TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुभावप्रकरणं

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान्‍ ग्रंथ उज्ज्वलनीलमणिः होय.


अनुभावप्रकरणं
अनुभावास्त्वलङ्कारास्तथैवोद्भास्वराभिधाः ।
वाचिकाश्चेति विद्वद्भिस्त्रिधामी परिकीर्तिताः ॥१॥

तत्र अलङ्काराः
यौवने सत्त्वजास्तासां अलङ्कारास्तु विंशतिः ।
उदयन्त्यद्भुताः कान्ते सर्वथाभिनिवेशतः ॥२॥
भावो हावश्च हेला च प्रोक्तास्तत्र त्रयोऽङ्गजाः ॥३॥
शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्यं धैर्यं इत्येते सप्तैव स्युरयत्नजाः ॥४॥
लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितं ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
विकृतं चेति विज्ञेया दश तासां स्वभावजाः ॥५॥

तत्र भावः
प्रादुर्भावं व्रजत्येव रत्याख्ये भाव उज्ज्वले ।
निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥६॥

तथा ह्युक्तं
चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।
तत्राद्या विक्रिया भावो बीजस्यादिविकारवत्  ॥७॥

यथा
पितुर्गोष्ठे स्फीते कुसुमिनि पुरा खाण्डववने
न ते दृष्ट्वा साङ्क्रन्दनं अपि मनः स्पन्दनं अगात् ।
पुरो वृन्दारण्ये विहरति मुकुन्दे सखि मुदा
किं आन्दोलादक्ष्णः  श्रुतिकुमुदं इन्दीवरं अभूत्  ॥८॥

अथ हावः
ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत् ।
भावादीषत्प्रकाशो यः स हाव इति कथ्यते ॥९॥

यथा
साचिस्तम्भितकण्ठि कुड्मलवतीं नेत्रालिरभ्येति ते
घूर्णन्कर्णलतां मनाग्विकसिता भ्रूवल्लरी नृत्यति ।
अत्र प्रादुरभूत्तटे सुमनसां उल्लासकस्त्वत्पुरो
गौराङ्गि प्रथमं वनप्रिअयबन्धुः स्फुटं माधवः ॥१०॥

अथ हेला
हाव एव भवेद्धेला व्यक्तशृङ्गारसूचकः ॥११॥

यथा
श्रुते वेणौ वक्षः स्फुर्तिअकुचं आध्मातं अपि ते
तिरोविक्षिप्ताक्षं पुलकितकपोलं च वदनं ।
स्खलत्काञ्चि स्वेदार्गलितसिचयं चापि जघनं
प्रमादं मा कार्षीः सखि चरति सव्ये गुरुजनः ॥१२॥

अथ अयत्नजाः । तत्र शोभा
सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् ॥१३॥

यथा
धृत्वा रक्ताङ्गुलिकिशलयैर्नीपशाखां विशाखा
निष्क्रामन्ती व्रततिभवनात्प्रातरुद्घूर्णिताक्षी ।
वेणीं अंसोपरि विलुठतीं अर्धं उक्तां वहन्ती
लग्ना स्वान्ते मम न हि बहिः सेयं अद्याप्ययासीत्  ॥१४॥

अथ कान्तिः
शोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥१५॥

यथा
प्रकृतिमधुरमूर्तिर्बाढं अत्राप्युदञ्च
त्तरुणिमनवलक्ष्मीलेखयालिङ्गिताङ्गी ।
वरमदनविहारैरद्य तत्राप्युदारा
मदयति हृदयं मे रुन्धती राधिकेयम् ॥१६॥

अथ दीप्तिः
कान्तिरेव वयोभोगदेशकालगुणादिभिः ।
उद्दीपितातिविस्तारं प्राप्ता चेद्दीप्तिरुच्यते ॥१७॥

यथा
निमीलन्नेत्रश्रीरचटुलपटीराचलमरु
न्निपीतस्वेदाम्बुस्त्रुटदमलहारोज्ज्वलकुचा ।
निकुञ्जे क्षिप्ताङ्गी शशिकिरणकिर्मीरिततटे
किशोरी सा तेने हरिमनसि राधा मनसिजम् ॥१८॥

अथ माधुर्यम्
माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता ॥१९॥

यथा
असव्यं कंसारेर्भुजशिरसि धृत्वा पुलकिनं
निजश्रोण्यां सव्यं करं अनृजुविष्कम्भितपदा ।
दधाना मूर्धानं लघुतरतिरःस्रंसिनं इयं
बभौ रासोत्तीर्णा मुहुरलसमूर्तिः शशिमुखी ॥२०॥
अथ प्रगल्भता
निःशङ्कत्वं प्रयोगेषु बुधैरुक्ता प्रगल्भता ॥२१॥

यथा विदग्धमाधवे
प्रातिकूल्यं इव यद्विवृण्वती
राधिका रदनखार्पणोद्धूरा ।
केलिकर्मणि गता प्रवीणतां
तेन तुष्टिं अतुलां हरिर्ययौ ॥२२॥

अथ औदार्यम्
औदार्यं विनयं प्राहुः सर्वावस्थागतं बुधाः ॥२३॥

यथा विदग्धमाधवे
न्यविशत नयनान्ते कापि सारल्यनिष्ठा
वचसि च विनयेन स्तोत्रभङ्गी न्यवात्सीत् ।
अजनि च मयि भूयान्सम्भ्रमस्तेन तस्या
व्यवृणुत हृदि मन्युं सुष्ठु दाक्षिण्यं एव ॥२४॥

यथा वा
कृतज्ञोऽपि प्रेमोज्ज्वलमतिरपि स्फारविनयोऽ
प्यभिज्ञानां चुडामणिरपि कृपानीरधिरपि ।
यदन्तःस्वच्छोऽपि स्मरति न हरिर्गोकुलभुवं
ममैवेदं जन्मान्तरदुरितदुस्टद्रुमफलम् ॥२५॥


अथ धैर्यम्
स्थिरा चित्तोन्नतिर्या तु तद्धैर्यं इति कीर्त्यते ॥२६॥

यथा ललितमाधवे
औदासीन्यधुरापरीतहृदयः काठिन्यं आलम्बतां
कामं श्यामलसुन्दरो मयि सखि स्वैरी सहस्रं समाः ।
किन्तु भ्रान्तिभरादपि क्षणं इदं तत्र प्रियेभ्यः प्रिये
चेतो जन्मनि जन्मनि प्रणयितादास्यं न मे हास्यति ॥२७॥

अथ स्वभावजाः । तत्र लीला
प्रियानुकरणं लीला रम्यैर्वेशक्रियादिभिः ॥२८॥

यथा विष्णुपुराणे
दुष्टकालिय तिष्ठाद्य कृष्णोऽहं इति चापरा ।
बाहुं आस्फोट्य कृष्णस्य लीलासर्वस्वं आददे ॥२९॥

यथा वा छन्दोमञ्जर्याम्
मृगमदकृतचर्चा पीतकौषेयवासा
रुचिरशिखिशिखण्डा बद्धधम्मिल्लपाशा ।
अनृजुनिहितं अंसे वंशं उत्क्वाणयन्ती
कृतमधुरिपुवेषा मालिनी पातु राधा ॥३०॥

अथ विलासः
गतिस्थानासनादीनां मुखनेत्रादिकर्मणां ।
तात्कालिकं तु वैशिष्ट्यं विलासः प्रियसङ्गजम् ॥३१॥

यथा
रुणत्सि पुरतः स्फुरत्यघहरे कथं नासिका
शिखग्रथितमौक्तिकोन्नमनकैत्वेन स्मितं ।
निरास्थदचिरं सुधाकिरणकौमुदीमाधुरीं
मनागपि तवोद्गता मधुरदन्ति दन्तद्युतिः ॥३२॥

यथा वा
अध्यासीनं अमुं कदम्बनिकटे क्रीडाकुटीरस्थली
माभीरेन्द्रकुमारं अत्र रभसादालोकयन्त्याः पुरः ।
दिग्धा दुग्धसमुद्रमुग्धलहरीलावण्यनिस्यन्दिभिः
कालिन्दी तव दृक्तरङ्गितभरैस्तन्वङ्गि गङ्गायते ॥३३॥

अथ विच्छित्तिः
आकल्पकल्पनाल्पापि विच्छित्तिः कान्तिपोषकृत्  ॥३४॥

यथा
माकन्दपत्रेण मुकुन्दचेतः
प्रमोदिनी मारुतकम्पितेन ।
रक्तेन कर्णाभरणीकृतेन
राधामुखाम्भोरुहं उल्ललास ॥३५॥

यथा वा हरिवंशे
एकेनामलपत्रेण कण्ठसूत्रावलम्बिना ।
रराज बर्हिपत्रेण मन्दमारुतकम्पिना ॥३६॥

सखीयत्नादिव धृतिर्मण्डनानां प्रियागसि ।
सेर्ष्यावज्ञा वरस्त्रीभिर्विच्छित्तिरिति केचन ॥३७॥

यथा
मुद्रां गाढतरां विधाय निहिते दूरीकुरुष्वाङ्गदे
ग्रन्थिं न्यस्य कठोरं अर्पितमतिः कण्ठान्मणिं भ्रंशय ।
मुग्धे कृष्णभुजङ्गदृष्टिकलया दुर्वारया दूषिते
रत्नालङ्करणे मनागपि मनस्तृष्णां न पुष्णाति मे ॥३८॥

अथ विभ्रमः
वल्लभप्राप्तिवेलायां मदनावेशसम्भ्रमात् ।
विभ्रमो हारमाल्यादिभूषास्थानविपर्ययः ॥३९॥

यथा विदग्धमाधवे
धम्मिल्लोपरि नीलरत्नरचितो हारस्त्वयारोपितो
विन्यस्तः कुचकुम्भयोः कुर्वलयश्रेणीकृतो गर्भकः ।
अङ्गे चर्चितं अञ्जनं विनिहिता कस्तूरिका नेत्रयोः
कंसारेरभिसारसम्भ्रमभरान्मन्ये जगद्विस्मृतम् ॥४०॥

यथा वा, श्रीदशमे
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।
व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥४१॥

अधीनस्यापि सेवायां कान्तस्यानभिनन्दनं ।
विभ्रमो वामतोद्रेकात्स्यादित्याख्याति कश्चन ॥४२॥

यथा
त्वं गोविन्द मयासि किं नु कवरीबन्धार्थं अभ्यर्थितः
क्लेशेनालं अबद्ध एव चिकुरस्तोमो मुदं दोग्धि मे ।
वक्त्रस्यापि न माज्जनं कुरु घनं घर्मासु मे रोचते
नैवोत्तंसय मालतीर्मम शिरः खेदं भरेणाप्स्यति ॥४३॥

अथ किलकिञ्चितम्
गर्वाभिलाषरुदितस्मितासूयाभयक्रुधां ।
सङ्करीकरणं हर्षादुच्यते किलकिञ्चितम् ॥४४॥

यथा
मया जातोल्लासं प्रियसहचरी लोचनपथे
बलान्न्यस्ते राधाकुचमुकुलयोः पाणिकमले ।
उदञ्चद्भ्रूभेदं सपुलकं अवष्टम्भि वलितं
स्म्राम्यन्तस्तस्याः स्मितरुदितकान्तद्युति मुखम् ॥४५॥
 
यथा वा दानकेलिकौमुद्यां
अन्तःस्मेरतयोज्ज्वला जलकणव्याकीर्णपक्ष्माङ्कुरा
किञ्चित्पाटलिताञ्चला रसिकतोत्सिक्ता पुरः कुञ्चती ।
रुद्धायाः पथि माधवेन मधुरव्याभुग्नतारोत्तरा
राधायाः किलकिञ्चितस्तवकिनी दृष्टिः श्रियं वः क्रियात्  ॥४६॥

अथ मोट्टायितम्
कान्तस्मरणवार्तादौ हृदि तद्भावभावतः ।
प्राकट्यं अभिलाषस्य मोट्टायितं उदीर्यते ॥४७॥

यथा
न ब्रूते क्लमबीजं आलिभिरलं पृष्टापि पाली यदा
चातुर्येण तदग्रतस्तव कथा ताभिस्तदा प्रस्तुता ।
तां पीताम्बर जृम्भमाणवदनाम्भोजा क्षणं शृण्वती
बिम्बोष्ठी पुलकरि विडम्बितवती फुल्लां कदम्बश्रियम् ॥४८॥

अथ कुट्टमितम्
स्तनाधरादिग्रहणे हृत्प्रीतावपि सम्भ्रमात् ।
बहिः क्रोधो व्यथितवत्प्रोक्तं कुट्टमितं बुधैः ॥४९॥

यथा
करौद्धत्यं हन्त स्थगय कवरी मे विघटते
दुकूलं च न्यञ्चत्यघहर तवास्तां विहसितं ।
किं आरब्धः कर्तुं तं अनवसरे निर्दय मदात्
पताम्येषा प्¸अदे वितर शयितुं मे क्षणं अपि ॥५०॥

यथा वा
न भ्रूलतां कुटिलय क्षिप नैव हस्तं
वक्त्रं च कण्टकितगण्डं इदं न रुन्धि ।
प्रीणातु सुन्दरि तवाधरबन्धुजीवे
पीत्वा मधुनि मधुरे मधुसूद्नोऽसौ ॥५१॥

अथ बिब्बोकः
बिब्बोको मानगर्वाभ्यां स्यादभीष्टेऽप्यनादरः ॥५२॥

तत्र गर्वेण, यथा
प्रियोक्तिलक्षेण विपक्षसन्निधौ
स्वीकारितां पश्य शिखण्डमौलिना ।
श्यामातिवामा हृदयङ्गमां अपि
स्रजं दराघ्राय निरास हेलया ॥५३॥

यथा वा
स्फुरत्यग्रे तिष्ठन्सखि तव मुखक्सिप्तनयनः
प्रतीक्षां कृत्वायं भवदवसरस्याघदमनः ।
दृशोच्चैर्गाम्भीर्यग्रथितगुरुहेलागहनया
हसन्तीव क्षीवे त्वं इह वनमालां रचयसि ॥५४॥

मानेन, यथा
हरिणा सखि चाटुमण्डलीं
क्रियमाणां अवमन्य मन्युतः ।
न वृथाद्य सुशिक्षितां अपि
स्वयं अध्यापय गौरि शारिकाम् ॥५५॥

अथ ललितम्
विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहराः ।
सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥५६॥

यथा
सुभ्रूभङ्गं अननङ्गबाणजननीरालोकयन्ती लताः
सोल्लासं पदपङ्कजे दिशि दिशि प्रेङ्खोलयन्त्युज्ज्वला ।
गन्धाकृष्टधियः करेण मृदुना व्याधुन्वती षट्पदान्
राधा नन्दति कुञ्जकन्दरतटे वृन्दावनश्रीरिव ॥५७॥

अथ विकृतम्
ह्रीमानेर्ष्यादिभिर्यत्र नोच्यते स्वविवक्षितं ।
व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥५८॥

तत्र ह्रिया, यथा
निशमय्य मुकुन्द मन्मुखा
द्भवदभ्यर्थितं अत्र सुन्दरी ।
न गिराभिनन्द किन्तु सा
पुलकेनैव कपोलशोभिना ॥५९॥

यथा वा
न परपुरुसे दृष्टिक्सेपो वराक्षि तवोचित
स्त्वं असि कुलजा साध्वी वक्त्रं प्रसीद विवर्तय ।
इति पथि मया नर्मण्युक्ते हरेर्नववीक्षणे
सदयं उदयत्कार्पण्यं मां अवैक्षत राधिका ॥६०॥

मानेन, यथा
मयासक्तवति प्रसादनविधौ विस्मृत्य चन्द्रग्रहं
तद्विज्ञप्तिसमुत्सुकापि विजहौ मौनं न सा मानिनी ।
किन्तु श्यामलरत्नसम्पुटदलेनावृत्य किञ्चिन्मुखं
सत्या स्मारयति स्म विस्मृतं असौ मां औपरागीं श्रियम् ॥६१॥

ईर्स्यया, यथा
वितर तस्करि मे मुरलीं हृता
मिति मदुद्धरजल्पविवृत्तया ।
भ्रूकुटिभङ्गुरं अर्कसुतातटे
सपदि राधिकयाहं उदीक्षितः ॥६२॥

अलङ्कारा निगदिता विंशतिर्गात्रचित्तजाः ।
अमी यथोचितं ज्ञेया माधवेऽपि मनीषिभिः ॥६३॥
कैश्चिदन्येऽप्यलङ्काराः प्रोक्ता नात्र मयोदिताः ।
मुनेरसम्मतत्वेन किन्तु द्वितयं उच्यते ।
मौग्ध्यं च चकितं चेति किञ्चिन्माधुर्यपोषणात्  ॥६४॥

तत्र मौग्ध्यम्
ज्ञातस्याप्यज्ञवत्पृच्छा प्रियाग्रे मौग्ध्यं ईरितम् ॥६५॥

यथा मुक्ताचरिते
कास्ता लताः क्व वा सन्ति केन वा किल रोपिताः ।
नाथ मत्कङ्कणन्यस्तं यासां मुक्ताफलं फलम् ॥६६॥

चकितम्
प्रियाग्रे चकितं भीतेरस्थानेऽपि भयं महत्  ॥६७॥

यथा
रक्ष रक्ष मुहुरेष भीषणो
धावति श्रवणचम्पकं मम ।
इत्युदीर्य मधुपाद्विशङ्किता
सस्वजे हरिणलोचना हरिम् ॥६८॥

इत्यलङ्कारविवृतिः

अथ उद्भास्वराः

उद्भासन्ते स्वधानीति प्रोक्ता उद्भास्वरा बुधैः ॥६९॥
नीव्युत्तरीयधम्मिल्लस्रंसनं गात्रमोटनं ।
जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश्च ते मताः ॥७०॥

तत्र नीविस्रंसनं, यथा विदग्धमाधवे
नैरञ्जन्यं उपेयतुः परिगलन्मोदाश्रुणी लोचने
स्वेदोद्धूतविलेपनं किल कुचद्वन्द्वं जहौ रागितां ।
योगौत्सुक्यं अगादुरः स्फुरदिति प्रेक्ष्योदयं सङ्गिनां
राधे नीविरियं तव श्लथगुणा शङ्के मुमुक्षां दधे ॥७१॥

उत्तरीयस्रंसनं, यथा
तव हृदि मम रागात्कोऽपि रागो गरिष्ठः
स्फुरति तदपसृत्य व्यक्तं एतं करोमि ।
इति खलु हृदयात्ते राधिके रोधकारि
च्युतं इव पुरतो मे मञ्जु माञ्जिष्ठवासः ॥७२॥

धम्मिल्लस्रंसनं, यथा
स्फुरति मुरद्विषि पुरतो
दुरात्मनां अपि विमुक्तिदे गौरि ।
नाद्भुतं इदं यदीयुः
संयमिनस्ते कचा मुक्तिम् ॥७३॥

गात्रमोटनं, यथा
व्रजाङ्गने वल्लवपुङ्गवस्य
पुरः कुरङ्गीनयना सलीलं ।
अप्यङ्गभङ्गं किल कुर्वतीय
मनङ्गभङ्गं तरसा व्यतानीत्  ॥७४॥

जृम्भा, यथा
पुष्पैरवेत्य विशिखैर्भवतीं असाध्यां
साध्वीं अधीत्य मदनः किल जृम्भणास्त्रां ।
चन्द्रावलि प्रसभं एव वशीचकार
यद्गोष्ठसीमनि मुहुः सखि जृम्भसेऽद्य ॥७५॥

घ्राणफुल्लत्वं, यथा
रचितशिखरशोभारम्भं अम्भोरुहाक्षी
श्वसितपवनदोलान्दोलिना मौक्तिकेन ।
पुटयुगं अतिफुल्लं बिभ्रती नासिकायां
मम मनसि विलग्ना दर्शनादेव राधा ॥७६॥

यद्यप्येते विशेषाः स्युर्मोट्टायितविलासयोः ।
शोभाविशेषपोषित्वात्तथापि पृथगीरिताः ॥७७॥

अथ वाचिकाः
आलापश्च विलापश्च संलापश्च प्रलापकः ।
अनुलापोऽपलापश्च सन्देशश्चातिदेशकः ॥७८॥
अपदेशोपदेशौ च निर्देशो व्यपदेशकः ।
कीर्तिता वचनारम्भा द्वादशामी मनीषिभिः ॥७९॥

तत्र आलापः
चाटुप्रियोक्तिरालापः ॥८०॥

यथा श्रीदशमे
का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन
सम्मोहिताऽर्यपदवीं न चलेत्त्रिलोक्यां ।
त्रैलोक्यसौभगं इदं च निरीक्ष्य रूपं
यद्गोद्विजद्रुममृगान्पुलकान्यबिभ्रत्  ॥८१॥

यथा वा विदग्धमाधवे
कठोरा भव मृद्वी वा प्राणास्त्वं असि राधिके ।
अस्ति नान्या चकोरस्य चन्द्रलेखां विना गतिः ॥८२॥

अथ विलापः
विलापो दुःखजं वचः ॥८३॥

यथा श्रीदशमे
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला ।
तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥८४॥

संलापः ।
उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्त्यते ॥८५॥

यथा पद्यावल्यां (२६९)
उत्तिष्ठारात्तरौ मे तरुणि मम तरोः शक्तिरारोहणे का
साक्षादाख्यामि मुग्धे तरणिं इह रवेराख्यया का रतिर्मे ।
वार्तेयं नौप्रसङ्गे कथं अपि भविता नावयोः सङ्गमार्था
वार्तापीति स्मितास्यं जितगिरिं अजितं राधयाराधयामि ॥८६॥

प्रलापः ।
व्यर्थालापः प्रलापः स्यात्  ॥८७॥

यथा
करोति नादं मुरली रली रली
व्रजाङ्गनाहृन्मथनं थनं थनं ।
ततो विदूना भजते जते जते
हरे भवन्तं ललिता लिता लिता ॥८८॥

अनुलापः
अनुलापो मुहुर्वचः ॥८९॥

यथा
कृष्णः कृष्णो नहि नहि तापिञ्छोऽयं
वेणुर्वेणुर्नहि नहि भृङ्गोद्घोषः ।
गुञ्जा गुञ्जा नहि नहि बन्धूकाली
नेत्रे नेत्रे नहि नहि पद्मद्वन्द्वम् ॥९०॥

अपलापः ।
अपलापस्तु पूर्वोक्तस्यान्यथा योजनं भवेत्  ॥९१॥

यथा
फुल्लोज्ज्वलवनमालं कामयते का न माधवं प्रमदा ।
हरये स्पृहयसि राधे नहि नहि वैरिणि वसन्ताय ॥९२॥

सन्देशः
सन्देशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत्  ॥९३॥

यथा
व्याहर मथुरानाथे मम सन्देशप्रहेलिकां पान्थ ।
विकला कृता कुहूभिर्लभते चन्द्रावली क्व लयम् ॥९४॥

अतिदेशः
सोऽतिदेशस्तदुक्तानि मदुक्तानीति यद्वचः ॥९५॥

यथा
वृथा वृथास्त्वं विचिकित्सितानि
मा गोकुलाधीश्वरनन्दनात्र ।
गान्धर्विकाया गिरं अन्तरस्थां
वीणेव गीतिं ललिता व्यनक्ति ॥९६॥

अथ अपदेशः
अन्यार्थकथनं यत्तु सोऽपदेश इतीरितः ॥९७॥

यथा
यत्ते विक्षतं उज्ज्वलं पृथुफलद्वन्द्वं नवा दाडिमी
भृङ्गेण व्रणितं मधूनि पिबता ताम्रं च पुष्पद्वयं ।
इत्याकर्ण्य सखीगिरं गुरुजनालोके किल श्यामला
चैलेन स्तनयोर्युगं व्यवदधे दन्तच्छदौ पाणिना ॥९८॥

उपदेशः
यत्तु शिक्षार्थवचनं उपदेशः स उच्यते ॥९९॥

यथा छन्दोमञ्जर्याम्
मुग्धे यौवनलक्ष्मीर्विद्युद्विभ्रमलोला
त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ।
तद्वृन्दावनकुञ्जे गुञ्जद्भृङ्गसनाथे
श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥१००॥

निर्देशः
निर्देशस्तु भवेत्सोऽयं अहं इत्यादिभाषणम् ॥१०१॥

यथा
सेयं मे भगिनी राधा ललितेयं च मे सखी ।
विशाखेयं अहं कृष्ण तिस्रः पुष्पार्थं आगताः ॥१०२॥

व्यपदेशः
व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्यते ॥१०३॥

यथा
विलसन्नवकस्तवका काम्यवने पश्य मालती मिलति ।
कथं इव चुम्बसि तुम्बीं अथवा भ्रमरोऽसि किं ब्रूमः ॥१०४॥

अनुभावा भवन्त्येते रसे सर्वत्र वाचिकाः ।
माधुर्याधिक्यपोषित्वादिहैव परिकीर्तिताः ॥१०५॥

इति श्रीश्रीउज्ज्वलनीलमणौ अनुभावप्रकरणं ॥११॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:07.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

isolated point

  • एकाकी बिंदु 
  • एकाकी बिंदु 
RANDOM WORD

Did you know?

स्त्रिया पायात चांदीचे दागिने वापरतात, मग सोन्याचे कां नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.