TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्थायिभावप्रकरणम्

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान् ग्रंथ उज्ज्वलनीलमणिः होय.


स्थायिभावप्रकरणम्
स्थायिभावोऽत्र शृङ्गारे कथ्यते मधुरा रतिः ॥१॥

सा, यथा गोविन्दविलासे
कालाहिवक्त्रविलसद्रसनाग्रजाग्रद्
गोपीदृगञ्चलचमत्कृतिबिद्धमर्मा ।
शर्मादिशत्वरुणघूर्णितलोचनान्तः
सञ्चारचूर्णितसतीहृदयो मुकुन्दः ॥२॥

यथा वा दानकेलिकौमुद्यां
गोवर्धनगिरिं उपेत्य कटाक्षबाणान्
कर्णस्फुरन्मणिज़िलोपरि सङ्क्षुवाना ।
का भ्रूधनुर्धुवनसूचितलुञ्चनेयं
व्यग्रीकरोत्यहह मां अपि सम्भ्रमेण ॥३॥

अभियोगाद्विषयतः सम्बन्धादभिमानतः ।
सा तदीयविशेषेभ्य उपमातः स्वभावतः ।
रतिराविर्भवेदेषां उत्तमत्वं यथोत्तरम् ॥४॥

तत्र अभियोगः
अभियोगो भवेद्भावव्यक्तिः स्वेन परेण च ॥५॥

तत्र स्वेनाभियोगाद्, यथा
मदधरविलुठद्विलोचनान्तं
मृदुललतानवपल्लवं दशन्तं ।
सखि हरिं अवलोक्य भानुजाया
स्तटविपिने स्फुटदन्तरास्मि जाता ॥६॥

यथा वा
कुवलयविपिनान्यसौ सृजन्ती
दिशि दिशि लोचनचापलाच्चलाक्षी ।
हरति तरणिजातटे पुरः का
सुबल बलान्मम चित्तचञ्चरीकम् ॥७॥

परेणाभियोगाद्, यथा
त्वदीयं आपीय गतावलम्बा
संवादमाध्वीकं अतीव साध्वी ।
आघूर्णमाना व्रजराजसूनो
नीवीं स्खलन्तीं न विदाञ्चकार ॥८॥

अथ विषयाः
शब्दस्पर्शादयः पञ्च विषयाः किल विश्रुताः ॥९॥

तत्र शब्दाद्, यथा विदग्धमाधवे
नादः कदम्बविटपान्तरतो विसर्पन्
को नाम कर्णपदवीं अविशन्न जाने ।
हा हा कुलीनगृहिणीगणगर्हणीयां
येनाद्य कां अपि दशां सखि लम्भितासि ॥१०॥

यथा वा, तत्रैव
एकस्य श्रुतं एव लुम्पति मतिं कृष्णेति नामाक्षरं
सान्द्रोन्मादपरम्परां अपनयत्यन्यस्य वंशीकलः ।
एष स्निग्धघनद्युतिर्मनसि मे लग्ना सकृद्वीक्षणात्
कष्टं धिक्पुरुषत्रये रतिरभून्मन्ये मृतिः श्रेयसी ॥११॥

स्पर्शाद्, यथा
व्रजं मुष्टिग्राह्ये तमसि निगिरत्यङ्गं इह मे
सखि स्पर्शं दैवाद्यदवधि परं कस्यचिदगात् ।
गृहीता जागर्या तदवधि सदैवाङ्गजगणैः
सशङ्कैर्या पश्य क्षणं अपि न साद्यान्प्युपरता ॥१२॥

रूपाद्, यथा हंसदूते
कृताकृष्टिक्रीडं किं अपि तव रूपं मम सखी
सकृद्दृष्ट्वा दूरादहितहितबोधोज्झितमतिः ।
हता सेयं प्रेमानलं अनु विशन्ती सरभसं
पतङ्गीवात्मानं मुरहर मुहुर्दाहितवती ॥१३॥

रसाद्, यथा
पुलकयति यदङ्गं सेवते गात्रभङ्गं
वहति हृदि तरङ्गं सद्य एवाद्य मुग्धा ।
तदघदमनवक्त्रोद्गीर्णताम्बूलं अल्पं
स्फुटं अविदितं आस्ये न्यस्तं अस्यास्त्वयालि ॥१४॥

गन्धाद्, यथा
विभ्राजन्ते क्व सखि सुखिनः शाखिनो मोहनास्ते
येषां पुष्पैरियं अनुपमा वैजयन्ती कृतास्ति ।
पश्याकृष्टभ्रमरपटला यातयामापि कामं
या भूयोभिर्मम परिमलैः स्तम्भयत्यद्य चेतः ॥१५॥

लोकोत्तरपदार्थानां प्रभावः कोऽप्यनर्गलः ।
रतिं तद्विषयं चासौ भासयेत्तूर्णं एकदा ॥१६॥

अथ सम्बन्धः
सम्बन्धः कुलरूपादिसामग्रीगौरवं भवेत्  ॥१७॥

ततो यथा
वीर्यं कन्दुकितादिर्रूपं अखिलक्ष्मामण्डलीमण्डनं
जन्माभीरपुरन्दरस्य भवने पारेपरार्धं गुणाः ।
लीला क्वापि जगच्चमत्कृतिकरीत्येतस्य लोकोत्तरा
वृत्तिर्वेणुधरस्य दुर्मुखि धृतिं कस्याः क्षणं रक्षति ॥१८॥

अथ अभिमानः
सन्तु रम्याणि भूरीणि प्रार्थ्यं स्यादिदं एव मे ।
इति यो निर्णयो धीरैरभिमानः स उच्यते ॥१९॥

ततो यथा
स्फुरन्तु बहवः क्षितौ मधुरिमोर्मिधौरेयका
विदग्धमणयो गुणावलिपतिंवराभिर्वृताः ।
न यस्य शिखिचन्द्रं शिरसि नैव वेणुर्मुखे
न धातुवचना तनौ सखि तृणाय मन्ये न तम् ॥२०॥

अथ तदीयविशेषाः
तदीयानां विशेषाः स्युः पदगोष्ठप्रियादयः ॥२१॥

तत्र पदानि
पदान्यत्र पदाङ्काः स्युः ॥२२॥

ततो यथा
स्फुरति सखि रथाङ्गाम्भोजदम्भोलिभाजां
तटभुवि विशदेयं कस्य पङ्क्तिः पदानां ।
हृदयं अघृणघूर्णाघ्रातं उद्घाटयन्ती
मम तनुलतिकायां कुड्मलं या तनोति ॥२३॥

अथ गोष्ठम्
गोष्ठं वृन्दावनाश्रितम् ॥२४॥

ततो, यथा
मदयति हृदयं सखि व्रजोऽयं
मधुरिमभिः क्वचिदप्यदृष्टपूर्वैः ।
इह विहरति कोऽपि नागरेन्दर
स्त्रिभुवनमण्डलमूर्तिरित्यवेहि ॥२५॥

अथ प्रियजनः
प्रौढभावानुबिद्धो यस्तस्य प्रियजनोऽत्र सः ॥२६॥

ततो, यथा
गुरुभिर्निषिद्धा तां अहं यावदक्ष्णोः
पदं अनयमनन्तश्रेयसां सद्म राधां ।
तृषितं इव मनो मे प्रेक्षते तन्वि तावद्
दिशि दिशि विहरन्तीं श्यामलां शालभञ्जीम् ॥२७॥

अथ उपमा
यथा कथञ्चिदप्यस्य सादृश्यं उपमोदिता ॥२८॥

ततो, यथा
नवाम्बुधरमाधुरी स्फुरति मूर्तिरुर्वीतले
कृशोदरि दृशोरियात्पथि किं ईदृशो वा युवा ।
पुरः सुमुखि गोपतेः सदै सन्निविष्टस्य मे
पितुर्वितनुते नटो यं अनुकृत्य नृत्यक्रमम् ॥२९॥
यथा वा
स्फुरत्येष प्रेयानिव नवघनस्तस्य सुभगे
शिखण्डीनां श्रेणीं तुलयति सुरेन्द्रायुधं इदं ।
असौ वासो लक्ष्मीरिव विहरते विद्युदिति सा
निशम्योदस्राक्षी त्वयि निहितबुद्धिर्निवसति ॥३०॥

अथ स्वभावः
भैर्हेत्वनपेक्षी तु स्वभावोऽर्थः प्रकीर्तितः ।
निसर्गश्च स्वरूपं चेत्येषोऽपि भवति द्विधा ॥३१॥

अत्र निसर्गः
निसर्गः सुदृढाभ्यासजन्यः संस्कर उच्यते ।
तदुद्भोधस्य हेतुः स्याद्गुणरूपश्रुतिर्मनाक् ॥३२॥

ततो, यथा
स तर्जतु बताग्रजं त्यजतु मां सुहृन्मण्डलः
पिता किल विलज्जतां घनदृगम्बुरम्बास्तु मे ।
मनः सखि समीहते श्रुतगुणश्रियं सर्वथा
तं एव यदुपुङ्गवं न तु कदापि चैद्यं नृपम् ॥३३॥

यथा वा
असुन्दरः सुन्दरशेखरो वा
गुणैर्विहीनो गुणिनां वरो वा ।
द्वेषी मयि स्यात्करुणाम्बुधिर्वा
श्यामः स एवाद्य गतिर्ममायम् ॥३४॥

अथ स्वरूपम्
अजन्यस्तु स्वतःसिद्धः स्वरूपं भाव इष्यते ।
एतत्तु कृष्णललनोभयनिष्ठतया त्रिधा ॥३५॥

अथ कृष्णनिष्ठम्
कृष्णनिष्ठं स्वरूपं स्याददैत्यैः सुगमं जनैः ॥३६॥

ततो, यथा
इयं व्यक्तिर्गोपी न भवति पुरः किन्तु कुतुकी
हरिर्नारीवेशो यदखिलसुरस्त्रीर्धुवति नः ।
जगन्नेत्रश्रेणीतिमिरहरणायाम्बरमणिं
विना कस्यान्यस्य प्रियसखि भवेदौपयिकता ॥३७॥

अथ ललनानिष्ठम्
स्वरूपं ललनानिष्ठं स्वयं उद्बुद्धतां व्रजेत् ।
अदृष्टेऽप्यश्रुतेऽप्युच्चैः कृष्णे कुर्याद्द्रुतं रतिम् ॥३८॥

ततो, यथा
जिहीते यः कक्षां क्वचिदलं अदृष्टाश्रुतचर
त्रिलोक्यां अस्तीति क्षणं अपि न सम्भावनमयीं ।
घनश्यामं पीताम्बरं अहह सङ्कल्पयदमुं
जनं कञ्चिद्गोष्ठे सखि मम वृथा दीर्यति मनः ॥३९॥
अथ उभयनिष्ठम्
तत्स्यादुभयनिष्ठं यत्स्वरूपं कृष्णसुभ्रुवोः ॥४०॥

ततो, यथा ललितमाधवे
सहचरि हरिरेष ब्रह्मवेशं प्रपन्नः
किं अयं इतरथा मे विद्रवत्यन्तरात्मा ।
शशधरमणिवेदी स्वेदधारां प्रसूते
न किल कुमुदबन्धोः कौमुदीं अन्तरेण ॥४१॥

प्रोक्ता अत्राभियोगाद्या विलासाधिक्यहेतवे ।
रतिः स्वभावजैव स्यात्प्रायो गोकुलसुभ्रुवाम् ॥४२॥
साधारणी निगदिता समञ्जसासौ समर्था च ।
कुब्जादिषु महिषीषु च गोकुलदेवीष्ण्ड्च क्रमतः ॥४३॥
मणिवच्चिन्तामणिवत्कौस्तुभमणिवत्त्रिधाभिमता ।
नातिसुलभेयं अभितः सुदुर्लभा स्यादनन्यलभ्या च ॥४४॥

तत्र साधारणी
नातिसान्द्रा हरेः प्रायः साक्षाद्दर्शनसम्भवा ।
सम्भोगेच्छानिदानेयं रतिः साधारणी मता ॥४५॥

यथा श्रीदशमे
सहोष्यतां इह प्रेष्ठ दिनानि कतिचिन्मया ।
रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥४६॥

असान्द्रत्वाद्रतेरस्याः सम्भोगेच्छा विभिद्यते ।
एतस्या ह्रासतो ह्रासस्तद्धेतुत्वाद्रतेरपि ॥४७॥

अथ समञ्जसा
पत्नीभावाभिमानात्मा गुणादिश्रवणादिजा ।
क्वचिद्भेदितसम्भोगतृष्णा सान्द्रा समञ्जसा ॥४८॥

यथा तत्रैव
का त्वा मुकुन्द महती कुलशीलरूप
विद्यावयोद्रविणधामभिरात्मतुल्यं ।
धीरा पतिं कुलवती न वृणीत कन्या
काले नृसिंह नरलोकमनोऽभिरामम् ॥४९॥

समञ्जसातः सम्भोगस्पृहाया भिन्नता यदा ।
तदा तदुत्थितैर्भावैर्वश्यता दुष्करा हरिः ॥५०॥

तथा हि तत्रैव
स्मायावलोकलवदर्शितभावहारि
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।
पत्न्यस्तु षोडशसहस्रं अनङ्गबाणैर्
यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥५१॥

अथ समर्था
कंचिद्विशेषं आयन्त्या सम्भोगेच्छा ययाभितः ।
रत्या तादात्म्यं आपन्ना सा समर्थेति भण्यते ॥५२॥
स्वस्वरूपात्तदीयाद्वा जाता यत्किंचिदन्वयात् ।
समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ॥५३॥

प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते
तस्याः पार्श्वे गुरुभिरभितस्त्वत्प्रसङ्गो न्यवारि ।
श्रुत्वा दूरे तदपि भवतः सा तुलाकोटिनादं
हा कृष्णेत्यश्रुतचरं अपि व्याहरन्त्युन्मदासीत्  ॥५४॥

सर्वाद्भुतविलासोर्मिचमत्कारकरश्रियः ।
सम्भोगेच्छाविशेषोऽस्या रतेर्जातु न भिद्यते ।
इत्यस्यां कृष्णसौख्यार्थं एव केवलं उद्यमः ॥५५॥
पूर्वस्यां स्वसुखायापि  कदाचित्तत्र सम्भवेत्  ॥५६॥
इयं एव रतिः प्रौढा महाभावदशां व्रजेत् ।
या मृग्या स्याद्विमुक्तानां भक्तानां च वरीयसाम् ॥५७॥

यथा श्रीदशमे
एताः परं तनुभृतो भुवि गोपवध्वो
गोविन्द एव निखिलात्मनि रूढभावाः ।
वाञ्छन्ति यद्भवभियो मुनयो वयं च
किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥५८॥

स्याद्दृढेयं रतिः प्रेमा प्रोद्यन्स्नेहः क्रमादयं ।
स्यान्मानः प्रणयो रागोऽनुरागो भाव इत्यपि ॥५९॥
बीजं इक्षुः स च रसः स गुडः खण्ड एव सः ।
स शर्करा सिता सा च सा यथा स्यात्सितोपला ॥६०॥
अतः प्रेमविलासाः स्युर्भावाः स्नेहादयस्तु षट् ।
प्रायो व्यवहिर्यन्तेऽमी प्रेमशब्देन सूरिभिः ॥६१॥
यस्या यादृशजातीयः कृष्णे प्रेमाभ्युदञ्चति ।
तस्यां तादृशजातीयः स कृष्णस्याप्युदीयते ॥६२॥

तत्र प्रेमा
सर्वथा ध्वंसरहितं सत्यपि ध्वंसकारणे ।
यद्भावबन्धनं यूनोः स प्रेमा परिकीर्तितः ॥६३॥

यथा
शपे तुभ्यं धर्मस्थितिमन्युसरन्त्या सखि मया
विशुद्धां उग्राभिर्मुहुरपि निरस्तो भणितिभिः ।
स मुग्धे श्यामात्मा त्यजति न हि मे वर्त्म बत मां
जगारापद्घोरा विरचयतु शास्तिं गृहपतिः ॥६४॥

यथा वा
राधायाः सखि सद्गुणैरनुदिनं रूपानुरागादिभिः
सान्द्रां लब्धवतोरपि व्यसनितां व्याक्षिप्तकान्तान्तरैः ।
प्राप क्वापि परस्परोपरि ययोर्न म्लानतां यस्तयो
स्तं चन्द्रावलिचन्द्रकाभरणयोः को वेत्ति भावक्रमम् ॥६५॥

स त्रिधा कथ्यते प्रौढमध्यमन्दप्रभेदतः ॥६६॥
तत्र प्रौढः
विलम्बादिभिरज्ञातचित्तवृत्तौ प्रिये जने ।
इतरक्लेशकारी यः स प्रेमा प्रौढ उच्यते ॥६७॥

यथा
गत्वा ब्रूहि निकुञ्जसद्मनि सखे खिन्नां मम प्रेयसीं
मा कालात्ययं आकलय्य कमले मय्यप्रतीतिं कृथाः ।
दुष्टं दानवं अत्र गोकुलशिरःशूलं चिकित्सन्नहं
द्रागेष प्रणयेन पल्लवमयीं लब्धोऽस्मि शय्यां तव ॥६८॥

अथ मध्यः
इतरानुभवापेक्षां सहते यः स मध्यमः ॥६९॥

यथा
सर्वारम्भमनोहरां सपदि मे चन्द्रावलीं विन्दतो
रङ्गः शारदशर्वरीसमुचितः पर्याप्तिं एवाययौ ।
तां कन्दर्पचमूचमत्कृतिकरक्रीडोर्मिकिर्मीरितां
राधां हन्त तथापि चित्तं अधुना साक्षान्ममापेक्षते ॥७०॥

अथ मन्दः
सदा परिचितत्वादेः करोत्यत्यन्तिकात्तु यः ।
नैवोपेक्षां न चापेक्षां स प्रेमा मन्द उच्यते ॥७१॥

यथा
अनुमीय रूढमानां आनय भामां सखीं अशोकलतां ।
भवति प्रेमवतीनां मनागुपेक्षापि दोषाय ॥७२॥

अथवा
प्रौढः प्रेमा स यत्र स्याद्विश्लेषस्यासहिष्णुता ॥७३॥

यथा उद्धवसन्देशे
निर्माय त्वं वितर फलकं हारि कंसारिमूर्त्या
वारं वारं दिशसि यदि मां माननिर्वाहनाय ।
यत्पश्यन्ती भवनकुहरे रुद्धकर्णान्तराहं
साहंकारा प्रियसखि सुखं यापयिष्यामि यामम् ॥७४॥

कृच्छ्रात्सहिष्णुता यत्र स तु मध्यम उच्यते ॥७५॥

यथा
अवितथं असौ किं द्राघीयान्गमिष्यति वासरः
सुमुखि स निशारम्भः किंवा समेष्यति मङ्गलः ।
स्मितमुखशशी गोधूलिभिः करम्बितकुन्तलः
क्षपयति दृशां आर्तिं यत्र व्रजेश्वरनन्दनः ॥७६॥

स मन्दः कथितो यत्र भवेत्कुत्रापि विस्मृतिः ॥७७॥

यथा
प्रतिपक्षजनेर्ष्यया न मे
स्मृतिरासीद्वनमाल्यगुम्फने ।
सखि किं करवै गवां पुरो
घनहम्बाध्वनिरेष जृम्भते ॥७८॥

अथ स्नेहः
आरुह्य परमां काष्ठां प्रेमा चिद्दीपदीपनः ।
हृदयं द्रावयन्नेष स्नेह इत्यभिधीयते ।
अत्रोदिते भवेज्जातु न तृप्तिर्दर्शनादिषु ॥७९॥

यथा क्रमदीपिकायां
तदतिमधुररूपकम्रशोभा
मृतरसपानविधानलालसाभ्यां ।
प्रणयसलिलपूरवाहिनीनाम्
अलसविलोलविलोचनाम्बुजाभ्याम् ॥८०॥

यथा वा
ज्योत्स्नशीधुं हरिमुखविधोरप्यनल्पं पिबन्तौ
नान्तस्तृप्तिं तव कथं अपि प्राप्नुतो दृक्चकोरौ ।
आघूर्णन्तौ मदकलतया सुष्ठु मुग्धौ यदेतौ
भूयो भूयस्तं इह वमतो बाष्पपूरच्छलेन ॥८१॥

अङ्गसङ्गे विलोके च श्रवणादौ च स क्रमात् ।
कनिष्ठो मध्यमः श्रेष्ठस्त्रिविधोऽयं मनोद्रवः ॥८२॥

तत्र अङ्गसङ्गे, यथा
असि घनरसरूपस्त्वं पाली लावण्यसारमयमूर्तिः ।
माधव भवदाश्लेषे भविता नास्याः कथं द्रवता ॥८३॥

विलोके, यथा
अस्यास्त्वद्वदने सरोजसुहृदि व्यक्तिं पुरस्ताद्गते
नाश्चर्यं द्रवतां अविन्दत मनोहैयङ्गवीनं यदि ।
किन्त्वाश्चर्यं इदं मुकुन्द मिलिते श्यामामुखेन्दौ भव
च्चेतश्चन्द्रमणिर्द्रवन्जलतया भूयो बभूवाचलः ॥८४॥

श्रवणे, यथा
श्रुतिपरिसरकक्षां याति नाम्नस्तवार्धे
मुरदमन दृगम्भोदारया धौतगात्री ।
मदनमदमधूलीमुग्धमेधासमृद्धिः
स्खलति कुवलयाक्षी जृम्भते स्तम्भते च ॥८५॥

आदिशब्देन स्मरणे, यथा
कृष्णवर्त्मनि कृताभिनिवेशो
साम्प्रतः त्वं असि कम्पितगात्री ।
स्नेहपूरपरिपाकमयं ते
किं भविष्यति मनो न विलीनम् ॥८६॥

स घृतं मधु चेत्युक्तं स्नेहो द्वेधा स्वरूपतः ॥८७॥

तत्र घृतस्नेहः
आत्यन्तिकादरमयः स्नेहो घृतं इतीर्यते ॥८८॥
भावान्तरान्वितओ गच्छन्स्वादोद्रेकं न तु स्वयं ।
घनीभवेन्निसर्गातिशीतलान्मिथ आदरात् ।
गाढादरमयस्तेन स्नेहः स्याद्घृतवद्घृतम् ॥८९॥

यथा
अभुत्थाय विदूरतो मधुभ्ञ्दा याश्लिष्यते सादरं
या स्नेहेन वशीकरोति गुरुणा पावित्र्यपूर्णेन तं ।
क्षिप्रं याति सितोपलेव विलयं तत्केलिवृष्ट्या च या
युक्ता हन्त कयोपमातुं अपि सा चन्द्रावली मे सखी ॥९०॥

यथा वा
निजं अघरिपुणांसे न्यस्तं आकृष्य सव्यं
भुजं इह निदधाना दक्षं अस्रोक्षिताक्षी ।
पदयुगं अपि बङ्कं शङ्कया विक्षिपन्ती
प्रतियुवतिवयस्यां स्मेरयामास गौरी ॥९१॥

आदरो गौरवोत्थः स्यादित्यन्योन्याश्रितद्वयं ।
रत्यादौ सदपि स्नेहे सुव्यक्तत्वादिहोच्यते ॥९२॥
मदीयतातिशयभाक्प्रिये स्नेहो भवेन्मधु ।
स्वयं प्रकटमाधुर्यो नानारससमाहृतिः ॥९३॥
मत्ततोष्मधरः स्नेहो मधुसाम्यान्मधूच्यते ॥९४॥

यथा
राधा स्नेहमयेन हन्त रचिता माधुर्यसारेण सा
सौधीव प्रतिमा घनाप्युरुगुणैर्भावोष्मणा विद्रुता ।
यन्नामन्यपि धामनि श्रवणयोर्याति प्रसङ्गेन मे
सान्द्रानन्दमयी भवत्यनुपमा सद्यो जगद्विस्मृति ॥९५॥

अथ मानः
स्नेहस्तूत्कृष्टतावाप्त्या माधुर्यं मानयन्नवं ।
यो धारयत्यदाक्षिण्यं स मान इति कीर्त्यते ॥९६॥

यथा
स्रवदस्रभरे कृते दृशौ मे
तव गोधूलिभिरेव गोपवीर ।
अधुना वदनानिलैः किं एभि
र्विरमेति भ्रूकुटिं बभार सुभ्रूः ॥९७॥

उदात्तो ललितश्चेति मानोऽयं द्विविधो मतः ॥९८॥

तत्र उदात्तः
उदात्तः स्याद्घृतस्नेहो धारयन्गहनक्रमं ।
दाक्षिण्यभागदाक्षिण्यं वाम्यगन्धं च कुत्रचित्  ॥९९॥

तत्र दाक्षिण्योदात्तो, यथा
राधेति स्खिलाभिधे मयि हठाद्बिद्धान्तराप्यार्तिभिर्
मद्वैलक्ष्यशमाय सा द्विगुणयन्त्यास्यारविन्दे स्मितं ।
जल्पे च म्रदिमानुबिद्धं अधिकं माधुर्यं आतन्वती
चित्राणीव चकार मत्प्रियसुहृद्वृनानि चन्द्रावली ॥१००॥

अथ वाम्यगन्धोदात्तो, यथा श्रीविष्णुपुराणे
काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिं ।
विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥१०१॥

यथा वा
अक्षसंसदि जितापि मृगाक्षी
माधवेन परिरम्भपणेन ।
भुग्नदृष्टिरिह विप्रतिपन्नां
तं करणे रुरुधे परिरिप्सुम् ॥१०२॥

अथ ललितः
मधुस्नेहस्तु कौटिल्यं स्वातन्त्र्यहृदयङ्गमं ।
बिभ्रन्नर्मविशेषं च ललितोऽयं उदीर्यते ॥१०३॥

तत्र कौटिल्यललितो, यथा श्रीदशमे
एका भ्रूकुटिं आबद्ध्य प्रेमसंरम्भविह्वला ।
घ्नतीवैक्षत्सन्दष्टदशनच्छदा  ॥१०४॥

यथा वा
अदत्त मे वर्त्मनि मन्मथोन्मदा
स्वयंग्रहाश्लेषं असौ सखी तव ।
इत्युक्तवन्तं कुटिलीभवन्मुखी
कृष्णं वतंसेन जघान मङ्गला ॥१०५॥

यथा वा
चित्रं चिरस्पर्शसुखाय चुचुके
कुर्वन्तं अक्षिप्रं इयं चलेक्षणा ।
स्विन्नाङ्गुलीकं पुलकाञ्चितश्रिया
सव्येन चिक्षेप कुचेन केशवम् ॥१०६॥

अथ नर्मललितो, यथा दानकेलिकौमुद्यां
मिथ्या जल्पतु ते कथं नु रसना साध्वीसहस्रस्य या
बिम्बोष्ठामृतसेवनादघरिपो पुण्या प्रयत्नादभूत् ।
कस्मादेव बलंत्करोतु च करः सोढुं क्षमः सुभ्रुवां
रक्तः सुष्ठु न नीविबन्धं अपि यः का वान्यबन्धे कथा ॥१०७॥

अथ प्रणयः
मानो दधानो विश्रम्भं प्रणयः प्रोच्यते बुधैः ॥१०८॥

यथा
कुचोपान्ते स्पृष्टा मुरविजयिना तद्भुजशिर
स्तिरोन्यस्तग्रीवा भ्रुवं अनृजुदृष्टिर्विभुजती ।
पटेनास्य म्लानीकृतपुरटभासा पुलकिनी
प्रमोदास्रैर्धौतं निजमुखं इयं मार्ष्टि सुमुखी ॥१०९॥
स्वरूपं प्रणयस्यास्य विश्रम्भः कथितो बुधैः ।
विश्रम्भोऽपि द्विधा मैत्रं सख्यं चेति निगद्यते ॥११०॥

तत्र मैत्रं
भावज्ञैः प्रोच्यते मैत्रं विश्रम्भो विनयान्वितः ॥१११॥

यथा श्रीदशमे
काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिनां मुदा ।
काचिद्दधार तद्बाहुं अंसे चन्दनरूषितम् ॥११२॥

यथा वा
न हि सङ्कुच पङ्कजेक्षणः
पादयोस्ते निदधातु नूपुरौ ।
अनयोर्ध्वनिभिर्विलज्जतां
कलहंसीव विपक्षकामिनी ॥११३॥

अथ सख्यम्
विस्रम्भं साध्वसोन्मुक्तः सख्यं स्ववशतामयः ॥११४॥

यथा
सरभसं अधिकण्ठं अर्पिताभ्यां
दनुजरिपोर्निजबाहुवल्लरीभ्यां ।
निटिलं अवनमय्य तस्य कर्णे
सखि कथितं किं इव त्वया रहस्यम् ॥११५॥

यथा वा श्रीविष्णुपुराणे
यदि ते तद्वचः सत्यं सत्यात्यर्थं प्रियेति मे ।
मद्गेहनिष्कुटार्थाय तदायं नीयतां तरुः ॥११६॥

यथा वा
विन्यस्य वक्षोरुहकोरकद्वयीं
वक्षःस्थले कंसहरस्य हारिणीं ।
पत्राङ्कुरं कुङ्कुमबिन्दुनालिके
लिखत्यसौ चन्द्रमुखी सखी मम ॥११७॥

यथा वा श्रीदशमे
ततो गत्वा वनोद्देशे दृप्ता केशवं अब्रवीत् ।
न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥११८॥

जनित्वा प्रणयः स्नेहात्कुत्रचिन्मानतां व्रजेत् ।
स्नेहान्मानः क्वचिद्भूत्वा प्रणयत्वं अथाश्नुते ॥११९॥
कार्यकारणतान्योन्ऽन्यं अतः प्रणयमानयोः ।
इत्यत्र पृथगेवासौ विश्रम्भोदाहृतिः कृता ॥१२०॥
उदात्तललिताभ्यां तु मैत्र्यसख्ये सुसङ्गते ।
द्वे सुमैत्र्यसुसख्याख्ये यथासङ्ख्यं उदीरिते ॥१२१॥

तत्र सुमैत्र्यम्
आलीपुरः कथयितुं रजनीरहस्यं
तत्रोद्यते मधुरिपौ मृदुला भ्रमद्भ्रूः ।
उत्क्षिप्य तन्मुखपुटावरणाय हस्तं
न्यञ्चन्मुखी समवरिष्ट पुनर्वराक्षी ॥१२२॥

यथा वा
क्षिप्ते वर्णकभाजने तरणिजापुरे परीहासतः
कृष्णेन भ्रुवं आरचय्य कुटिलां आलोकयन्ती तिरः ।
तारा वक्षसि चित्रं अर्धलिखितं श्रीवत्सविभ्राजिते
काश्मीरेण घनश्रिया निजकुचाकृष्टेन पूर्णं व्यधात्  ॥१२३॥

अथ सुसख्यम्
द्यूते सकृत्पानविधौ पणीकृते
जित्वा द्विरोष्ठं पिबति स्वं अच्युते ।
बबन्ध कण्ठे कुटिलीकृतेक्षणा
तं वामया दोर्लतयास्य वल्लवी ॥१२४॥

यथा वा
आविष्कुर्वति विस्फुरन्नवनखोल्लेखं स्ववक्षस्तटं
कृष्णे पीतदुकूलसङ्कलनया स्मित्वा सखीनां पुरः ।
अभ्रश्यामं उरो रुरोध वलितभ्रूराननं धुन्वती
रोमाञ्चोद्गमकञ्चुकेन कुचयोर्द्वन्द्वेन गान्धर्विका ॥१२५॥

अथ रागः
दुःखं अप्यधिकं चित्ते सुखत्वेनैव रज्यते ।
यतस्तु प्रणयोत्कर्षात्स राग इति कीर्त्यते ॥१२६॥

यथा
तीव्रार्कद्युतिदीपितैरसिलताधाराकरालास्रिभि
र्मार्तण्डोपलमण्डलैः स्थपुटितेऽप्यद्रेस्तटे तस्थुषी ।
पश्यन्ति पशुपेन्द्रनन्दनं असाविन्दीवरैरास्तृते
तल्पे न्यस्तपदाम्बुजेव मुदिता न स्पन्दते राधिका ॥१२७॥

यथा वा पद्यावल्यां
ताराभिसारक चतुर्थनिशाशशाङ्क
कामाम्बुराशिपरिवर्धन देव तुभ्यं ।
अर्घो नमो भवतु मे सह तेन यूना
मिथ्यापवादवचसाप्यभिमानसिद्धिः ॥१२८॥

नीलिमा रक्तिमा चेति रागोऽयं द्विविधो मतः ॥१२९॥

तत्र नीलिमा
नीलीश्यामाभवो रागो नीलिमा कथ्यते बुधैः ॥१३०॥

तत्र नीलीरागः
व्ययसम्भावनाहीनो बहिर्नातिप्रकाशवान् ।
स्वलग्नभावावरणो नीलीरागः सतां मतः ।
यथावलोक्यते चैष चन्द्रावलिमुकुन्दयोः ॥१३१॥

यथा
प्रसन्नविशदाशया विविधमुद्रया निर्मितं
प्रतारणं अपि त्वया गुणतया सदा गृह्णती ।
तथा व्यवजहार सा व्रजकुलेन्द्र चन्द्रावली
सखीभिरपि तर्किता त्वयि यथा तटस्थेत्यसौ ॥१३२॥

अथ श्यामारागः
भीरुतौषधिसेकादिराद्यात्किञ्चित्प्रकाशभाक् ।
यश्चिरेणैव साध्यः स्यात्स श्यामाराग उच्यते ॥१३३॥

यथा
पुरा कुञ्जे मञ्जुन्यवतमसयुक्तेऽपि चकिता
मुरारेर्या पार्श्वे न तरुणि दिवाप्यन्तरं अगात् ।
तमालैः सैवाद्य द्विगुणिततमिस्रेऽपि मुदिता
तमिस्रार्धे मानिन्यहह भवती तं मृगयते ॥१३४॥

अथ रक्तिमा
रागः कुसुम्भमञ्जिष्ठासम्भवो रक्तिमा मतः ॥१३५॥

तत्र कुसुम्भरागः
कुसुम्भरागः स ज्ञेयो यश्चित्ते सज्जति द्रुतं ।
अन्यरागच्छविव्यञ्जी शोभते च यथोचितम् ॥१३६॥

यथा
त्वय्येव श्रवणावधि प्रियसखी या कृष्णबद्धान्तरा
या दृष्टे भुजगेऽपि तावकभुजासाम्यात्प्रमोदोन्मदा ।
प्रेक्ष्य त्वां पुरतोऽद्य कां अपि दशां प्रातास्ति सेयं तथा
न ज्ञायेत यथा किं एष बलवान्रागो विरागोऽथवा ॥१३७॥

सदाधारविशेषेषु कौसुम्भोऽपि स्थिरो भवेत् ।
इति कृष्णप्रणयिषु म्लानिरस्य न युज्यते ॥१३८॥

अथ मञ्जिष्ठरागः
अहार्योऽनन्यसापेक्षो यः कान्त्या वर्द्धते सदा ।
भवेन्माञ्जिष्ठरागोऽसौ राधामाधवयोर्यथा ॥१३९॥

यथा
धत्ते द्रागनुपाधि जन्म विधिना केनापि नाकम्पते
सूतेऽत्याहितसञ्चयैरपि रसं ते चेन्मिथो वर्त्मने ।
ऋद्धिं सञ्चिनुते चमत्कृतिकरोद्दामप्रमोदोत्तरां
राधामाधवयोरयं निरुपमः प्रेमानुबन्धोत्सवः ॥१४०॥

यथा वा विदग्धमाधवे
मया ते निर्बन्धान्मुरजयिनि रागः परिहृत्य
मयि स्निग्धे किन्तु प्रथय परमाशीस्ततिं इमां ।
मुखामोदोद्गारग्रहिलमतिरद्यैव हि यतः
प्रदोषारम्भे स्यां विमलवनमालामधुकरी ॥१४१॥

पूर्वपूर्वस्तु यो भावः सोमाभादौ स राजते ।
तथा भीष्मसुतादौ च श्रीहरेर्महिषीगणे ॥१४२॥
य उत्तरोत्तरो द्वियो राधिकादौ स दीव्यति ।
तथा श्रीसत्यभामायां लक्ष्मणायां अपि क्वचित्  ॥१४३॥
इत्थं भेदेन भावानां सर्वगोकुलसुभ्रुवां ।
आत्मपक्षविपक्षादिभेदाः पूर्वं उदीरिताः ॥१४४॥
या भावान्तरसम्बन्धाज्जायन्ते विविधा भिदाः ।
अपरा अपि भावानां ज्ञेयास्ताः प्रज्ञया बुधैः ॥१४५॥

अथ अनुरागः
सदानुभूतं अपि यः कुर्यान्नवनवं प्रियं ।
रागो भवन्नवनवः सोऽनुराग इतीर्यते ॥१४६॥

यथा दानकेलिकौमुद्यां
प्रपन्नः पन्थानं हरिरसकृदस्मन्नयनयोर्
अपूर्वोऽयं पूर्वं क्वचिदपि न दृष्टो मधुरिमा ।
प्रतीकेऽप्येकस्य स्फुरति मुहुरङ्गस्य सखि या
श्रियस्तस्याः पातुं लवं अपि समर्था न दृगियम् ॥१४७॥

यथा वा
कोऽयं कृष्ण इति व्युदस्यति धृति यस्तन्वि कर्णं विशन्
रागान्धे किं इदं सदैव भवती तस्योरसि क्रीडति ।
हास्यं मा कुरु मोहिते त्वं अधुना न्यस्तास्य हस्ते मया
सत्यं सत्यं असौ दृगङ्गनं अगादद्यैवा विद्युन्निभः ॥१४८॥

परस्परवशीभावः प्रेमवैचित्त्यकं तथा ।
अप्राणिन्यपि जन्माप्तौ लालसाभर उन्नतः ।
विप्रलम्भेऽस्य विस्फूर्तिरित्याद्याः स्युरिह क्रियाः ॥१४९॥

अत्र परस्परवशीभावो, यथा
समारम्भं पारस्परिकविजयाय प्रथन्नतो
रपूर्वा केयं वां अघदमन संरम्भलहरी ।
मनोहस्ती बन्धस्तव यदनया रागनिगडै
स्त्वायाप्यस्याः प्रेमोत्सवनवगुणैश्चित्तहरिणः ॥१५०॥

प्रेमवैचित्त्यसंज्ञस्तु विप्रलम्भः स कथ्यते ॥१५१॥

अप्राणिन्यपि जन्मलालसाभरो, यथा दानकेलिकौमुद्यां
तपस्यामह्क्षामोदरि वरयितुं वेनुषु जनुर्
वरेण्यं मन्येथाः सखि तदखिलानां सुजनुषां ।
तपह्स्तोमेनोच्चैर्यदियं उरर्ञ्कृत्य मुरली
मुरारातेर्बिम्बाधरमधुरिमानं रसयति ॥१५२॥

अथ विप्रलम्भे विस्फूर्तिर्, यथा
ब्रूयास्त्वं मथुराध्वनीन मथुरानाथं तं इत्युच्चकैः
सन्देशं व्रजसुन्दरी कं अपि ते काचिन्मया प्राहिणोत् ।
तत्र क्ष्मापतिपत्तने यदि गतः स्वच्छन्द गच्छाधुना
किं क्लिष्टां अपि विस्फुरन्दिशि दिशि क्लिश्नासि हा मे सखीम् ॥१५३॥
अथ भावः
अनुरागः स्वसंवेद्यदशां प्राप्य प्रकाशितः ।
यावदाश्रयवृत्तिश्चेद्भाव इत्यभिधीयते ॥१५४॥

यथा
राधाया भवतश्च चित्तजतुनी स्वेदैर्विलाप्य क्रमात्
युञ्जन्नद्रिनिकुञ्जकुञ्जरपते निर्धूतभेदभ्रमं ।
चित्राय स्वयं अन्वरञ्जयदिह ब्रह्माण्डहर्म्योदरे
भूयोभिर्नवरागहिङ्गुलभरैः शृङ्गारकारुः कृती ॥१५५॥

मुकुन्दमहिषीवृन्दैरप्यसावतिदुर्लभः ।
व्रजदेव्येकसंवेद्यो महाभावाख्ययोच्यते ॥१५६॥
वरामृतस्वरूपश्रीः स्वं स्वरूपं मनो नयेत्  ॥१५७॥
स रूढश्चाधिरूढश्चेत्युच्यते द्विविधो बुधैः ॥१५८॥

तत्र रूढः
उद्दीप्ता सात्त्विका यत्र स रूढ इति भण्यते ॥१५९॥

निमेषासहतासन्नजनताहृद्विलोडनं ।
कल्पक्षणत्वं खिन्नत्वं तत्सौख्येऽप्यार्तिशङ्कया ॥१६१॥
मोहाद्यभावेऽप्यात्मादिसर्वविस्मरणं सदा ।
क्षणस्य कल्पएत्याद्या यत्र योगवियोगयोः ॥१६२॥

तत्र निमेषासहता, यथा श्रीदशमे
गोप्यश्च कृष्णं उपलभ्य चिरादभीष्टं
यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।
दृग्भिर्हृदीकृतं अलं परिरभ्य सर्वास्
तद्भावं आपुरपि नित्ययुजां दुरापम् ॥१६३॥

आसन्नजनताहृद्विलोडनं, यथा
सख्यः प्रोक्ष्य कुरून्गुरुक्षितिभृतां आघूर्णयन्ती शिरः
स्वस्था विश्लथयन्त्यशेषरमणीराप्लाव्य सर्वं जनं ।
गोपीनां अनुरागसिन्धुलहरी सत्यान्तरं विक्रमै
राक्रम्य स्तिमितां व्यधादपि परां वैकुण्ठकण्ठश्रियम् ॥१६४॥

कल्पक्षणत्वम्, यथा
शरज्ज्योत्स्नी रासे विधिरजनिरूपापि निमिषा
दतिक्षुद्रा तासां यदजनि न तद्विस्मयपदं ।
सुखोत्सेकारम्भे निमिषलवकल्पां इव दशां
महाकल्पाकल्पाप्यहह लभते कालकलना ॥१६५॥

तत्सौख्येऽप्यार्तिशङ्कया खिन्नत्वम्, यथा श्रीदशमे
यत्ते सुजातचरणाम्बुरुहं स्तनेषु;
भीताः शनैः प्रिय दधीमहि कर्कशेषु
तेनाटवीं अटसि तद्व्यथते न किं स्वित्;
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥१६६॥

मोहाद्यभावेऽपि सर्वविस्मरणं, यथा एकादशे
ता नाविदन्मय्यनुषङ्गबद्ध
धियः स्वं आत्मानं अदस्तथेदम्
यथा समाधौ मुनयोऽब्धितोये
नद्यः प्रविष्टा इव नामरूपे ॥१६७॥

क्षणकल्पता, यथा तत्रैव
तास्ताः क्षपाः प्रेष्ठतमेन नीता
मयैव वृन्दावनगोचरेण ।
क्षणार्धवत्ताः पुनरङ्ग तासां
हीना मया कल्पसमा बभूवुः ॥१६८॥

आद्यशब्दादिह प्रोक्ता कृष्णाविर्भावकारिता ।
सम्भोगभेदे विस्पष्टं सा पुरस्तात्प्रवक्ष्यते ॥१६९॥

अथ अधिरूढः
रूढोक्तेभ्योऽनुभावेभ्यः कां अप्याप्ता विशिष्टतां ।
यत्रानुभावा दृश्यन्ते सोऽधिरूढो निगद्यते ॥१७०॥

यथा शिववाक्यम्
लोकातीअतं अजाण्डकोटिगं अपि त्रैकालिकं यत्सुखं
दुःखं चेति पृथग्यदि स्फुटं उभे ते गच्छतः कुटतां ।
नैवाभासतुलां शिवे तदपि तत्कुटद्वयं राधिका
प्रेमोद्यत्सुखदुःखसिन्धुभवयोर्विन्देत बिन्द्वोरपि ॥१७१॥

मोदनो मादनश्चासावधिरूढो द्विधोच्यते ॥१७२॥

तत्र मोदनः
मोदनः स द्वयोर्यत्र सात्त्विकोद्दीप्तसौष्ठवम् ॥१७३॥

यथा ललितमाधवे
आतन्वन्कलकण्ठनादं अतुलं स्तम्भश्रियोज्जृम्भितो
भूयिष्ठोच्छलदङ्कुरः फलितवान्स्वेदाम्बुमुक्ताफलैः ।
उद्यद्बाष्पमरन्दभागविचलोऽप्युत्कम्पवान्विभ्रमै
राधामाधवयोर्विराजति चिरादुल्लासकल्पद्रुमः ॥१७४॥

हरेर्यत्र सकान्तस्य विक्षोभभरकारिता ।
प्रेमोरुसम्पद्विख्यातकान्तातिशयितादयः ॥१७५॥
राधिकायूथ एवासौ मोदनो न तु सर्वतः ।
यः श्रीमान्ह्लादिनीशक्तेः सुविलासः प्रियो वरः ॥१७६॥

तत्र सकान्तस्य हरेः क्षोभभरकारिता, यथा
हन्त स्तम्भकरम्बिता भुवि कुरोर्भद्रा सरस्वत्यभू
द्बाष्पं भास्करजा मुमोच तरसा सत्याभ्रमन्नर्मदा ।
भेजे भीष्मसुता च वर्णविकृतिं गाम्भीर्यभागप्यसौ
कृष्णोदन्वति राधिकाद्भुतनदीप्रेमोर्मिभिः संवृते ॥१७७॥

प्रेमोरुसम्पद्वतीवृन्दातिशयित्वं, यथा
अद्वैताद्गिरिजां हरार्धवपुषं सख्यात्प्रियोरःस्थितां
लक्ष्मीं अच्युतचित्तभृङ्गनलिनीं सत्यां च सौभाग्यतः ।
माधुर्यान्मधुरेशजीवितसखीं चन्द्रावलीं च क्षिपन्
पश्यारुद्ध हरिं प्रसार्य लहरीं राधानुरागाम्बुधिः ॥१७८॥

मोदनोऽयं प्रविश्लेषदशायां मोहनो भवेत् ।
यस्मिन्विरहवैवश्यात्सूद्दीप्ता एव सात्त्विकाः ॥१७९॥

यथा
उद्यद्वेपथुवाद्यमानदशना कण्ठस्थलान्तर्लुठ
ज्जल्पा गोकुलमण्डलं विदधती बाष्पैर्नदीमातृकं ।
राधा कण्टकितेन कण्टकिफलं गात्रेण धिक्कुर्वती
चित्रं तद्घनरागराशिभिरपि श्वेतीकृता वर्तते ॥१८०॥

अत्रानुभावा गोविन्द कान्ताश्लिष्टेऽपि मूर्च्छना ।
असह्यदुःखस्वीकारादपि तत्सुखकामता ॥१८१॥
ब्रह्माण्डक्षोभकारित्वं तिरश्चां अपि रोदनं ।
स्वभूतैरपि तत्सङ्गतृष्णा मृत्युप्रतिश्रवात् ।
दिव्योन्मादादयोऽप्यन्ये विद्वद्भिरनुकीर्तिताः ॥१८२॥
प्रायो वृन्दावनेश्वर्यां मोहनोऽयं उदञ्चति ।
सम्यग्विलक्षणं यस्य कार्यं सञ्चारिमोहतः ॥१८३॥

तत्र कान्ताश्लिष्टेऽपि हरौ मूर्च्छाकारित्वं, यथा पद्यावल्यां
रत्नच्छायाच्छुरितजलधौ मन्दिरे द्वारकाया
रुक्मिण्यापि प्रबलपुलकोद्भेदं आलिङ्गितस्य ।
विश्वं पायान्मसृणयमुनातीरवानीरकुञ्जे
राधाकेलीपरिमलभरध्यानमूर्च्छा मुरारेः ॥१८४॥

असह्यदुःखस्वीकारात्तत्सुखकामता
स्यान्नः सौख्यं यदपि बलवद्गोष्ठं आप्ते मुकुन्दे
यद्यल्पापि क्षतिरुदयते तस्य मागात्कदापि ।
अप्राप्तेऽस्मिन्यदपि नगरादार्तिरुग्रा भवेन्नः
सौख्यं तस्य स्फुरति हृदि चेत्तत्र वासं करोतु ॥१८५॥

ब्रह्माण्डक्षोभकारित्वं, यथा
नारं चुक्रोश चक्रं फणिकुलं अभवद्व्याकुलं स्वेदं ऊहे
वृन्दं वृन्दारकाणां प्रचुरमुदं अमुचन्नश्रु वैकुण्ठभाजः ।
राधायाश्चित्रं ईश भ्रमति दिशि दिशि प्रेमनिःश्वासधूमे
पूर्णानन्देऽप्युषित्वा बहिरिदं अबहिश्चार्तं आसीदजाण्डम् ॥१८६॥

यथा वा
और्वस्तोमात्कटुरपि कथं दुर्बलेनोरसा मे
तापः प्रौढो हरिविरहजः सह्यते तन्न जाने ।
निष्क्रान्ता चेद्भवति हृदयाद्यस्य धूमच्छटापि
ब्रह्माण्डानां सखि कुलं अपि ज्वालया जाज्वलीति ॥१८७॥

तिरश्चां अपि रोदनम्, यथा पद्यावल्यां
याते द्वारवतीपुरं मुररिपौ तद्वस्त्रसंव्यानया
कालिन्दीतटकुञ्जवञ्जुललतां आलाम्ब्य सोत्कण्ठया ।
उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कं उत्कूजितम् ॥१८८॥

मृत्युस्वीकारात्स्वभूतैरपि तत्सङ्गतृष्णा, यथा तत्रैव
पञ्चत्वं तनुरेतु भूतनिवहाउ स्वांशे विशन्तु स्फुटं
धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरं ।
तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गन
व्योम्नि व्योम तदीयवर्त्मनि धरा  तत्तालवृन्तेऽनिलः ॥१८९॥

अथ दिव्योन्मादः
एतस्य मोहनाख्यस्य  गतिं कामप्युपेयुषः ।
भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते ॥१९०॥
उद्घूर्णाचित्रजल्पाद्यास्तद्भेदा बहवो मताः ॥१९१॥

तत्र उद्घूर्णा
स्याद्विलक्षणं उद्घूर्णा नानावैवश्यचेष्टितम् ॥१९२॥

यथा
शय्यां कुञ्जगृहे क्वचिद्वितनुते सा वाससज्जायिता
नीलाभ्रं धृतखण्डिता व्यवहृतिश्चण्डी क्वचित्तर्जति ।
आघूर्णत्यभिसारसम्भ्रमवती ध्वान्ते क्वचिद्दारुणे
राधा ते विरहोद्भ्रमप्रमथिता धत्ते न कां वा दशाम् ॥१९३॥

मथुरानगरं कृष्णे लब्धे ललितमाधवे ।
उद्घूर्णेयं तृतीयाङ्के राधायाः स्फुटं ईरिता ॥१९४॥

अथ चित्रजल्पः
प्रेष्ठस्य सुहृदालोके गूढरोषाभिजृम्भितः ।
भूरिभावमयो जल्पो यस्तीव्रोत्कण्ठितान्तिमः ॥१९५॥
चित्रजल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितं ।
विजल्पोज्जल्पसंजल्पा अवजल्पोऽभिजल्पितं ।
आजल्पः प्रतिजल्पश्च सुजल्पश्चेति कीर्तिताः ॥१९६॥
एष भ्रमरगीताख्यो दशमे प्रकटीकृतः ॥१९७॥
असङ्ख्यभाववैचित्री चमत्कृतिसुदुस्तरः ।
अपि चेच्चित्रजल्पोऽयं मनाक्तदपि कथ्यते ॥१९८॥

तत्र प्रजल्पः
असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया ।
प्रियस्याकौशलोद्गारः प्रजल्पः स तु कीर्त्यते ॥१९९॥

यथा
मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः
कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः ।
वहतु मधुपतिस्तन्मानिनीनां प्रसादं
यदुसदसि विडम्ब्यं यस्य दूतस्त्वं ईदृक् ॥२००॥

अथ परिजल्पितम्
प्रभोर्निर्दयताशाठ्यचापलाद्युपपादनात् ।
स्वविचक्षणताव्यक्तिर्भङ्ग्या स्यात्परिजल्पितम् ॥२०१॥

यथा
सकृदधरसुधां स्वां मोहिनीं पाययित्वा
सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक् ।
परिचरति कथं तत्पादपद्मं नु पद्मा
ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः ॥२०२॥

अथ विजल्पः
व्यक्तयासूयया गूढमानमुद्रान्तरालया ।
अघद्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ॥२०३॥

यथा
किं इह बहु षडङ्घ्रे गायसि त्वं यदूनाम्
अधिपतिं अगृहाणां अग्रतो नः पुराणं ।
विजयसखसखीनां गीयतां तत्प्रसङ्गः
क्षपितकुचरुजस्ते कल्पयन्तीष्टं इष्टाः ॥२०४॥

अथ उज्जल्पः
हरेः कुहकताख्यानं गर्वगर्भितयेर्ष्यया ।
सासूयश्च तदाक्षेपो धीरैरुज्जल्प ईर्यते ॥२०५॥

यथा
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः
कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ।
चरणरज उपास्ते यस्य भूतिर्वयं का
अपि च कृपणपक्षे ह्युत्तमःश्लोकशब्दः ॥२०६॥

अथ संजल्पः
सोल्लुण्ठया गहनया कयाप्याक्षेपमुद्रया ।
तस्याकृतज्ञताद्युक्तिः संजल्पः कथितो बुधैः ॥२०७॥

यथा
विसृज शिरसि पादं वेद्म्यहं चाटुकारैर्
अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ।
स्वकृत इह विसृष्टापत्यपत्यन्यलोका
व्यसृजदकृतचेताः किं नु सन्धेयं अस्मिन् ॥२०८॥

अथ अवजल्पः
हरौ काठिन्यकामित्वधौर्त्यादासक्त्ययोग्यता ।
यत्र सेर्ष्यं भियेवोक्ता सोऽवजल्पः सतां मतः ॥२०९॥

यथा
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा
स्त्रियं अकृत विरूपां स्त्रीजितः कामयानां ।
बलिं अपि बलिं अत्त्वावेष्टयद्ध्वाङ्क्षवद्यस्
तदलं असितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥२१०॥
अथ अभिजल्पितम्
भङ्ग्या त्यागौचिती तस्य खगानां अपि खेदनात् ।
यत्र सानुशयं प्रोक्ता तद्भवेदभिजल्पितम् ॥२११॥

यथा
यदनुचरितलीलाकर्णपीयूषविप्रुट्
सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ।
सपदि गृहकुटुम्बं दीनं उत्सृज्य दीना
बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥२१२॥

अथ आजल्पः
जैह्म्यं तस्यार्तिदत्वं च निर्वेदाद्यत्र कीर्तितं ।
भङ्यान्यसुखदत्वं च स आजल्प उदीरितः ॥२१३॥
यथा
वयं ऋतं इव जिह्मव्याहृतं श्रद्दधानाः
कुलिकरुतं इवाज्ञाः कृष्णवध्वो हरिण्यः
ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र
स्मररुज उपमन्त्रिन्भण्यतां अन्यवार्ता ॥२१४॥

अथ प्रतिजल्पः
दुस्त्यजद्वन्द्वभावेऽस्मिन्प्राप्तिर्नार्हेत्यनुद्धतं ।
दूतसम्माननेनोक्तं यत्र स प्रतिजल्पकः ॥२१५॥

यथा
प्रियसख पुनरागाः प्रेयसा प्रेषितः किं
वरय किं अनुरुन्धे माननीयोऽसि मेऽङ्ग ।
नयसि कथं इहास्मान्दुस्त्यजद्वन्द्वपार्श्वं
सततं उरसि सौम्य श्रीर्वधूः साकं आस्ते ॥२१६॥

अथ सुजल्पः
यत्रार्जवात्सगाम्भीर्यं सदैन्यं सहचापलं ।
सोत्कण्ठं च हरिः पृष्टः स सुजल्पो निगद्यते ॥२१७॥

यथा
अपि बत मधुपुर्यां आर्यपुत्रोऽधुनास्ते
स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान् ।
क्वचिदपि स कथां नः किङ्करीणां गृणीते
भुजं अगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥२१८॥

अथ मादनः
सर्वभावोद्गमोल्लासी मादनोऽयं परात्परः ।
राजते ह्लादिनीसारो राधायां एव यः सदा ॥२१९॥

यथा
आसृष्टेरक्षयिष्णुं हृदयविधुमणिद्रावणं वक्रिमाणं
पूर्णत्वेऽप्युद्वहन्तं निजरुचिघटया साध्वसं ध्वंसयन्तं ।
तन्वानं शं प्रदोषे धृतनवनवतासम्पदं मादनत्वा
दद्वैतं नौमि राधादनुजविजयिनोरद्भुतं भावचन्द्रं ॥२२०॥

अत्रेर्ष्याया अयोग्येऽपि प्रबलेर्ष्याविधायिता ।
सदाभोगेऽपि तद्गन्धमात्राधारस्तवादयः ॥२२१॥

अथ अयोग्येऽपीर्ष्या, यथा दानकेलिकौमुद्यां
विशुद्धाभिः सार्धं व्रजहरिणनेत्राभिरनिशं
त्वं अद्धा विद्वेषं किं इति वनमाले रचयसि ।
तृणीकुर्वत्यस्मान्वपुरघरिपोराशिखं इदं
परिष्वज्यापाद महति हृदये या विहरसि ॥२२२॥

सदाभोगेऽपि तद्गन्धमात्राधारस्तुतिर्, यथा श्रीदशमे
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग
श्रीकुङ्कुमेन दयितास्तनमण्डितेन ।
तद्दर्शनस्मररुजस्तृणरूषितेन
लिम्पन्त्य आननकुचेषु जुहुस्तदाधिम् ॥२२३॥

यथा वा
दुष्करं कतरदालि मालती
कोमलेयं अकरोत्तपः पुरा ।
हन्त गोष्ठपतिनन्दनोपमं
या तमालं अमलोपगूहते ॥२२४॥

योग एव भवेदेष विचित्रः कोऽपि मादनः ।
यद्विलासा विराजन्ते नित्यलीलाः सहस्रधा ॥२२५॥
मादनस्य गतिः सुष्ठु मदनस्येव दुर्गमा ।
न निर्वक्तुं भवेच्छक्या तेनासौ मुनिनाप्यलम् ॥२२६॥

किं च
रागानुरागतां आदौ स्नेहः प्राप्यैव सत्वरं ।
मानत्वं प्रणयत्वं च क्वचित्पश्चात्प्रपद्यते ॥२२७॥
अतएवात्र शास्त्रेषु श्रूयते राधिकादिषु ।
पूर्वरागप्रसङ्गेऽपि प्रकटं रागलक्षणम् ॥२२८॥
स्फुरन्ति व्रजदेवीषु परा भावभिदाश्च याः ।
तास्तर्काय्गोचरत्या न सम्यगिह वर्णिताः ॥२२९॥
साधारण्यां रतावेव धूमायिततया मताः ।
ज्वलितास्तु रतिप्रेम्णोर्दीप्ताः स्नेहादिपञ्चसु ।
रूढे भावे तथोद्दीप्ताः सुदीप्ता मोहनादिषु ॥२३०॥
इयं प्रायिकता किन्तु श्रेष्ठमध्यादिभारतः ।
देशकालजनादीनां क्वाप्येषां स्याद्विपर्ययम् ॥२३१॥
आद्या प्रेमान्तिमां तत्रानुरागान्तां समञ्जसा ।
रतिर्भावान्तिमां सीमां समर्थैव प्रपद्यन्ते ॥२३२॥
रतिर्नर्मवयस्यानां अनुरागान्तिमां स्थितिं ।
तेष्वेव सुबलादीनां भावान्तां एव गच्छति ॥२३३॥

इति श्रीश्रीउज्ज्वलनीलमणौ स्थायिभावप्रकरणं ॥१४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:08.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hypothetical

  • परिकल्पनात्मक 
  • गृहीतात्मक 
  • गृहीत, परिकल्पित 
  • अभ्युपगमी 
More meanings
RANDOM WORD

Did you know?

स्त्रिया पायात चांदीचे दागिने वापरतात, मग सोन्याचे कां नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.