श्रीहरिप्रियाप्रकरणम्

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान्‍ ग्रंथ उज्ज्वलनीलमणिः होय.


हरेः साधारणगुणैरुपेतास्तस्य वल्लभाः ।
पृथुप्रेम्णां सुमाधुर्यसम्पदां चाग्रिमाश्रयाः ॥१॥

यथा
प्रणमामि ताः परममाधुरीभृतः
कृतपुण्यपुञ्जरमणीशिरोमणीः ।
उपसन्नयौवनगुरोरधीर्त्य याः
स्मरकेलिकौशलं उदाहरन्हरौ ॥२॥

स्वकीयाः परकीयाश्च द्विधा ताः परिकीर्तिताः ॥३॥

तत्र स्वकीयाः
करग्रहविधिं प्राप्ताः पत्युरादेशतत्पराः ।
पातिव्रत्यादविचलाः स्वकीयाः कथिता इह ॥४॥

यथा सुनिर्माणे धर्माध्वनि पतिपराभिः परिचिते
मुदा बद्धश्रद्धा गिरि च गुरुवर्गस्य परितः ।
गृहे याः सेवन्ते प्रियं अपरतन्त्राः प्रतिदिनं
महिष्यस्ताः शौरेस्तव मुदं उदग्रां विदधतु ॥५॥
यथा वा श्रीदशमे

न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु
पश्यामि मानिनि यया स्वविवाहकाले ।
प्राप्तान्नृपान्न विगणय्य रहोहरो मे
प्रस्थापितो द्विज उपश्रुतसत्कथस्य ॥६॥

तास्तु श्रीयदुवीरस्य सहस्राण्यस्य षोडश ।
अष्टोत्तरशताग्राणि द्वारवत्यां सुविश्रुताः ॥७॥
आसां सख्यश्च दास्यश्च प्रत्येकं स्युः सहस्रशः ।
तुल्यरूपगुणाः सख्यः किञ्चिन्न्यूनास्तु दासिकाः ॥८॥
तत्रापि रुक्मिणी सत्या जाम्बवत्यर्कनन्दिनी ।
शैव्या भद्रा च कौशल्या माद्रीत्यष्टौ गणाग्रिमाः ॥९॥
तत्रापि रुक्मिणीसत्ये वरीयस्यौ प्रकीर्तिते ।
ऐश्वर्याद्रुक्मिणी तत्र सत्या सौभाग्यतो वरा ॥१०॥
 
तथा हि हरिवंशे
कुटुम्बस्येश्वरी यासीद्रुक्मिणी भीष्मकात्मजा ।
सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत्  ॥११॥

पाद्मे च कार्त्तिकमाहात्म्ये तां प्रति श्रीकृष्णवाक्यं
न मे त्वत्तः प्रियतमा काचिदन्या नितम्बिनी ।
षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि ॥१२॥

अनयोः सकलोत्कृष्टाः सख्यो दास्यश्च लक्षशः ।
स्वीयाजातीयभावेन निखिला एव भाविताः ॥१३॥
याश्च गोकुलकन्यासु पतिभावरता हरौ ।
तासां तद्वृत्तिनिष्ठित्वान्न स्वीयात्वं असाम्प्रतम् ॥१४॥

यथा
आर्या चेदतिवत्सला मयि मुहुर्गोष्ठेश्वरी किं ततः
प्राणेभ्यः प्रणयास्पदं प्रियसखीवृन्दं किं एतेन मे ।
वैकुण्ठाटविमण्डलीविजयी चेद्वृन्दावनं तेन किं
दीव्यत्यत्र न चेदुमाव्रतफलं पिञ्चावतंसी पतिः ॥१५॥

गाधर्वरीत्या स्वीकारात्स्वीयात्वं इह वस्तुतः ।
अव्यक्तत्वाद्विवाहस्य सुष्ठु प्रच्छन्नकामता ॥१६॥

अथ परकीया
रागेणैवार्पितात्मानो लोकयुग्मानपेक्षिणा ।
धर्मेणास्वीकृता यास्तु परकीया भवन्ति ताः ॥१७॥

यथा
रागोल्लासविलङ्घितार्यपदवीविश्रान्तयोऽप्युद्धुर
श्रद्धारज्यदरुन्धतीमुखसतीवृन्देन वन्द्येहिताः ।
आरण्या अपि माधुरीपरिमलव्याक्षिप्तलक्ष्मीश्रियस्
तास्त्रैलोक्यविलक्षणा ददतु वः कृष्णस्य सख्यः सुखम् ॥१८॥

कन्यकाश्च परोढाश्च परकीया द्विधा मताः ।
प्रच्छन्नकामता ह्यत्र गोकुएन्द्रस्य सौख्यता ॥१९॥

तथा हि रुद्रः
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तदेव पञ्चबाणस्य मन्ये परमं आयुधम् ॥२०॥

विष्णुगुप्तसंहितायां च
यत्र निषेधविशेषः सुदुर्लभत्वं च यन्मृगाक्षीणां ।
तत्रैव नागराणां निर्भरं आसज्जते हृदयम् ॥२१॥

आः किंवान्यद्यतस्तस्यां इदं एव महामुनिः ।
जगौ पारमहंस्यां च संहितायां स्वयं शुकः ॥२२॥

यथा श्रीदशमे
कृत्वा तावन्तं आत्मानं यावतीर्गोपयोषितः ।
रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥२३॥

तथा च तत्रैव
नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः ।
विनश्यत्याचरन्मौठ्याद्यथारुद्रोऽब्धिजं विषम् ॥२६॥
अनुग्रहाय भक्तानां मानुषं देहं आश्रितः ।
भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत्  ॥२७॥

श्रीमुखेन तु माहात्म्यं आसां प्राह स्वयं हरिः ॥२८॥

यथा तत्रैव
न पारयेऽहं निरवद्यसंयुजां
स्वसाधुकृत्यं विबुधायुषापि वः  ।
यां आभजन्दुर्जरगेहशृङ्खलाः
संवृश्च्य तद्वः प्रतियातु साधुना ॥२९॥

उद्धवोऽपि जगौ सुष्ठु सर्वभागवतोत्तमः ॥३०॥

यथा
आसां अहो चरणरेणुजुषां अहं स्यां
वृन्दावने किं अपि गुल्मलतौषधीनां ।
या दुस्त्यजं स्वजनं आर्यपथं च हित्वा
भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥३१॥

मायाकलिततादृक्स्त्रीशीलनेनानसूयभिः ।
न जातु व्रजदेवीनां पतिभिः सह सङ्गमः ॥३२॥

तथा हि श्रीदशमे
नासूयन्खलु कृष्णाय मोहितास्तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान्स्वान्स्वान्दारान्व्रजौकसः  ॥३३॥

तत्र कन्यकाः
अनूढाः कन्यकाः प्रोक्ताः सलज्जाः पितृपालिताः ।
सखीकेलिषु विस्रब्धाः प्रायो मुग्धागुणान्विताः ॥३४॥
तत्र दुर्गाव्रतपराः कन्या धन्यादयो मताः ।
हरिणा पूरिताभीष्टास्तेन तास्तस्य वल्लभाः ॥३५॥

यथा
विस्रब्धा सखि धूलिकेलिषु पटासंवीतवक्षःस्थला
बालासीति न वल्लवस्तव पिता जामातरं मृग्यति ।
त्वं तु भ्रान्तविलोचनास्तं अचिरादाकर्ण्य वृन्दावने
कूजन्तीं शिखिपिच्छमौलिमुरलीं सोत्कम्पं आघूर्णसि ॥३६॥

अथ परोढाः
गोपैर्व्यूढा अपि हरेः सदा सम्भोगलालसाः ।
परोढा वल्लभास्तस्य व्रजनार्योऽप्रसूतिकाः ॥३७॥

यथा पद्यावल्यां
कात्यायनीकुसुमकामनया किं अर्थं
कान्तारकुक्षिकुहरं कुतुकाद्गतासि ।
पश्य स्तनस्तवकयोस्तव कण्टकाङ्कं
गोपः सुकण्ठि बत पश्यसि जातकोपः ॥३८॥

एताः सर्वातिशायिन्यः शोभासाद्गुण्यवैभवैः ।
रमादिभ्योऽप्युरुप्रेममाधुर्यभरभूषिताः ॥३९॥

तथा श्रीदशमे

नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः
स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः ।
रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ
लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ॥४०॥

तास्त्रिधा साधनपरा देव्यो नित्यप्रियास्तथा ॥४१॥

तत्र साधनपराः
स्युर्यौथिक्यस्त्वयौथिक्य इति तत्रादिमा द्विधा ॥४२॥

तत्र यौथिक्यः
यौथिक्यस्तत्र संभूय गणशः साधने रताः ।
द्विविधास्तास्तु मुनयस्तथोपनिषदो मताः ॥४३॥

तत्र मुनयः
गोपालोपासकाः पूर्वं अप्राप्ताभीष्टसिद्धयः ।
चिरादुद्बुद्धरतयो रामसौन्दर्यवीक्षया ॥४४॥
मुनयस्तन्निजाभीष्टसिद्धिसम्पादने रताः ।
लब्धभावा व्रजे गोप्यो जाताः पाद्म इतीरितम् ॥४५॥
कथाप्यन्या किल बृहद्वामने चेति विश्रुतिः ।
सिद्धिं कतिचिदेवासां रासारम्भे प्रपेदिरे ।
इति केचित्प्रभाषन्ते प्रकटार्थानुसारिणः ॥४६॥
अथ उपनिषदः
समन्तात्सूक्ष्मदर्शिन्यो महोपनिषदोऽखिलाः ।
गोपीनां वीक्ष्य सौभाग्यं असमोर्ध्वं सुविस्मिताः ॥४७॥
तपांसि श्रद्धया कृत्वा प्रेमाढ्या जज्ञिरे व्रजे ।
वल्लव्य इति पौराणी तथौपनिषदी प्रथा ॥४८॥

अथ अयौथिक्यः
तद्भावबद्धरागा ये जनास्ते साधने रताः ।
तद्योग्यं अनुरागौघं प्राप्योत्कण्ठानुसारतः ॥४९॥
ता एकशोऽथवा द्वित्राः काले काले व्रजेऽभवन् ।
प्राचीनाश्च नवाश्च स्युरयौथिक्यस्ततो द्विधा ॥५०॥
नित्यप्रियाभिः सालोक्यं प्राचीनाश्चिरं आगताः ।
व्रजे जाता नवास्त्वेता मर्त्यामर्त्यादियोनितः ॥५१॥

अथ देव्यः
देवेष्वंशेन जातस्य कृष्णस्य दिवि तुष्टये ।
नित्यप्रियाणां अंशास्तु या याता देवयोनयः ॥५२॥
अत्र देवावतरणे जनित्वा गोपकन्यकाः ।
ता अंशिनीनां एवासां प्रियसख्योऽभवन्व्रजे ॥५३॥

अथ नित्यप्रियाः
राधाचन्द्रावलीमुख्याः प्रोक्ताः नित्यप्रिया व्रजे ।
कृष्णवन्नित्यसौन्दर्यवैदग्ध्यादिगुणाश्रयाः ॥५४॥

तथा च ब्रह्मसंहितायां

आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दं आदिपुरुषं तं अहं भजामि ॥५५॥

तत्र शास्त्रसिद्धास्तु राधा चन्द्रावली तथा ।
विशाखा ललिता श्यामा पद्मा शैब्या च भद्रिका ।
तारा विचित्रा गोपाली धनिष्ठा पालिकादयः ॥५६॥
चन्द्रावल्येव सोमाभा गान्धर्वा राधिकैव सा ।
अनुराधा तु ललिता नैतास्तेनोदिताः पृथक् ॥५७॥
लोकप्रसिद्धनाम्न्यस्तु खञ्जनाक्षी मनोरमा ।
मङ्गला विमला लीला कृष्णा शारी विशारदा ।
तारावली चकोराक्षी शङ्करी कुङ्कुमादयः ॥५८॥
इत्यादीनान्तु शतशो यूथानि व्रजसुभ्रुवां ।
लक्षसङ्ख्यास्तु कथिता यूथे यूथे वराङ्गनाः ॥५९॥
सर्वा यूथाधिपा एता राधाद्याः कुङ्कुमान्तिमाः ।
विशाखां ललितां पद्मां शैब्याञ्च प्रोह्य कीर्तिताः ॥६०॥
किन्तु सौभाग्यधौरेया अष्टौ राधादयो मताः ।
यूथाधिपात्वेऽप्यौचित्यं दधाना ललितादयः ।
स्वेष्टराधादिभावस्य लोभात्सख्यरुचिं दधुः ॥६१॥

इति श्रीश्रीउज्ज्वलनीलमणौ श्रीहरिप्रियाप्रकरणं ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP