TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नायिकाभेदप्रकरणम्

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान्‍ ग्रंथ उज्ज्वलनीलमणिः होय.


नायिकाभेदप्रकरणम्
यूथेऽप्यवान्तरगणास्तेषु च कश्चिद्गणस्त्रिचतुराभिः ।
इह पञ्चषाभिरन्यः सप्ताष्टाभिस्तथेत्याद्याः ॥१॥
नासौ नाट्ये रसे मुख्ये यत्परोढा निगद्यते ।
तत्तु स्यात्प्राकृतक्षुद्रनायिकाद्यनुसारतः ॥२॥

तथा चोक्तम्
नेष्टा यदङ्गिनि रसे कविभिर्परोढा
तद्गोकुलाम्बुजदृशां कुलं अन्तरेन ।
आशांसया रसविधेरवतारितानां
कंसारिणा रसिकमण्डलशेखरेण ॥३॥

व्रजेन्द्रनन्दनत्वेन सुष्ठु निष्ठां उपेययुः ।
यासां भावस्य सा मुद्रा सद्भक्तैरपि दुर्गमा ॥४॥

यथा ललितमाधवे
गोपीनां पशुपेन्द्रनन्दनजुषो भावस्य कस्तां क्र्ती
विज्ञातुं क्षमते दुरूहपदवीसञ्चारिणः प्रक्रियां ।
आविष्कुर्वति वैष्णवीं अपि तनुं तस्मिन्भुजैर्जिष्णुभि*
र्यासां हन्त चतुर्भिरद्भुतरुचिं रागोदयः कुञ्चति ॥५॥

भुजाचतुष्टयं क्वापि नर्मणा दर्शयन्नपि ।
वृन्दावनेश्वरीप्रेम्णा द्विभुजः क्रियते हरिः ॥६॥

यथा
रासारम्भविधौ निलीय वसता कुञ्जे मृगाक्षीगणैर्
दृष्टं गोपयितुं स्वं उद्धुरधिया या सुष्ठु सन्दर्शिता ।
राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं
सा शक्या प्रभविष्णुनापि हरिणा नासीच्चतुर्बाहुता ॥७॥

अपि च
सामान्याया रसाभासप्रसङ्गात्तादृगप्यसौ ।
भावयोगात्तु सैरिन्ध्री परकीयैव सम्मता ॥८॥

यथा च प्राञ्चः

सामान्या वनिता वेश्या सा द्रव्यं परं इच्छता ।
गुणहीने च न द्वेषो नानुरागो गुणिन्यपि ।
शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥९ ॥इति ।

स्वकीयाश्च परोढाश्च या द्विधा परिकीर्तिताः ।
मुग्धा मध्या प्रगल्भेति प्रत्येकं तास्त्रिधा मताः ॥१०॥
भेदत्रयं इदं कैश्चित्स्वीयाया एव वर्णितं ।
तथापि सत्कविग्रन्थे दृष्टत्वात्तदनादृतम् ॥११॥

तथा प्राचीनैश्चोक्तम्

उदाहृतिभिदां केचित्सर्वासां एव तन्वते ।
तास्तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः ॥१२॥
इति ।

तत्र मुग्धा
मुग्धा नववयःकामा रतौ वामा सखीवशा ।
रतिचेष्टासु सव्रीडचारुगूढप्रयत्नभाक् ॥१३॥
कृतापराधे दयिते बाष्परुद्धावलोकना ।
प्रियाप्रियोक्तौ चाशक्ता माने च विमुखी सदा ॥१४॥

तत्र नववयाः
विरमति शैशवशिशिरे, प्रविशति यौवनमधौ विशाखायाः ।
दीव्यति लोचनकमलं, वदनसुधांशुश्च विस्फुरति ॥१५॥

यथा वा
बाल्यध्वान्त सखे प्रयाहि तरसा राधावपुर्द्वीपत
स्तारुण्यद्युमणेर्यदेष विजयारम्भः पुरो जृम्भते ।
कृष्णव्योम्नि रुचिर्दरोत्तरलता ताराद्युतौ काप्युरः
पूर्वाद्रौ सुषमोन्नतिः स्मितकला पश्याद्य वक्त्राम्बुजे ॥१६॥

नवकामा, यथा
बाले कंसभिदः स्मरोत्सवरसे प्रस्तूयमाने छलात्
प्रौढाभीरवधूभिरानतमुखी त्वं कर्णं अध्यस्यसि ।
सव्याजं वनमालिकाविरचनेऽप्युल्लासं आलम्बसे
रङ्गः कोऽयं अवातरद्वद सखि स्वान्ते नवीनस्तव ॥१७॥

रतौ वामा, यथा
नवबालिकास्मि कुरु नर्म नेदृशं
पदवीं विमुञ्च शिखिपिञ्छशेखर ।
विरचन्ति पश्य पटवस्तटीं इमा
मरविन्दबन्धुदुहितुर्नतभ्रुवः ॥१८॥

यथा वा
यमुनापुलिने विलोकनान्मे
चलितां स्मेरसखीगृहीतहस्तां ।
अयि मुञ्च करं ममेति कञ्जद्
वचनां खञ्जनलोचनां स्मरामि ॥१९॥

सखीवशा
व्रजराजकुमार कर्कशे
सुकुमारीं त्वयि नार्पयाम्यमुं ।
कलभेन्द्रकरे नवोदयां
नलिनीं कः कुरुते जनः कृती ॥२०॥

यथा वा
न स्वीकृता सखि मया स्रगिहास्ति कौन्दी
किं दीर्घरोषविकटां भ्रुकुटीं तनोषि ।
क्षिप्तेयं अत्र मम मण्डनपेटिकायां
चेद्वृन्दया चटुलया किं अहं करिष्ये ॥२१ ।

सव्रीडरतप्रयत्ना, यथा
द्वित्राण्येत्य पदानि कुञ्जवसतेर्द्वारे विलासोन्मुखी
सद्यः कम्पतरङ्गदङ्गलतिका तिर्यग्विवृत्ता ह्रिया ।
भूयः स्निग्धसखीगिरां परिमलैस्तल्पान्तं आसेदुषी
स्वान्तं हन्त जहार हारिहरिणीनेत्रा मम श्यामला ॥२२॥

रोषकृतबाष्पमौना, यथा
सिद्धापराधं अपि शुद्धमनाः सखी मे
त्वां वक्ष्यते कथं अदक्षिणं अक्षमेव ।
नेमां विडम्बय कदम्बवनीभुजङ्ग
वक्त्रं पिधाय कुरुतां इयं अश्रुमोक्षम् ॥२३॥

अथ माने विमुखी
मृद्वी तथाक्षमा चेति सा माने विमुखी द्विधा ॥२४॥

तत्र मृद्वी, यथा रससुधाकारे
व्यावृत्तिक्रमणोद्यमेऽपि पदयोः प्रत्युद्गतौ वर्तनं
भ्रूभेदोऽपि तदीक्षणव्यसनिना व्यस्मारि मे चक्षुषा ।
चाटूक्तानि करोति दग्धरसना रुक्षाक्ष्रेऽप्युद्यता
सख्यः किं करवाणि मानसमये सङ्घातभेदो मम ॥२५॥
अक्षमा, यथा
आभीरपङ्कजदृशां बत साहसिक्यं
या केशवे क्षणं अपि प्रणयन्ति मानं ।
मानेति वर्णयुगलेऽपि मम प्रयाते
कर्णाङ्गनं वहति वेपथुं अन्तरात्मा ॥२६॥

अथ मध्या
समानलज्जामदना प्रोद्यत्तारुण्यशालिनी ।
किञ्चित्प्रगल्भवचना मोहान्तसुरतक्षमा ।
मध्या स्यात्कोमला क्वापि माने कुत्रापि कर्कशा ॥२७॥

तत्र समानलज्जामदना, यथा
विकिरति किल कृष्णे नेत्रपद्मं सतृष्णे
नमयति मुखं अन्तःस्मेरं आवृत्य राधा ।
निदधति दृशं अस्मिन्नन्यतः प्रेक्षतेऽमुं
तदपि सरसिजाक्षी तस्य मोदं व्यतानीत्  ॥२८॥

प्रोद्यत्तारुण्यशालिनी, यथा
भ्रुवोर्विक्षेपस्ते कवलयति मीनध्वजधनुः
प्रभारम्भं रम्भाश्रियं उपहसत्युरुयुगलं ।
कुचद्वन्द्वं धत्ते रथचरणयूनोर्विलसितं
वरोरूणां राधे तरुणिमनि चूरामणिरसि ॥२९॥

किञ्चित्प्रगल्भोक्तिः, यथोद्धवसन्देशे
मद्वक्त्राम्भोरुहपरिमलोन्मत्तसेवानुबन्धे
पत्युः कृष्णभ्रमर कुरुषे किंतरां अन्तरायं ।
तृष्णाभिस्त्वं यदि कलरुतव्यग्रचित्तस्तदाग्रे
पुष्पैः पाण्डुच्छविं अविरलैर्याहि पुंनागकुञ्जम् ॥३०॥

मोहान्तसुरतक्षमा, यथा
श्रमजलनिविडां निमीलिताक्षीं
श्लथचिकुरां अनधीनबाहुवल्लीं ।
मुदितमनसं अस्मृतान्यभावां
रतिशयने निशि गोपिकां स्मरामि ॥३१॥

माने कोमला, यथा
प्राणास्त्वं एव किं इव त्वयि गोपनीयं
मानाय केशिमथने सखि नास्मि शक्ता ।
एहि प्रयाव रविजातटनिष्कुटाय
कल्याणि फुल्लकुसुमावचयच्छलेन ॥३२॥

माने कर्कशा, यथा विदग्धमाधवे
मुधा मानोन्नाहाद्ग्लपयसि किं अङ्गानि कठिने
रुषं धत्से किंवा प्रियपरिजनाभ्यर्थनविधौ ।
प्रकामं ते कुञ्जालयगृहपतिस्ताम्यति पुरः
कृपालक्ष्मीवन्तं चटुलय दृगन्तं क्षणं इह ॥३३॥

त्रिधासौ मानवृत्तेः स्याद्धीराधीरोभयात्मिका ॥३४॥
तत्र धीरमध्या
धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥३५॥

यथा
स्वामिन्युक्तं इदं तवाञ्जननवालक्तद्रवैः सर्वतः
संक्रान्तैर्धृतनीललोहिततनोर्यच्चन्द्रलेखाधृतिः ।
एकं किन्त्ववलोचयाम्यनुचितं हंहो पशूनां पते
देहार्धे दयितां वहन्बहुमतां अत्रासि यन्नागतः ॥३६॥

अथ अधीरमध्या
अधीरा परुषैर्वाक्यैर्निरस्येद्वल्लभं रुषा ॥३७॥

यथा
उत्तुङ्गस्तनमण्डलीसहचरः कण्ठे स्फुरन्नेष ते
हारः कंसरिपो क्षपाविलसितं निःसंशयं शंसति ।
धूर्ताभीरवधूप्रतारितमते मिथ्याकथाघर्घरी
झङ्कारोन्मुखर प्रयाहि तरसा युक्तात्र नावस्थितिः ॥३८॥

अथ धीराधीरमध्या
धीराधीर तु वक्रोक्त्या सबाष्पं वदति प्रियम् ॥३९॥

यथा
गोपेन्द्रनन्दन न रोदय याहि याहि
सा ते विधास्यति रुषं हृदयाधिदेवी ।
त्वन्मौलिमाल्यहृतयावकपङ्कं अस्याः
पादद्वयं पुनरनेन विभूषयाद्य ॥४०॥

यथा वा
तां एव प्रतिपद्य कामवरदां सेवस्व देवीं सदा
यस्याः प्राप्य महाप्रसादं अधुना दामोदरामोदसे ।
पादालक्तचितं शिरस्तव मुखं ताम्बूलशेषोज्ज्वलं
कण्ठश्चायं उरोजकुट्मलसुहृन्निर्माल्यमाल्याङ्कितः ॥४१॥

सर्व एव रसोत्कर्षो मध्यायां एव युज्यते ।
यदस्यां वर्तते व्यक्ता मौग्ध्यप्रागल्भ्ययोर्युतिः ॥४२॥

अथ प्रगल्भा
प्रगल्भा पूर्णतारुण्या मदान्धोरुरतोत्सुका ।
भूरिभावोद्गमाभिज्ञा रसेनाक्रान्तवल्लभा ।
अतिप्रौढोक्तिचेष्टासौ माने चात्यन्तकर्कशा ॥४३॥

तत्र पूर्णतारुण्या, यथा
मुष्णाति स्तनयुग्मं अभ्रं उपतेः कुम्भस्थलीविभ्रमं
विस्फारं च नितम्बमण्डलं इदं रोधःश्रियं लुण्ठति ।
द्वन्द्वं लोचनयोश्च लोलशफरीविस्फूर्जितं स्पर्धते
तारुण्यामृतसम्पदा त्वं अधिकं चन्द्रावलि क्षालिता ॥४४॥

अथ मदान्धा
निष्क्रान्ते रतिकुञ्जतः परिजने शय्यां अवापय्य मां
स्वैरं गौरि रिरंसया मयि दृशं दीर्घां क्षिपत्यच्युते ।
सद्यःप्रोद्यदुरुप्रमोदलहरीविस्मारितात्मस्थिति
र्नाहं तत्र विदाम्बभूव किं अभूत्कृत्यं किलातःपरम् ॥४५॥

उरुरतोत्सुका, यथा
उदञ्चद्वैयात्यां पृथुनखपदाकीर्णमिथुनां
स्खलद्बर्हाकल्पां दलदमलगुञ्जामणिसरां ।
ममानङ्गक्रीडां सखि वलयरिक्तीकृतकरां
मनस्तां एवोच्चैर्मणितरमणीयां मृगयते ॥४६॥

भूरिभावोद्गमाभिज्ञा
साचिप्रेङ्खदपाङ्गशृङ्खलशिखा विस्फारितभ्रूलता
साकूतस्मितकुड्मलावृतमुखी प्रोत्क्षिप्तरोमाङ्कुरा ।
कुञ्जे गुञ्जदलौ विराजसि चिरात्कूजद्विपञ्चीस्वरा
बद्धुं बन्धुरगात्रि कृष्णहरिणं शङ्के त्वं आकाङ्क्षसि ॥४७॥

रसाक्रान्तवल्लभा, यथा
अवचिनु कुसुमानि प्रेक्ष्य चारुण्यरण्ये
विरचय पुनरेभिर्मण्डनान्युज्ज्वलानि ।
मधुमथन मदङ्गे कल्पयाकल्पं एतै
र्युवतिषु मम भीमं रौतु सौभाग्यभेरी ॥४८॥

अतिप्रौढोक्तिः, यथा पद्यावल्यां
काकुं करोषि गृहकोणकरीषपुञ्ज
गूढाङ्ग किं ननु वृथा कितव प्रयाहि ।
कुत्राद्य जीर्णतरणिभ्रमणातिभीत
गोपाङ्गनागणविडम्बनचातुरी ते ॥४९॥

अतिप्रौढचेष्टा, यथा
सख्यास्तवानङ्गरणोत्सवेऽधुना
ननर्त मुक्तालतिका स्तनोपरि ।
उत्प्लुत्य यस्याः सखि नायकश्चलो
धीरं मुहुर्मे प्रजहार कौस्तुभम् ॥५०॥

मानेऽत्यन्तकर्कशा, यथा उद्दवसन्देशे
मेदिन्यां ते लुठति दयिता मालती म्लानपुष्पा
तिष्ठन्द्वारे रमणि विमनाः खिद्यते पद्मनाभः ।
त्वं चोन्निद्रा क्षपयसि निशां रोदयन्ती वयस्या
माने कस्ते नवमधुरिमा तं तु नालोकयामि ॥५१॥

मानवृत्तेः प्रगल्भापि त्रिधा धीरादिभेदतः ॥५२॥

तत्र धीरप्रगल्भा
उदास्ते सुरते धीरा सावहित्था च सादरा ॥५३॥

यथा
देवी नाद्य मयार्चितेति न हरे ताम्बूलं आस्वादितं
शिल्पं ते परिचित्य तप्स्यति गृहीत्यङ्गी कृता न स्रजः ।
आहूतास्मि गृहे व्रजेशितुरिति क्षिप्रं व्रजन्त्या वच
स्तस्याश्रावि न भद्रयेति विनयैर्मानः प्रमाणीकृतः ॥५४॥

यथा वा
कण्ठे नाद्य करोमि दुर्व्रतहता रम्यां इमां ते स्रजं
वक्तुं सुष्ठु न हि क्षमास्मि कठिनैर्मौनं द्विजैर्ग्राहिता ।
का त्वां प्रोज्झ्य चलेत्खलेयं अचिरं श्वश्रूर्न चेदाह्वये
दित्थं पालिकया हरौ विनयतो मन्युर्गभीरीकृतः ॥५५॥

यथा वा
कुचालम्भे पाणिर्न हि मम भवत्या विघटितो
मुहुश्चुम्बारम्भे मुखं अपि न साचीकृतं अभूत् ।
परीरम्भे चन्द्रावलि न च वपुः कुञ्चितं इदं
क्व लब्धा मानस्य स्थितिरियं अनालोकितचरी ॥५६॥

अथ अधीरप्रगल्भा
सन्तर्ज्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम् ॥५७॥

यथा
मुग्धाः कंसरिपो वयं रचयितुं जानीमहे नोचितं
तां नीतिक्रमकोविदां प्रियसखीं वन्देमहि श्यामलां ।
मल्लीदामभिरुच्छलन्मधुकरैः संयम्य कण्ठे यया
साक्षेपं चकितेक्षणस्त्वं असकृत्कर्णोत्पलैस्ताड्यसे ॥५८॥

अथ धीराधीरप्रगल्भा
धीराधीरगुणोप्तेआ धीराधीरेति कथ्यते ॥५९॥

यथा
स्फुरति न मम जातु क्रोधगन्धोऽपि चित्ते
व्रतं अनु गहनाभूत्किन्तु मौने मनीषा ।
अघहर लघु याहि व्याज आस्तां यदेताः
कुसुमरसनया त्वां बन्धुं इच्छन्ति सख्यः ॥६०॥

यथा वा
कृतागसि हरौ पुरः स्फुरति तं भ्रमद्भ्रूलता
तिताडयिषुरुद्धुरा श्रुतितटाद्विकृष्योत्पलं ।
न तेन तं अताडयत्किं अपि याहि याहीति सा
ब्रुवत्यजनि मङ्गला सखि परं पराञ्चन्मुखी ॥६१॥

किशोरिकाणां अप्यासां आकृतेः प्रकृतेरपि ।
प्रागल्भ्यादिव कासांचित्प्रगल्भात्वं उदीर्यते ॥६२॥
मध्या तथा प्रगल्भा च द्विधा सा परिभिद्यते ।
ज्येष्ठा चापि कनिष्ठा च नायकप्रणयं प्रति ॥६३॥

यथा
सुप्ते प्रेक्ष्य पृथक्पुरः प्रियतमे तत्रार्पयन्पुष्पजं
लीलाया नयनाञ्चले किल रजश्चक्रे प्रबोधोद्यमं ।
कृष्णः शीतलतालवृन्तरचनोपायेन पश्याग्रत
स्तारायाः प्रणयादिव प्रणयते निद्राभिवृद्धिक्रमम् ॥६४॥

यथा वा
दीव्यन्त्यौ दयिते समीक्ष्य रभसादक्षैस्त्र्यहात्मग्लहै
र्गौरीं घूर्णितयोपदिश्य हितवद्दायप्रयोगं भ्रुवा ।
तस्यास्तूर्णं उपार्जयन्निव जयं शिक्षावशेनाच्युतः
श्यामां एव चकार धूर्तनगरीसङ्केतविज्जित्वराम् ॥६५॥

काचित्काञ्चिदपेक्ष्य स्याज्ज्येष्ठेत्यापेक्षिकी भिदा ।
अतो भेदद्वयं इदं न कृतं गणनान्तरे ॥६६॥
कन्या मुग्धैव सा किन्तु स्वीयान्योढे उभे बुधैः ।
मुग्धामध्यादिभेदेन षड्भेदे परिकीर्तिते ॥६७॥
मध्याप्रौढे द्विषड्भेदे प्रोक्ते धीरादिभेदतः ।
कन्या स्वीया परोढेति मुग्धा च त्रिविधा मता ।
इति ताः कीर्तिता पञ्चदश भेदा इहाखिलाः ॥६८॥
अथावस्थाष्टकं सर्वनायिकानां निगद्यते ।
तत्राभिसारिका वाससज्जा चोत्कण्ठिता तथा ॥६९॥
खण्डिता विप्रलब्धा च कलहान्तरितापि च ।
प्रोषितप्रेयसी चैव तथा स्वाधीनभर्तृका ॥७०॥

तत्र अभिसारिका, यथा
याभिसारयते कान्तं स्वयं वाभिसरत्यपि ।
सा ज्योत्स्नी तामसी यानयोग्यवेषाभिसारिका ॥७१॥
लज्जया स्वाङ्गलीनेव निःशब्दाखिलमण्डना ।
कृतावगुष्ठा स्निग्धैकसखीयुक्ता प्रियं व्रजेत्  ॥७२॥

तत्र अभिसारयित्री, यथा
जानीते न हरिर्यथा मम मनःकन्दर्पकण्डूं इमां
मां प्रीत्याभिसरत्ययं सखि यथा कृत्वा त्वयि प्रार्थनां ।
चातुर्यं तरसा प्रसारय तथा सस्नेहं आसाद्य तं
यावत्प्राणहरो न चन्द्रहतकः प्राचीमुखं चुम्बति ॥७३॥

अथ ज्योत्स्न्यां स्वयं अभिसारिका, यथा
इन्दुस्तुन्दिलमण्डलं प्रणयते वृन्दावने चन्द्रिकां
सान्द्रां सुन्दरि नन्दनो व्रजपतेस्त्वद्वीथिं उद्वीक्षते ।
त्वं चन्द्राञ्चितचन्दनेन खचिता क्षौमेण चालङ्कृता
किं वर्त्मन्यरविन्दचारुचरणद्वन्द्वं न सन्धित्ससि ॥७४॥

तामस्यां, यथा विदग्धमाधवे (४.२२)
तिमिरमसिभिः संवीताङ्ग्यः कदम्बवनान्तरे
सखि बकरिपुं पुण्यात्मानः सरन्त्यभिसारिकाः ।
तव तु परितो विद्युद्वर्णास्तनुद्युतिसूचयो
हरि हरि घनध्वान्तान्येताः स्ववैरिणि भिन्दते ॥७५॥

अथ वासकसज्जा
स्ववासकवशात्कान्ते समेष्यति निजं वपुः ।
सज्जीकरोति गेहं च या सा वासकसज्जिका ॥७६॥
चेष्टा चास्याः स्मरक्रीडासङ्कल्पो वर्त्मवीक्षणं ।
सखीविनोदवार्त्ता च मुहुर्दूतिक्षणादयः ॥७७॥

यथा
रतिक्रीडाकुञ्जं कुसुमशयनीयोज्ज्वलरुचिं
वपुः सालङ्कारं निजं अपि विलोक्य स्मितमुखी ।
मुहुर्ध्यायं ध्यायं किं अपि हरिणा सङ्गमविधिं
समृद्ध्यन्ती राधा मदनमदमाद्यन्मतिरभूत्  ॥७८॥

अथ उत्कण्ठिता
अनागसि प्रियतमे चिरयत्युत्सुका तु या ।
विरहोत्कण्ठिता भाववेदिभिः सा समीरिता ॥७९॥
अस्यास्तु चेष्टा हृत्तापो वेपथुर्हेतुतर्कणं ।
अरतिर्वाष्पमोक्षण् च स्वावस्थाकथनादयः ॥८०॥

यथा
सखि किं अभवद्बद्धो राधाकटाक्षगुणैरयं
समरं अथवा किं प्रारब्धं सुरारिभिरुद्धुरैः ।
अहह बहुलाष्टम्यां प्राचीमुखेऽप्युदिते विधौ
विधुमुखि! न यन्मां सस्मार व्रजेश्वरनन्दनः ॥८१॥

वाससज्जादशाशेषे मानस्य विरतावपि ।
पारतन्त्र्ये तथा यूनोरुत्कण्ठा स्यादसङ्गमात्  ॥८२॥

अथ विप्रलब्धा
कृत्वा सङ्केतं अप्राप्ते दैवाज्जीवितवल्लभे ।
व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः ।
निर्वेदचिन्ताखेदाश्रुमूर्च्छानिःश्वसितादिभाक् ॥८३॥

यथा
विन्दति स्म दिवं इन्दुरिन्दिरा
नायकेन सखि वञ्चिता वयं ।
कुर्महे किं इह शाधि सादरं
द्रागिति क्लमं अगान्मृगेक्षणा ॥८४॥

उल्लङ्घ्य समयं यस्याः प्रेयानन्योपभोगवान् ।
भोगलक्ष्माङ्कितः प्रातरागच्छेत्सा हि खण्डिता ।
एषा तु रोषनिःश्वासतूष्णींभावादिभाग्भवेत्  ॥८५॥

यथा
यावैर्धूमलितं शिरो भुजतटीं ताटङ्कमुद्राङ्कितां
संक्रान्तस्तनकुङ्कुमोज्ज्वलं उरो मालां परिम्लापितां ।
घूर्णाकुड्मलिते दृशौ व्रजपतेर्दृष्ट्वा प्रगे श्यामला
चित्ते रुद्रगुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम् ॥८६॥

अथ कलहान्तरिता
या सखीनां पुरः पादपतितं वल्लभं रुषा ।
निरस्य पश्चात्तपति कलहान्तरिता हि सा ।
अस्याः प्रलापसन्तापग्लानिनिःश्वसितादयः ॥८७॥

यथा
स्रजः क्षिप्ता दूरे स्वयं उपहृताः केशिरिपुणा
प्रियवाचस्तस्य श्रुतिपरिसरान्तेऽपि न कृताः ।
नमन्नेष क्षौणीविलुठितशिखं प्रैक्षि न मया
मनस्तेनेदं मे स्फुटति पुटपाकार्पितं इव ॥८८॥

अथ प्रोषितभर्तृका
दूरदेशं गते कान्ते भवेत्प्रोषितभर्तृका ।
प्रियसंकीर्तनं दैन्यं अस्यास्तानवजागरौ ।
मालिन्यं अनवस्थानं जाड्यचिन्तादयो मताः ॥८९॥

यथा
विलासी स्वच्छन्दं वसति मथुरायां मधुरिपु
र्वसन्तः सन्तापं प्रथयति समन्तादनुपदं ।
दुराशेयं वैरिण्यहह मदभीष्टोद्यमविधौ
विधत्ते प्रत्यूहं किं इह भविता हन्त शरणम् ॥९०॥

अथ स्वाधीनभर्तृका
स्वायत्तासन्नदयिता भवेत्स्वाधीनभर्तृका ।
सलिलारण्यविक्रीडाकुसुमावचयादिकृत्  ॥९१॥

यथा
मुदा कुर्वन्पत्राङ्कुरं अनुपमं पीनकुचयोः
श्रुतिद्वन्द्वे गन्धाहृतमधुपं इन्दीवरयुग्मं ।
सखेलं धम्मिल्लोपरि च कमलं कोमलं असौ
निराबाधां राधां रमयति चिरं केशिदमनः ॥९२॥

यथा वा, श्रीगीतगोविन्दे
रचय कुचयोश्चित्रं पत्रं कुरुष्व कपोलयो
र्घटय जघने काञ्चीं मुग्धस्रजा कवरिभरं ।
कलय वलयश्रेणीं पाणौ पदे मणिनूपुरा
विति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत्  ॥९३॥

चेदियं प्रेयसा हातुं क्षणं अप्यतिदुःशका ।
परमप्रेमवश्यत्वान्माधवीति तदोच्यते ॥९४॥
हृष्टाः स्वाधीनपतिकावाससज्जाभिसारिकाः ।
मण्डिताश्च पराः पञ्च खिन्ना मण्डनवर्जिताः ।
वामगण्डाश्रितकराश्चिन्तासन्तप्तमानसाः ॥९५॥
उत्तमा मध्यमा चात्र कनिष्ठा चेति तास्त्रिधा ।
व्रजेन्द्रनन्दने प्रेमतारतम्येन कीर्तिताः ॥९६॥
भावः स्यादुत्तमादीनां यस्या यावान्प्रिये हरौ ।
तस्यापि तस्यां तावान्स्यादिति सर्वत्र युज्यते ॥९७॥

तत्र उत्तमा, यथा
कर्तुं शर्म क्षणिकं अपि मे साध्यं उज्झत्यशेषं
चित्तोत्सङ्गे न भजति मया दत्तखेदाप्यसूयां ।
श्रुत्वा चान्तर्विदलति मृषाप्यार्तिवार्तालवं मे
राधा मूर्धन्यखिलसुदृशां राजते सद्गुणेन ॥९८॥

मध्यमा, यथा
दुर्मानं एव मनना बहु मानयन्ती
किं ज्ञातकृष्णहृदयार्तिरपि प्रयासि ।
रङ्गे तरङ्गं अखिलाङ्गि वराङ्गनानां
नासौ प्रिये सखि भवत्यनुरागमुद्रा ॥९९॥

कनिष्ठा, यथा
दनुजभिदभिसारप्रस्तुतौ वृष्टिं उग्रां
जनगमनविरामादुच्चकैः स्तौषि तुष्टा ।
कथय कथं इदानीं जृम्भिते मेघडिम्भे
कुतुकिनि बत कुञ्जे प्रस्थितौ मन्थरासि ॥१००॥

पूर्वं याः पञ्चदशधा प्रोक्तास्तासां शतं तथा ।
विंशतिश्चाभिरत्र स्यादवस्थाभिः किलाष्टभिः ॥१०१॥
पुनश्च त्रिविधैरेभिः प्रभेदैरुत्तमादिभिः ।
त्रिशती स्पष्टं उक्तात्र षष्ट्या युक्ता मनीषिभिः ॥१०२॥
किं च
यथा स्युर्नायकावस्था निखिला एव माधवे ।
तथैता नायिकावस्था राधायां प्रायशो मताः ॥१०३॥

इति श्रीश्रीउज्ज्वलनीलमणौ नायिकाभेदप्रकरणं ॥५॥

Translation - भाषांतर

References : N/A
Last Updated : 2016-11-11T11:55:07.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.