संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|उज्ज्वलनीलमणिः| श्रीराधाप्रकरणम् उज्ज्वलनीलमणिः नायकभेदप्रकरणम् नायकसहायभेदप्रकरणं श्रीहरिप्रियाप्रकरणम् श्रीराधाप्रकरणम् नायिकाभेदप्रकरणम् यूथेश्वरीभेदप्रकरणं सखीप्रकरणं हरिवल्लभाप्रकरणं उद्दीपनविभावप्रकरणं अनुभावप्रकरणं सात्त्विकप्रकरणं व्यभिचारिप्रकरणं स्थायिभावप्रकरणम् शृङ्गारभेदप्रकरणम् श्रीराधाप्रकरणम् रूपगोस्वामी,उज्ज्वलनीलमणिः,rupagoswami,sanskrit,संस्कृत, Tags : rupagoswamiउज्ज्वलनीलमणिःरूपगोस्वामीसंस्कृत श्रीराधाप्रकरणम् Translation - भाषांतर तत्रापि सर्वथा श्रेष्ठे राधाचन्द्रावलीत्युभे ।यूथयोस्तु ययोः सन्ति कोटिसङ्ख्या मृगीदृशः ॥१॥अभूदाकुलितो रासः प्रमदाशतकोटिभिः ।पुलिने यामुने तस्मिन्नित्येषागमिकी प्रथा ॥२॥तयोरप्युभयोर्मध्ये राधिका सर्वथाधिका ।महाभावस्वरूपेयं गुणैरतिवरीयसी ॥३॥गोपालोत्तरतापन्यां यद्गान्धर्वेति विश्रुता ।राधेत्यृक्परिशिष्टे च माधवेन सहोदिता ।अतस्तदीयमाहात्म्यं पाद्मे देवर्षिणोदितम् ॥४॥तथा हियथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा ।सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥५॥ह्लादिनी या महाशक्तिः सर्वशक्तिवरीयसी ।तत्सारभावरूपेयं इति तन्त्रे प्रतिष्ठिता ॥६॥सुष्ठुकान्तस्वरूपेयं सर्वदा वार्षभानवी ।धृतषोडशशृङ्गारा द्वादशाभरणान्विता ॥७॥तत्र सुष्ठुकान्तस्वरूपा, यथा श्रीकृष्णवाक्यम्कचास्तव सुकुञ्चिता मुखं अधीरदीर्घेक्षणंकठोरकुचभागुरः क्रशिमशालि मध्यस्थलं ।नते शिरसि दोर्लते करजरत्नरम्यौ करौविधूनयति राधिके त्रिजगदेष रुपोत्सवः ॥८॥अथ धृतषोडशशृङ्गारास्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणीसोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता ।ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्राराधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयम् ॥९॥अथ द्वादशाभरणाश्रितादिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चिनिष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च ।हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्तास्तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥१० ॥।अथ वृन्दावनेश्वर्याः कीर्त्यन्ते प्रवरा गुणाः ।मधुरेयं नववयाश्चलापाङ्गोज्ज्वलस्मिता ॥११॥चारुसौभाग्यरेखाढ्या गन्धोन्मादितमाधवा ।सङ्गीतप्रसराभिज्ञा रम्यवाङ्नर्मपण्डिता ॥१२॥विनीता करुणापूर्णा विदग्धा पाटवान्विता ।लज्जाशीला सुमर्यादा धैर्यगाम्भीर्यशालिनी ॥१३॥सुविलासा महाभावपरमोत्कर्षतर्षिणी ।गोकुलप्रेमवसतिर्जगच्छ्रेणीलसद्यशाः ॥१४॥गुर्वर्पितगुरुस्नेहा सखीप्रणयितावशा ।कृष्णप्रियावलीमुख्या सन्तताश्रवकेशवा ।बहुना किं गुणास्तस्याः सङ्ख्यातीता हरेरिव ॥१५॥इत्यङ्गोक्तिमनःस्थास्ते परसम्बन्धगास्तथा ।गुणा वृन्दावनेश्वर्या इह प्रोक्ताश्चतुर्विधाः ॥१६॥माधुर्यं चारुता नव्यं वयः कैशोरमध्यमं ।सौभाग्यरेखा पादादिस्थिताश्चन्द्रकलादयः ॥१७॥साधुमार्गादचलनं मर्यादेत्युदितं बुधैः ।लज्जाभिजात्यशीलाद्यैर्धैर्यं दुःखसहिष्णुता ॥१८॥व्यक्तत्वाल्लक्षितत्वाच्च नान्येषां लक्षणं कृतम् ॥१९॥तत्र मधुरा, यथा विदग्धमाधवे बलादक्ष्णोर्लक्ष्मीः कवलयति नव्यं कुवलयंमुखोल्लासः फुल्लं कमलवनं उल्लङ्घयति च ।दशां कष्टां अष्टापदं अपि नयत्याङ्गिकरुचिर्विचित्रं राधायाः किं अपि किल रूपं विलसति ॥२०॥अथ नववयाःश्रोणिः स्यन्दनतां कृशोदरि कुचद्वन्द्वं क्रमाच्चक्रतांभ्रूश्चापश्रियं ईक्षणद्वयं इदं यात्याशुगत्वं तव ।सैनापत्यं अतः प्रदाय भुवि ते कामः पशूनां पतिंधुन्वन्जित्वरमानिनं त्वयि निजं साम्राज्यभारं न्यधात् ॥२१॥अथ चपलापाङ्गीतडिदतिचलतां ते किं दृगन्तादपाठीद्विधुमुखि तडितो वा किं तवायं दृगन्तः ।ध्रुवं इह गुरुताभूत्त्वद्दृगन्तस्य राधेवरं अतिजविनां मे येन जिग्ये मनोऽपि ॥२२॥अथ उज्ज्वलस्मितातव वदनविधौ विधौतमध्यां स्मितसुधयाधरलेखिकां उदीक्ष्य ।सखि लघुरघभिच्चकोरवर्यःप्रमदमदोद्धुरबुद्धिरुज्जिहीते ॥२३॥अथ चारुसौभाग्यरेखाढ्याअघहर भज तुष्टिं पश्य यच्चन्द्रलेखावलयकुसुमवल्लीकुण्डलाकारभाग्भिः ।अभिदधति निलीनामत्र सौभाग्यरेखाविततिभिरनुविद्धाः सुष्ठु राधां पदाङ्काः ॥२४॥अथ गन्धोन्मादितमाधवावल्लीमण्डलपल्लवालिभिरितः सङ्गोपनायात्मनोमा वृन्दावनचक्रवर्तिनि कृथा यत्नं मुधा माधवि ।भ्राम्यद्भिः स्वविरोधिभिः परिमलैरुन्मादनैः सूचितांकृष्णस्तां भ्रमाधिपः सखि धुवन्धूर्तो ध्रुवं धास्यति ॥२५॥अथ सङ्गीतप्रसराभिज्ञाकृष्णसारहरपञ्चमस्वरे मुञ्च गीतकुतुकानि राधिके ।प्रेक्षतेऽत्र हरिणानुधावितांत्वां न यावदतिरोषणः पतिः ॥२६॥अथ रम्यवाक्सुवदने वदने तव रधिके स्फुरति केयं इहाक्षरमाधुरी ।विकलतां लभते किल कोकिलः सखि ययाद्य सुधापि मुधार्थताम् ॥२७॥अथ नर्मपण्डितावंश्यास्त्वं उपाध्यायःकिं उपाध्यायी तवात्र वंशी वा ।कुलयुवतिधर्महरणाद्अस्ति ययोर्नापरं कर्म ॥२८॥यथा वादेव प्रसीद वृषवर्धन पुण्यकीर्तेसाध्वीगणस्तनशिवार्चननित्यपूत ।निर्मञ्छनं तव भजे रविपूजनायस्नातास्मि हन्त मम न स्पृश न स्पृशाङ्गम् ॥२९॥अथ विनीताअपि गोकुले प्रसिद्धा भ्रूभ्रमिभिः परिजनैर्निषिद्धापि ।पीठं मुमोच राधा भद्रिकां अपि दूरतः प्रेक्ष्य ॥३०॥यथा वा, विदग्धमाधवे भूयो भूयः कलिविलसितैः सापराधापि राधाश्लाघ्येनाहं यदघरिपुणा बाढं अङ्गीकृतास्मि ।तत्र क्षामोदरि किं अपरं कारणं वः सखीनांदत्तामोदां प्रगुणकरुणामञ्जरीं अन्तरेण ॥३१॥अथ करुणापूर्णातार्णसूचिशिखयापि तर्णकंविद्धवक्त्रं अवलोक्य सास्रया ।लिप्यते क्षतं अवाप्तबाधयाकुङ्कुमेन कृपयास्य राधया ॥३२॥अथ विदग्धाआचार्या धातुचित्रे पचनविरचनाचातुरीचारुचित्तावाग्युद्धे मुग्धयन्ती गुरुं अपि च गिरां पण्डिता माल्यगुम्फे ।पाठे शारीशुकानां पटुरजितं अपि द्यूतकेलिषु जिष्णुर्विद्याविद्योतिबुद्धिः स्फुरति रतिकलाशालिनी राधिकेयम् ॥३३॥अथ पाटवान्विता, यथा विदग्धमाधवे छिन्नः प्रियो मणिसरः सखि मौक्तिकानिवृत्तान्यहं विचिनुयां इति कैतवेन ।मुग्धं विवृत्य मयि हन्त दृगन्तभङ्गींराधा गुरोरपि पुरः प्रणयाद्व्यतानीत् ॥३४॥अथ लज्जाशीलाव्रजनरपतिसूनुर्दुल्रभालोकनोऽयंस्फुरति रहसि ताम्यत्येष तर्षाज्जनोऽपि ।विरम जननि लज्जे किञ्चिदुद्घाट्य वक्त्रंनिमिषं इह मनागप्यक्षिकोणं क्षिपामि ॥३५॥अथ सुमर्यादाप्राणानकृताहारा सखि राधाचातकी वरं त्यजति ।न तु कृष्णमुदिरमुक्तादमृताद्वृत्तिं भजेदपराम् ॥३६॥यथा वाआहूयमाना व्रजनाथयास्मि युक्तोऽभिसारः सखि नाधुना मे ।न तादृशीनां हि गुरूत्तमानां आज्ञास्ववज्ञा वलते शिवाय ॥३७॥यथा वापूर्णाशीः पूर्णिमासावनवहिततया या त्वयास्यै वितीर्णावष्टि त्वां एव तन्वन्नखिलमधुरिमोत्सेकं अस्यां मुकुन्दः ।दिष्ट्या पर्वोदगात्ते स्वयं अभिसरणे चित्तं आधत्स्व वत्सेयुक्त्याप्युक्ता मयेति द्युमणिसखसुता प्राहिणोदेव चित्राम् ॥३८॥अथ धैर्यशालिनीतीव्रस्तर्जति भिन्नधीर्गृहपतिश्छद्मज्ञया पद्मयाहारं हारयति हरिप्रणिहितं कीशेन भर्तुः स्वसा ।मल्लीं लुम्पति कृष्णकाम्यकुसुमां शैव्या प्रिया वर्करीराधा पश्य तथाप्यतीव सहना तुष्णीं असौ तिष्ठति ॥३९॥अथ गाम्भीर्यशालिनीकलहान्तरितापदे स्थितिं सखि धीराद्य गतापि राधिका ।बहिरुद्भटमानलक्षणा सुदुरूहा ललिता धियाप्यभूत् ॥४०॥अथ सुविलासातिर्यक्क्षिप्तचलद्दृगञ्चलरुचिर्लास्योल्लसद्भ्रूलताकुन्दाभस्मितचन्दिकोज्ज्वलमुखी गण्डोच्छलत्कुण्डला ।कन्दर्पागमसिद्धमन्त्रगहनां अर्धं दुहाना गिरंहारिण्यद्य हरेर्जहार हृदयं राधा विलासोर्मिभिः ॥४१॥अथ महाभावपरमोत्कर्षतर्षिणीअश्रूणां अतिवृष्टिभिर्द्विगुणयन्त्यर्कात्मजानिर्झरंज्योत्स्नीस्यन्दिविधूपलप्रतिकृतिच्छायं वपुर्बिभ्रती ।कण्ठान्तस्त्रुटदक्षराद्यपुलकैर्लब्धा कदम्बाकृतिंराधा वेणुधर प्रवातकदलीतुल्या क्वचिद्वर्तते ॥४२॥अथ गोकुलप्रेमवसतिःप्रेमसन्ततिभिरेववेधसा नु वृषभानुनन्दिनी ।यादृशां पदं इता मनांसि नःस्नेहयत्यखिलगोष्ठवासिनाम् ॥४३॥अथ जगच्छ्रेणीलसद्यशाःउत्फुल्लं किल कुर्वती कुवलयं देवेन्द्रपत्नीश्रुतौकुन्दं निक्षिपती विरिञ्चीगृहिणीरोमौषधीहर्षिणी ।कर्णोत्तंससुधांशुरत्नसकलं विद्राव्य भद्राङ्गि तेलक्ष्मीं अप्यधुना चकार चकितां राधे यशःकौमुदी ॥४४॥अथ गुर्वर्पितगुरुस्नेहान सुतासि कीर्तिदायाः किन्तु ममैवेति तथ्यं आख्यामि ।प्राणिमि वीक्ष्य मुखस्ते कृष्णस्येवेति किं त्रपसे ॥४५॥अथ सखीप्रणयाधीनाउपदिश सखि वृन्दे वल्लवेन्द्रस्य सूनुंकिं अयं इह सखीनां मां अधीनां दुनोति ।अपसरतु सशङ्कं मन्दिरान्मानिनीनां कलयति ललितायाः किं न शौटीर्यधाटीम् ॥४६॥अथ कृष्णप्रियावलीमुख्या, यथा ललितमाधवे सन्तु भ्राम्यदपाड्गभङ्गिखुरलीखेलाभुवः सुभ्रुवः स्वस्ति स्यान्मदिरेक्षणे क्षणं अपि त्वां अन्तरा मे कुतः ।ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभयानाकाशे वृषभानुजां श्रियं ऋते निष्पद्यते स्वश्छटा ॥४७॥अथ सन्तताश्रवकेशवाषडङ्घ्रिभिरर्दितान्कुसुमसञ्चयानाचिनोद्अखण्डं अपि राधिके बहुशिखण्डकं त्वद्गिरा ।अमुञ्च नवपल्लवव्रजं उदञ्चदर्कोज्ज्वलंकरोतु वशगो जनः किं अयं अन्यदाज्ञापय ॥४८॥यस्याः सर्वोत्तमे यूथे सर्वसद्गुणमण्डिताः ।समन्तान्माधवाकर्षिविभ्रमाः सन्ति सुभ्रुवः ॥४९॥तास्तु वृन्दावनेश्वर्याः सख्यः पञ्चविधा मताः ।सख्यश्च नित्यसख्यश्च प्राणसख्यश्च काश्चन ।प्रियसख्यश्च परमप्रेष्ठसख्यश्च विश्रुताः ॥५०॥सख्यः कुसुमिकाविन्ध्याधनिष्ठाद्याः प्रकीर्तिताः ।नित्यसख्यश्च कस्तूरीमणिमञ्जरिकादयः ॥५१॥प्राणसख्यः शशिमुखीवासन्तीलासिकादयः ।गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥५२॥प्रियसख्यः कुरङ्गाक्षी सुमध्या मदनालसा ।कमला माधुरी मञ्जुकेशी कन्दर्पसुन्दरी ।माधवी मालती कामलता शशिकलादयः ॥५३॥परमप्रेष्ठसख्यस्तु ललिता सविशाखिका ।सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।रङ्गदेवी सुदेवी चेत्यष्टौ सर्वगणाग्रिमाः ॥५४॥आसां सुष्ठु द्वयोरेव प्रेम्णः परमकाष्ठया ।क्वचिज्जातु क्वचिज्जातु तदाधिक्यं इवेक्षते ॥५५॥इति श्रीश्रीउज्ज्वलनीलमणौ श्रीराधाप्रकरणं ॥४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP