात्प्रवासद्वयतः क्रमात् ।
जातान्संक्षिप्तसङ्कीर्णसम्पन्नर्द्धिमतो विदुः ॥१९१॥
तत्र सङ्क्षिप्तः
युवानौ यत्र संक्षिप्तान्साध्वसव्रीडितादिभिः ।
उपचारान्निषेवेते स संक्षिप्त इतीरितः ॥१९२॥

तत्र नायकेन कृतः, यथा सप्तशत्याम्
लीलाहितुलिअसेलो रक्खौ वो राहिआत्थणप्फंसे ।
हरिणो पढमसमागमसज्झसबेबेल्लिओ हत्थो ॥१९३॥
(लीलाभितुलितशैलो रक्षतु वो राधिकास्तनस्पर्शे ।
हरेः प्रथमसमागमसाध्वसवेवेल्लितो हस्तः॥)

नायिकायाः, यथा
चुम्बे पटावृतमुखी नवसङ्गमेऽभू
दालिङ्गने कुटिलिताङ्गलता तदासीत् ।
अव्यक्तवागजनि केलिकथासु राधा
मोदं तथापि विदधे मधुसूदनस्य ॥१९४॥

अथ सङ्कीर्णः
यत्र सङ्कीर्यमाणाः स्युर्व्यलीकस्मरणादिभिः ।
उपचाराः स सङ्कीर्णः किञ्चित्तप्तेक्षुपेशलः ॥१९५॥

यथा
सासूयजल्पितसुधानि समत्सराणि
मनोपरामरमणीयदृगिङ्गितानि ।
कंसद्विषः स्फुरदमन्दमुखान्यनङ्ग
विक्रीडितानि सह राधिकया जयन्ति ॥१९६॥

यथा वा
वक्त्रं किञ्चिदवाञ्चितं विवृणुते नातिप्रसादोदयं
दृष्टिर्भुग्नतटा व्यनक्ति शनकैरीर्ष्यावशेषच्छटां ।
राधायाः सखि सूचयत्यविशदा वागप्यसूयाकलां
मानन्तं ब्रुवती तथापि मधुरा कृष्णं धिनोत्याकृतिः ॥१९७॥

अथ सम्पन्नः
प्रवासात्सङ्गते कान्ते भोगः सम्पन्न ईरितः ।
द्विधा स्यादागतिः प्रादुर्भावश्चेति स सङ्गमः ॥१९८॥

तत्र आगतिः
लौकिकव्यवहारेण स्यादागमनं आगतिः ॥१९९॥

यथा उद्धवसन्देशे
मा मन्दाक्षं कुरु गुरुजनाद्देहलीं गेहमध्या
देहि क्लान्ता दिवसमखिलं हन्त विश्लेषतोऽसि ।
एष स्मेरो मिलति मृदुले वल्लवीचित्तहारी
हारी गुञ्जावलिभिरलिभिर्लीढगन्धो मुकुन्दः ॥२००॥

अथ प्रादुर्भावः
प्रेष्ठानां प्रेमसंरम्भविह्वलानां पुरो हरिः ।
आविर्भवत्यकस्माद्यत्प्रादुर्भावः स उच्यते ॥२०१॥

यथा श्रीदशमे
तासां आविरभूच्छौरिः स्मयमानमुखाम्बुजः ।
पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः  ॥२०२॥

यथा वा हंसदूते
अयि स्वप्नो दूरे विरमतु समक्षं शृणु हठा
दविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया ।
वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुका
दकाण्डे यद्भूयः स्मरकलहपाण्डित्यमतनोत्  ॥२०३॥

रूढाख्यभावजातोऽयं सम्भोगो वैप्रलम्भिकः ।
निर्भरानन्दपुराणां परमावधिरिष्यते ॥२०४॥
द्विगुणा विरहार्तिः स्यात्स्फुरणे वेणुरागजे ।
प्रादुर्भावे भवत्यत्र सर्वाभीष्टसुखोत्सवः ॥२०५॥

अथ समृद्धिमान्
दुर्लभालोकयोर्यूनोः पारतन्त्र्याद्वियुक्तयोः ।
उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥२०६॥

यथा ललितमाधवे
दग्धं हन्त दधानया वपुरिदं यस्यावलोकाशया
सोढा मर्मविपाटने पटुरियं पीडातिवृष्टिर्मया ।
कालिन्दीयतटीकुटीरकुहरक्रीडाभिसारव्रती
सोऽयं जीवितबन्धुरिन्दुवदने भूयः समालिङ्गितः ॥२०७॥

यथा वा
तवात्र परिमृग्यता किं अपि लक्ष्म साक्षादियं
मया त्वं उपसादिता निखिललोकलक्ष्मीरसि ।
यथा जगति चञ्चता चणकमुष्टिसम्पत्तये
जनेन पतिता पुरः कनकवृष्टिरासाद्यते ॥२०८॥

इति मधुररसपरिपाकविवेकः ।

अथ गौणसम्भोगः

छन्नप्रकाशभेदेन कैश्चिदेषां द्विरूपता ।
इष्टाप्यत्र न हि प्रोक्ता नात्युल्लासकरी यतः ॥२०९॥

अथ गौणः
स्वप्ने प्राप्तिविशेषोऽस्य हरेर्गौण इतीर्यते ।
स्वप्नो द्विधात्र सामान्यविशेषत्वेन कीर्तितः ॥२१०॥
सामान्यः स तु यः पूर्वं कथितो व्यभिचारिषु ।
विशेषः खलु जागर्या निर्विशेषओ महाद्भुतः ॥२११॥
भावौत्कण्ठ्येमयो ह्येष चतुर्धा पूर्ववन्मतः ॥२१२॥

तत्र स्वप्ने सङ्क्षिप्तो, यथा
विहारं कुर्वाणस्तरणितनयातीरविपिने
नवाम्भोदश्रेणीमधुरिमविडम्बिद्युतिभरः ।
विदग्धानां चूडामणिरनुदिनं चुम्बति मुखं
मम स्वप्ने कोऽपि प्रियसखि बलीयान्नवयुवा ॥२१३॥

अथ स्वप्ने सङ्कीर्णो, यथा
सखि क्रुद्धा मा भूर्लघुरपि न दोषः सुमुखि मे
न मानाग्निज्वालां अशमयं अहं तां असमये ।
स धूर्तस्ते स्वप्ने रसवृष्टिं मयि तथा
यतो विस्तीर्णापि स्वयं इयं अयासीदुपशमम् ॥२१४॥

अथ स्वप्ने सम्पन्नः, यथा हंसदूते
प्रयातो मां हित्वा यदि कठिनचूडामणिरसौ
पर्यातु स्वच्छन्दं मम समयधर्मः किल गतिः ।
इदं सोढुं का वा प्रभवति यतः स्वप्नकपटा
दिहायातो वृन्दावनभुवि कलान्मां रमयति ॥२१५॥

अथ स्वाप्नसमृद्धिमान्, यथा ललितमाधवे
चिरादद्य स्वप्ने मम विविधयत्नादुपगते
प्रपेदे गोविन्दः सखि नयनयोरक्षणभुवं ।
गृहीत्वा हा हन्त त्वरितं अथ तस्मिन्नपि रथं
कथं प्रत्यासन्नः स खलु पुरुषो राजपुरुषः ॥२१६॥

तुल्यस्वरूप एवायं प्रोद्यन्यूनोर्द्वयोरपि ।
ऊषानिरुद्धयोर्यद्वत्क्वचित्स्वप्नोऽप्यबाधितः ॥२१७॥
अतएव हि सिद्धानां स्वप्नेऽपि परमाद्भुते ।
प्राप्तानि मण्डनादीनि दृश्यन्ते जागरेऽपि च ॥२१८॥
व्यतीत्य तुर्यां अपि संश्रितानां
तां पञ्चमीं प्रेममयीं अवस्थां ।
न सम्भवत्येव हरिप्रियाणां
स्वप्नो रजोवृत्तिविजृम्भितो यः ॥२१९॥
इत्येष हरिभावस्य विलासः कोऽपि पेशल ।
चित्रस्वप्नं इवातन्वन्कृष्णः सङ्गमयत्यलम् ॥२२०॥
अथैतेषु निरूप्यन्ते तद्विशेषाः सुपेशलाः ।
येऽनुभावदशां अस्याः प्राप्नुवन्ति रतेः स्फुटम् ॥२२१॥
ते तु सन्दर्शनं जल्पः स्पर्शनं वर्त्मरोधनं ।
रासवृन्दावन्क्रीडायमुनाद्यम्बुकेलयः ॥२२२॥
नौखेला लीलया चौर्यं घट्टः कुञ्जादिलीनता ।
मधुपानं वधूवेशधृतिः कपटसुप्तता ॥२२३॥
द्यूतक्रीडा पटाकृष्टिश्चुम्बाश्लेषौ नखार्पणं ।
बिम्बाधरसुधापानः सम्प्रयोगादयो मताः ॥२२४॥

तत्र सन्दर्शनं, यथा ललितमाधवे
चलाक्षिगुरुलोकतः स्फुरति तावदन्तर्भयं
कुलस्थितिरलं तु मे मनसि तावदुन्मीलति ।
चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं
न यावदपरोक्षतां इदं अपैति वक्त्राम्बुजम् ॥२२५॥

अथ जल्पः
जल्पः परस्परं गोष्ठी वितथोक्तिश्च कथ्यते ॥२२६॥

अत्र परस्परः गोष्ठी, यथा दानकेलिकौमुद्यां
धर्षणे नकुलस्त्रीणां भुजङ्गेशः क्षमः कथं ।
यदेता दशनैरेष दशन्नाप्नोति मङ्गलम् ॥२२७॥

अप्रौढद्विजराजराजदलिका लब्धा विभूतिं रुचां
नव्यां आत्मनि कृष्णवर्त्मविलसद्दृष्टिर्विशाखाञ्चिता ।
कन्दर्पस्य विदग्धतां विदधती नेत्राञ्चलस्य त्विषा
त्वं राधे शिवमूर्तिरित्युरसि मां भोगीन्द्रं अङ्गीकुरु ॥२२८॥

वितथोक्तिः, यथा तत्रैव
अस्मिन्नद्रौ कति न हि मया हन्त हारादिवित्तं
हारं हारं हरिणनयना ग्राहिता जैनदीक्षां ।
याः काकूक्तिस्थगितवदनाः पत्रदानेन दीनास्
तूर्णं दूरादनुजगृहिरे प्रौढवल्लीसखीभिः ॥२२९॥

अथ स्पर्शनम्, यथा
न कुरु शपथं अस्य स्पर्शतो दूषितोच्चैर्
असि भुजभुजगेन त्वं भुजङ्गाधिपस्य ।
तनुरनुपमकम्पा स्वेदं अभ्युद्गिरन्ती
कपटिनि परितस्ते पश्य रोमाञ्चितास्ति ॥२३०॥
अथ वर्त्मरोधनं, यथा विदग्धमाधवे
वलद्वेत्रं वंशव्यतिकरलसन्मेखलं अमुं ।
अतिक्रम्योत्तुङ्गं धरणिधरं अग्रे कथं इतस्
त्वया गन्तुं शक्या तरणिदुहितुस्तीरसरणी ॥२३१॥

अथ रासो, यथा
हरिर्नवघनाकृतिः प्रतिवधूद्वयं मध्यतस्
तदंसविलसद्भुजो भ्रमति चित्रं एकोऽप्यसौ ।
वधूश्च तडिदुज्ज्वला प्रतिहरिद्वयं मध्यतः
सखीधृतकराम्बुजा नटति पश्य रासोत्सवे ॥२३२॥

अथ वृन्दावनक्रीडा
स्थलकमलमलीनां स्तौति गीतैः पदं ते
रदततिमतिनम्रा वन्दते कुन्दराजी ।
अधरं अनुभजन्ती लम्बते बिम्बमाला
विलसति तव वश्या पश्य वृन्दाटवीयम् ॥२३३॥

यमुनाजलकेलिः, यथा
व्यात्युक्षीयुधि राधया घनरसैः पर्युक्ष्यमाणस्य ते
माल्यं भङ्गं अवाप वीर तिलको यातः किलादृश्यतां ।
वक्त्रेन्दौ प्रतिमाच्छलेन शरणं लब्धः सखीं कौस्तुभस्
तन्मा भूश्चकितो विमुक्तचिकुरं नार्दत्यसौ त्वद्विधम् ॥२३४॥

यथा वा, पद्यावल्यां
जलकेलितरलकरतल
मुक्तपुनःपिहितराधिकावदनः ।
जगदवतु कोकयूनोर्
विघटनसङ्घटनकौतुकी कृष्णः ॥२३५॥

अथ नौखेला, यथा पद्यावल्यां
मुक्ता तरङ्गनिवहेन पतङ्गपुत्री
नव्या च नौरिति वचस्तव तथ्यं एव ।
शङ्कानिदानं इदं एव ममातिमात्रं
त्वं चञ्चलो यदिह माधव नाविकोऽसि ॥२३६॥

अथ लीलाचौर्यम्
लीलाचौर्यं भवेद्वंशीवस्त्रपुष्पादिहारिता ॥२३७॥

अथ वंशीचौर्यम्, यथा पद्यावल्यां
नीचैर्न्यासादथ चरणयोर्नूपुर मूकयन्ती
धृत्वा धृत्वा कतकवलयान्युत्क्षिपन्ती भुजान्ते ।
मुद्रां अक्ष्णोश्चकितं शश्वदालोकयन्ती
स्मित्वा स्मित्वा हरति मुरलीं अङ्कतो माधवस्य ॥२३८॥

अथ वस्त्रचौर्यं, यथा
छदावलिवृतैव नः सपदि काचिदेका व्रजं
प्रविश्य जरतीरिहानयतु घोरकर्मोद्धताः ।
अयं गुणनिधिस्तरोरुपरि ताभिरभ्यर्च्यताम्
उमाव्रतकुमारिकापटलचेलपाटच्चरः ॥२३९॥

अथ पुष्पचौर्यं, यथा
अयि ज्ञातं ज्ञातं हरसि हरिणाक्षि प्रतिदिनं
त्वं एव प्रच्छन्ना मम सुमनसां मञ्जरिं इतः ।
चिराद्दिष्ट्या चौरि त्वं इह विधृताद्य स्वयं अतो
गुहाकारां आरात्प्रविश वसतिं प्रौढिभिरलम् ॥२४०॥

अथ घट्टः, यथा दानकेलिकौमुद्यां
घट्टाधिराजं अवमत्य विवादं एव
यूयं यदाचरथ शुल्कं अदित्यमानाः ।
मन्ये विधित्सथ तदत्र गिरेस्तटेषु
दुर्गेषु हन्त विषमेषु रणाभियोगम् ॥२४१॥

अथ कुञ्जादिलीनता, यथा विदग्धमाधवे
शङ्के सङ्कुलितान्तराद्य निविडक्रीडानुबन्धेच्छया
कुञ्जे वञ्जुलशाखिनः शशिमुखी लीना वरीवर्ति सा ।
नो चेदेष तदङ्घ्रिसङ्गमविनाभावादकाले कथं
पुष्पामोदनिमन्त्रितालिपटलीस्तोत्रस्य पात्रीभवेत्  ॥२४२॥

अथ मधुपानं, यथा
मुखविधुं उदितं मधुद्विषोऽसौ
मधुचषके मधुरं समीक्ष्य मुग्धा ।
अदिशत दृशं एव तत्र पातुं
न तु वदनं मुहुरर्थितापि तेन ॥२४३॥

अथ वधूवेशधृतिः, यथा उद्धवसन्देशे
केयं श्यामा स्फुरति सरले गोपकन्या किमर्थं
प्राप्ता सख्यं तव मृगयते निर्मितासौ वयस्या ।
आलिङ्गामूं मुहुरिति तथा कुर्वती मां विदित्वा
नारीवेशं ह्रियमुपययौ मानिनी यत्र राधा ॥२४४॥

कपटसुप्तता, यथा कर्णामृते
स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमं ।
श्रोतुं श्रोत्रमनोहरं व्रजवधूलीलामिथो जल्पितं
मिथ्यास्वापं उपास्महे भगवतः क्रीडानिमीलद्दृशः ॥२४५॥

अथ द्यूतक्रीडा
जित्वा द्यूतपणं दशत्यघहरे गण्डं मुदा दक्षिणं
सा वामं च दशेति तत्र रभसादक्षं क्षिपन्त्यभ्यधात् ।
आज्ञां सुन्दरि ते यथेति हरिणा वामे च दष्टे ततः
संरम्भादिव सा भुजालतिकया कण्ठे बबन्ध प्रियम् ॥२४६॥

अथ पट्टाकृष्टिः, यथा ललितमाधवे
धन्यः सोऽयं मणिरविरलध्वान्तपुञ्जे निकुञ्जे
स्मित्वा स्मित्वा मयि कुचपटीं कृष्टवत्युन्मदेन ।
गाढं गूढाकृतिरपि तया मन्मुखाकुतवेदी
निष्ठीवन्यः किरणलहरीं ह्रेपयामास राधाम् ॥२४७॥

अथ चुम्बो, यथा
कपटचटुलितभ्रुवः समन्ता
न्मुखशशिनः रभसाद्विधूयमानं ।
दनुजरिपुरचुम्बदम्बुजाक्ष्याः
कमलं इवानिलकम्पि चञ्चरीकः ॥२४८॥

अथ आश्लेषो, यथा
नवजागुडवर्णयोपगूढः
स्फुरदभ्रद्युतिरेतयोन्मदेन ।
हरति स्म हरिर्हिरण्यवल्ली
परिवीताङ्गतमालमङ्गलानि ॥२४९॥

अथ नखक्षतं, यथा
न कुचाविमौ गतिजिता तया हृतं
गजतः प्रसह्य सखि कुम्भयोर्युगं ।
क्षतं अत्र नागदमनो यदर्पय
त्परमङ्गजाङ्कुशवरेण तत्क्षणम् ॥२५०॥

अथ बिम्बाधरसुधापानं, यथा
न हि सुधाकरबिम्बसुधाकरं
कुरु मुखं करभोरु करावृतं ।
अधररङ्गणं अङ्ग वराङ्गने
पिबतु नीपवनीभ्रमरस्तव ॥२५१॥

अथ सम्प्रयोगो, यथा
द्राग्दोर्मण्डलपीडनोद्धुरधियः प्रोद्दामवैजात्यया
निर्बन्धादधरामृतानि पिबतः सीत्कारपूर्णास्यया ।
कन्दर्पोत्सवपण्डितस्य मणिअतिराक्रान्तकुञ्जान्तया
सार्धं राधिकया हरेर्निधुवनक्रीडाविधिर्वर्धते ॥२५२॥

विदग्धानां मिथो लीलाविलासेन यथा सुखं ।
न तथा सम्प्रयोगेण स्यादेवं रसिका विदुः ॥२५३॥

यथा
बलेन परिरम्भणे नखशिखाभिरुल्लेखनं
हठादधरखण्डने भुजयुगेन बन्धक्रियां ।
दुकूलदलने हतिः कुवलयेन कुर्वाणया
रतादपि सुखं हरेरधिकं आदधे राधया ॥२५४॥

यथा वा
नर्मोत्सेककलादृगञ्चलचमत्कारी भ्रुवोर्विभ्रमः
संव्यानस्य विकर्षण् चटुलतां कर्णोत्पलेनाहतिः ।
क्रीडेयं व्रजनागरीरतिगुरोर्गान्धर्विकायास्तथा
भूयिष्ठं सुरतोत्सवादपि नवास्वादं वितेने सुखम् ॥२५५॥

अतएव श्रीगीतगोविन्दे प्रत्यूहपुलकाङ्कुरेण निविडलेशनिमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभुद्
उद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥२५६॥

यथा
गोकुलानन्द गोविन्द गोष्ठेन्द्रकुलचन्द्रमः ।
प्राणेश सुन्दरोत्तंस नागराणां शिखामणेः ॥२५७॥
वृन्दावनविधो गोष्ठयुवराज मनोहर ।
इत्याद्या व्रजदेवीनां प्रेयसी प्रणयोक्तयः ॥२५८॥

अतुलत्वादपारत्वादाप्तोऽसौ दुर्विगाहतां ।
स्पृष्टः परं तटस्थेन रसाब्धिर्मधुरो मया ॥
अयं उज्ज्वलनीलमणिर्गहनमहाघोषसागरप्रभवः ।
भजतु तव मकरकुण्डलपरिसरसेवौचितीं देव ॥

इति सम्भोगभेदाः ।
इति श्रीश्रीउज्ज्वलनीलमणौ शृङ्गारभेदप्रकरणं ।

सम्पूर्णोऽयं श्रीश्रीलरूपगोस्वामि
प्रभुपादप्रणीतश्रीश्रीउज्ज्वलनीलमणिर्नाम ग्रन्थः ।


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:08.1770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पंज

  • वि. पांच . - मुधो . ( अर .) 
  • पु. तेलांत बुडविलेल्या सरकी वगैरेचा पूंजा . 
  • a  (Five.) Of five years of age-a horse. A term of jockeys and horsedealers. 
  • ०पेटविणें अशा तर्‍हेचें सरकी , पेंड वगैरेचे पलिते पेटविणें . पूर्वी रात्रीच्या लढाईच्या वेळीं असें पंज पेटवीत . 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.