संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|उज्ज्वलनीलमणिः| अनुभावप्रकरणं उज्ज्वलनीलमणिः नायकभेदप्रकरणम् नायकसहायभेदप्रकरणं श्रीहरिप्रियाप्रकरणम् श्रीराधाप्रकरणम् नायिकाभेदप्रकरणम् यूथेश्वरीभेदप्रकरणं सखीप्रकरणं हरिवल्लभाप्रकरणं उद्दीपनविभावप्रकरणं अनुभावप्रकरणं सात्त्विकप्रकरणं व्यभिचारिप्रकरणं स्थायिभावप्रकरणम् शृङ्गारभेदप्रकरणम् अनुभावप्रकरणं रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान् ग्रंथ उज्ज्वलनीलमणिः होय. Tags : rupagoswamiउज्ज्वलनीलमणिःरूपगोस्वामीसंस्कृत अनुभावप्रकरणं Translation - भाषांतर अनुभावास्त्वलङ्कारास्तथैवोद्भास्वराभिधाः ।वाचिकाश्चेति विद्वद्भिस्त्रिधामी परिकीर्तिताः ॥१॥तत्र अलङ्काराःयौवने सत्त्वजास्तासां अलङ्कारास्तु विंशतिः ।उदयन्त्यद्भुताः कान्ते सर्वथाभिनिवेशतः ॥२॥भावो हावश्च हेला च प्रोक्तास्तत्र त्रयोऽङ्गजाः ॥३॥शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।औदार्यं धैर्यं इत्येते सप्तैव स्युरयत्नजाः ॥४॥लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितं ।मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।विकृतं चेति विज्ञेया दश तासां स्वभावजाः ॥५॥तत्र भावःप्रादुर्भावं व्रजत्येव रत्याख्ये भाव उज्ज्वले । निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥६॥तथा ह्युक्तं चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।तत्राद्या विक्रिया भावो बीजस्यादिविकारवत् ॥७॥यथापितुर्गोष्ठे स्फीते कुसुमिनि पुरा खाण्डववनेन ते दृष्ट्वा साङ्क्रन्दनं अपि मनः स्पन्दनं अगात् ।पुरो वृन्दारण्ये विहरति मुकुन्दे सखि मुदाकिं आन्दोलादक्ष्णः श्रुतिकुमुदं इन्दीवरं अभूत् ॥८॥अथ हावःग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत् ।भावादीषत्प्रकाशो यः स हाव इति कथ्यते ॥९॥यथासाचिस्तम्भितकण्ठि कुड्मलवतीं नेत्रालिरभ्येति तेघूर्णन्कर्णलतां मनाग्विकसिता भ्रूवल्लरी नृत्यति ।अत्र प्रादुरभूत्तटे सुमनसां उल्लासकस्त्वत्पुरोगौराङ्गि प्रथमं वनप्रिअयबन्धुः स्फुटं माधवः ॥१०॥अथ हेलाहाव एव भवेद्धेला व्यक्तशृङ्गारसूचकः ॥११॥यथाश्रुते वेणौ वक्षः स्फुर्तिअकुचं आध्मातं अपि ते तिरोविक्षिप्ताक्षं पुलकितकपोलं च वदनं ।स्खलत्काञ्चि स्वेदार्गलितसिचयं चापि जघनंप्रमादं मा कार्षीः सखि चरति सव्ये गुरुजनः ॥१२॥अथ अयत्नजाः । तत्र शोभासा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् ॥१३॥यथाधृत्वा रक्ताङ्गुलिकिशलयैर्नीपशाखां विशाखानिष्क्रामन्ती व्रततिभवनात्प्रातरुद्घूर्णिताक्षी ।वेणीं अंसोपरि विलुठतीं अर्धं उक्तां वहन्तीलग्ना स्वान्ते मम न हि बहिः सेयं अद्याप्ययासीत् ॥१४॥अथ कान्तिःशोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥१५॥यथाप्रकृतिमधुरमूर्तिर्बाढं अत्राप्युदञ्चत्तरुणिमनवलक्ष्मीलेखयालिङ्गिताङ्गी ।वरमदनविहारैरद्य तत्राप्युदारामदयति हृदयं मे रुन्धती राधिकेयम् ॥१६॥अथ दीप्तिःकान्तिरेव वयोभोगदेशकालगुणादिभिः ।उद्दीपितातिविस्तारं प्राप्ता चेद्दीप्तिरुच्यते ॥१७॥यथानिमीलन्नेत्रश्रीरचटुलपटीराचलमरुन्निपीतस्वेदाम्बुस्त्रुटदमलहारोज्ज्वलकुचा ।निकुञ्जे क्षिप्ताङ्गी शशिकिरणकिर्मीरिततटेकिशोरी सा तेने हरिमनसि राधा मनसिजम् ॥१८॥अथ माधुर्यम्माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता ॥१९॥यथाअसव्यं कंसारेर्भुजशिरसि धृत्वा पुलकिनंनिजश्रोण्यां सव्यं करं अनृजुविष्कम्भितपदा ।दधाना मूर्धानं लघुतरतिरःस्रंसिनं इयंबभौ रासोत्तीर्णा मुहुरलसमूर्तिः शशिमुखी ॥२०॥अथ प्रगल्भतानिःशङ्कत्वं प्रयोगेषु बुधैरुक्ता प्रगल्भता ॥२१॥यथा विदग्धमाधवे प्रातिकूल्यं इव यद्विवृण्वतीराधिका रदनखार्पणोद्धूरा ।केलिकर्मणि गता प्रवीणतांतेन तुष्टिं अतुलां हरिर्ययौ ॥२२॥अथ औदार्यम्औदार्यं विनयं प्राहुः सर्वावस्थागतं बुधाः ॥२३॥यथा विदग्धमाधवे न्यविशत नयनान्ते कापि सारल्यनिष्ठा वचसि च विनयेन स्तोत्रभङ्गी न्यवात्सीत् ।अजनि च मयि भूयान्सम्भ्रमस्तेन तस्याव्यवृणुत हृदि मन्युं सुष्ठु दाक्षिण्यं एव ॥२४॥यथा वाकृतज्ञोऽपि प्रेमोज्ज्वलमतिरपि स्फारविनयोऽप्यभिज्ञानां चुडामणिरपि कृपानीरधिरपि ।यदन्तःस्वच्छोऽपि स्मरति न हरिर्गोकुलभुवंममैवेदं जन्मान्तरदुरितदुस्टद्रुमफलम् ॥२५॥अथ धैर्यम्स्थिरा चित्तोन्नतिर्या तु तद्धैर्यं इति कीर्त्यते ॥२६॥यथा ललितमाधवे औदासीन्यधुरापरीतहृदयः काठिन्यं आलम्बतांकामं श्यामलसुन्दरो मयि सखि स्वैरी सहस्रं समाः ।किन्तु भ्रान्तिभरादपि क्षणं इदं तत्र प्रियेभ्यः प्रियेचेतो जन्मनि जन्मनि प्रणयितादास्यं न मे हास्यति ॥२७॥अथ स्वभावजाः । तत्र लीलाप्रियानुकरणं लीला रम्यैर्वेशक्रियादिभिः ॥२८॥यथा विष्णुपुराणे दुष्टकालिय तिष्ठाद्य कृष्णोऽहं इति चापरा ।बाहुं आस्फोट्य कृष्णस्य लीलासर्वस्वं आददे ॥२९॥यथा वा छन्दोमञ्जर्याम्मृगमदकृतचर्चा पीतकौषेयवासारुचिरशिखिशिखण्डा बद्धधम्मिल्लपाशा ।अनृजुनिहितं अंसे वंशं उत्क्वाणयन्तीकृतमधुरिपुवेषा मालिनी पातु राधा ॥३०॥अथ विलासःगतिस्थानासनादीनां मुखनेत्रादिकर्मणां ।तात्कालिकं तु वैशिष्ट्यं विलासः प्रियसङ्गजम् ॥३१॥यथारुणत्सि पुरतः स्फुरत्यघहरे कथं नासिकाशिखग्रथितमौक्तिकोन्नमनकैत्वेन स्मितं ।निरास्थदचिरं सुधाकिरणकौमुदीमाधुरींमनागपि तवोद्गता मधुरदन्ति दन्तद्युतिः ॥३२॥यथा वाअध्यासीनं अमुं कदम्बनिकटे क्रीडाकुटीरस्थलीमाभीरेन्द्रकुमारं अत्र रभसादालोकयन्त्याः पुरः ।दिग्धा दुग्धसमुद्रमुग्धलहरीलावण्यनिस्यन्दिभिःकालिन्दी तव दृक्तरङ्गितभरैस्तन्वङ्गि गङ्गायते ॥३३॥अथ विच्छित्तिःआकल्पकल्पनाल्पापि विच्छित्तिः कान्तिपोषकृत् ॥३४॥यथामाकन्दपत्रेण मुकुन्दचेतःप्रमोदिनी मारुतकम्पितेन ।रक्तेन कर्णाभरणीकृतेनराधामुखाम्भोरुहं उल्ललास ॥३५॥यथा वा हरिवंशेएकेनामलपत्रेण कण्ठसूत्रावलम्बिना ।रराज बर्हिपत्रेण मन्दमारुतकम्पिना ॥३६॥सखीयत्नादिव धृतिर्मण्डनानां प्रियागसि ।सेर्ष्यावज्ञा वरस्त्रीभिर्विच्छित्तिरिति केचन ॥३७॥यथामुद्रां गाढतरां विधाय निहिते दूरीकुरुष्वाङ्गदेग्रन्थिं न्यस्य कठोरं अर्पितमतिः कण्ठान्मणिं भ्रंशय ।मुग्धे कृष्णभुजङ्गदृष्टिकलया दुर्वारया दूषितेरत्नालङ्करणे मनागपि मनस्तृष्णां न पुष्णाति मे ॥३८॥अथ विभ्रमःवल्लभप्राप्तिवेलायां मदनावेशसम्भ्रमात् ।विभ्रमो हारमाल्यादिभूषास्थानविपर्ययः ॥३९॥यथा विदग्धमाधवे धम्मिल्लोपरि नीलरत्नरचितो हारस्त्वयारोपितोविन्यस्तः कुचकुम्भयोः कुर्वलयश्रेणीकृतो गर्भकः ।अङ्गे चर्चितं अञ्जनं विनिहिता कस्तूरिका नेत्रयोः कंसारेरभिसारसम्भ्रमभरान्मन्ये जगद्विस्मृतम् ॥४०॥यथा वा, श्रीदशमे लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥४१॥अधीनस्यापि सेवायां कान्तस्यानभिनन्दनं ।विभ्रमो वामतोद्रेकात्स्यादित्याख्याति कश्चन ॥४२॥यथात्वं गोविन्द मयासि किं नु कवरीबन्धार्थं अभ्यर्थितःक्लेशेनालं अबद्ध एव चिकुरस्तोमो मुदं दोग्धि मे ।वक्त्रस्यापि न माज्जनं कुरु घनं घर्मासु मे रोचतेनैवोत्तंसय मालतीर्मम शिरः खेदं भरेणाप्स्यति ॥४३॥अथ किलकिञ्चितम्गर्वाभिलाषरुदितस्मितासूयाभयक्रुधां ।सङ्करीकरणं हर्षादुच्यते किलकिञ्चितम् ॥४४॥यथामया जातोल्लासं प्रियसहचरी लोचनपथेबलान्न्यस्ते राधाकुचमुकुलयोः पाणिकमले ।उदञ्चद्भ्रूभेदं सपुलकं अवष्टम्भि वलितंस्म्राम्यन्तस्तस्याः स्मितरुदितकान्तद्युति मुखम् ॥४५॥ यथा वा दानकेलिकौमुद्यां अन्तःस्मेरतयोज्ज्वला जलकणव्याकीर्णपक्ष्माङ्कुराकिञ्चित्पाटलिताञ्चला रसिकतोत्सिक्ता पुरः कुञ्चती ।रुद्धायाः पथि माधवेन मधुरव्याभुग्नतारोत्तराराधायाः किलकिञ्चितस्तवकिनी दृष्टिः श्रियं वः क्रियात् ॥४६॥अथ मोट्टायितम्कान्तस्मरणवार्तादौ हृदि तद्भावभावतः ।प्राकट्यं अभिलाषस्य मोट्टायितं उदीर्यते ॥४७॥यथान ब्रूते क्लमबीजं आलिभिरलं पृष्टापि पाली यदाचातुर्येण तदग्रतस्तव कथा ताभिस्तदा प्रस्तुता ।तां पीताम्बर जृम्भमाणवदनाम्भोजा क्षणं शृण्वतीबिम्बोष्ठी पुलकरि विडम्बितवती फुल्लां कदम्बश्रियम् ॥४८॥अथ कुट्टमितम्स्तनाधरादिग्रहणे हृत्प्रीतावपि सम्भ्रमात् ।बहिः क्रोधो व्यथितवत्प्रोक्तं कुट्टमितं बुधैः ॥४९॥यथाकरौद्धत्यं हन्त स्थगय कवरी मे विघटतेदुकूलं च न्यञ्चत्यघहर तवास्तां विहसितं ।किं आरब्धः कर्तुं तं अनवसरे निर्दय मदात्पताम्येषा प्¸अदे वितर शयितुं मे क्षणं अपि ॥५०॥यथा वान भ्रूलतां कुटिलय क्षिप नैव हस्तंवक्त्रं च कण्टकितगण्डं इदं न रुन्धि ।प्रीणातु सुन्दरि तवाधरबन्धुजीवेपीत्वा मधुनि मधुरे मधुसूद्नोऽसौ ॥५१॥अथ बिब्बोकःबिब्बोको मानगर्वाभ्यां स्यादभीष्टेऽप्यनादरः ॥५२॥तत्र गर्वेण, यथाप्रियोक्तिलक्षेण विपक्षसन्निधौस्वीकारितां पश्य शिखण्डमौलिना ।श्यामातिवामा हृदयङ्गमां अपि स्रजं दराघ्राय निरास हेलया ॥५३॥यथा वास्फुरत्यग्रे तिष्ठन्सखि तव मुखक्सिप्तनयनःप्रतीक्षां कृत्वायं भवदवसरस्याघदमनः ।दृशोच्चैर्गाम्भीर्यग्रथितगुरुहेलागहनया हसन्तीव क्षीवे त्वं इह वनमालां रचयसि ॥५४॥मानेन, यथाहरिणा सखि चाटुमण्डलींक्रियमाणां अवमन्य मन्युतः ।न वृथाद्य सुशिक्षितां अपि स्वयं अध्यापय गौरि शारिकाम् ॥५५॥अथ ललितम्विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहराः ।सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥५६॥यथासुभ्रूभङ्गं अननङ्गबाणजननीरालोकयन्ती लताःसोल्लासं पदपङ्कजे दिशि दिशि प्रेङ्खोलयन्त्युज्ज्वला ।गन्धाकृष्टधियः करेण मृदुना व्याधुन्वती षट्पदान्राधा नन्दति कुञ्जकन्दरतटे वृन्दावनश्रीरिव ॥५७॥अथ विकृतम्ह्रीमानेर्ष्यादिभिर्यत्र नोच्यते स्वविवक्षितं ।व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥५८॥तत्र ह्रिया, यथानिशमय्य मुकुन्द मन्मुखाद्भवदभ्यर्थितं अत्र सुन्दरी ।न गिराभिनन्द किन्तु सापुलकेनैव कपोलशोभिना ॥५९॥यथा वान परपुरुसे दृष्टिक्सेपो वराक्षि तवोचितस्त्वं असि कुलजा साध्वी वक्त्रं प्रसीद विवर्तय ।इति पथि मया नर्मण्युक्ते हरेर्नववीक्षणेसदयं उदयत्कार्पण्यं मां अवैक्षत राधिका ॥६०॥मानेन, यथामयासक्तवति प्रसादनविधौ विस्मृत्य चन्द्रग्रहंतद्विज्ञप्तिसमुत्सुकापि विजहौ मौनं न सा मानिनी ।किन्तु श्यामलरत्नसम्पुटदलेनावृत्य किञ्चिन्मुखंसत्या स्मारयति स्म विस्मृतं असौ मां औपरागीं श्रियम् ॥६१॥ईर्स्यया, यथावितर तस्करि मे मुरलीं हृतामिति मदुद्धरजल्पविवृत्तया ।भ्रूकुटिभङ्गुरं अर्कसुतातटेसपदि राधिकयाहं उदीक्षितः ॥६२॥अलङ्कारा निगदिता विंशतिर्गात्रचित्तजाः ।अमी यथोचितं ज्ञेया माधवेऽपि मनीषिभिः ॥६३॥कैश्चिदन्येऽप्यलङ्काराः प्रोक्ता नात्र मयोदिताः ।मुनेरसम्मतत्वेन किन्तु द्वितयं उच्यते ।मौग्ध्यं च चकितं चेति किञ्चिन्माधुर्यपोषणात् ॥६४॥तत्र मौग्ध्यम्ज्ञातस्याप्यज्ञवत्पृच्छा प्रियाग्रे मौग्ध्यं ईरितम् ॥६५॥यथा मुक्ताचरितेकास्ता लताः क्व वा सन्ति केन वा किल रोपिताः ।नाथ मत्कङ्कणन्यस्तं यासां मुक्ताफलं फलम् ॥६६॥चकितम्प्रियाग्रे चकितं भीतेरस्थानेऽपि भयं महत् ॥६७॥यथारक्ष रक्ष मुहुरेष भीषणो धावति श्रवणचम्पकं मम ।इत्युदीर्य मधुपाद्विशङ्कितासस्वजे हरिणलोचना हरिम् ॥६८॥इत्यलङ्कारविवृतिःअथ उद्भास्वराःउद्भासन्ते स्वधानीति प्रोक्ता उद्भास्वरा बुधैः ॥६९॥नीव्युत्तरीयधम्मिल्लस्रंसनं गात्रमोटनं ।जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश्च ते मताः ॥७०॥तत्र नीविस्रंसनं, यथा विदग्धमाधवेनैरञ्जन्यं उपेयतुः परिगलन्मोदाश्रुणी लोचनेस्वेदोद्धूतविलेपनं किल कुचद्वन्द्वं जहौ रागितां ।योगौत्सुक्यं अगादुरः स्फुरदिति प्रेक्ष्योदयं सङ्गिनांराधे नीविरियं तव श्लथगुणा शङ्के मुमुक्षां दधे ॥७१॥उत्तरीयस्रंसनं, यथातव हृदि मम रागात्कोऽपि रागो गरिष्ठःस्फुरति तदपसृत्य व्यक्तं एतं करोमि ।इति खलु हृदयात्ते राधिके रोधकारिच्युतं इव पुरतो मे मञ्जु माञ्जिष्ठवासः ॥७२॥धम्मिल्लस्रंसनं, यथास्फुरति मुरद्विषि पुरतो दुरात्मनां अपि विमुक्तिदे गौरि ।नाद्भुतं इदं यदीयुः संयमिनस्ते कचा मुक्तिम् ॥७३॥गात्रमोटनं, यथाव्रजाङ्गने वल्लवपुङ्गवस्यपुरः कुरङ्गीनयना सलीलं ।अप्यङ्गभङ्गं किल कुर्वतीयमनङ्गभङ्गं तरसा व्यतानीत् ॥७४॥जृम्भा, यथापुष्पैरवेत्य विशिखैर्भवतीं असाध्यांसाध्वीं अधीत्य मदनः किल जृम्भणास्त्रां ।चन्द्रावलि प्रसभं एव वशीचकारयद्गोष्ठसीमनि मुहुः सखि जृम्भसेऽद्य ॥७५॥घ्राणफुल्लत्वं, यथारचितशिखरशोभारम्भं अम्भोरुहाक्षीश्वसितपवनदोलान्दोलिना मौक्तिकेन ।पुटयुगं अतिफुल्लं बिभ्रती नासिकायांमम मनसि विलग्ना दर्शनादेव राधा ॥७६॥यद्यप्येते विशेषाः स्युर्मोट्टायितविलासयोः ।शोभाविशेषपोषित्वात्तथापि पृथगीरिताः ॥७७॥अथ वाचिकाःआलापश्च विलापश्च संलापश्च प्रलापकः ।अनुलापोऽपलापश्च सन्देशश्चातिदेशकः ॥७८॥अपदेशोपदेशौ च निर्देशो व्यपदेशकः ।कीर्तिता वचनारम्भा द्वादशामी मनीषिभिः ॥७९॥तत्र आलापःचाटुप्रियोक्तिरालापः ॥८०॥यथा श्रीदशमेका स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन सम्मोहिताऽर्यपदवीं न चलेत्त्रिलोक्यां ।त्रैलोक्यसौभगं इदं च निरीक्ष्य रूपं यद्गोद्विजद्रुममृगान्पुलकान्यबिभ्रत् ॥८१॥यथा वा विदग्धमाधवे कठोरा भव मृद्वी वा प्राणास्त्वं असि राधिके ।अस्ति नान्या चकोरस्य चन्द्रलेखां विना गतिः ॥८२॥अथ विलापःविलापो दुःखजं वचः ॥८३॥यथा श्रीदशमे परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला ।तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥८४॥संलापः । उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्त्यते ॥८५॥यथा पद्यावल्यां (२६९)उत्तिष्ठारात्तरौ मे तरुणि मम तरोः शक्तिरारोहणे कासाक्षादाख्यामि मुग्धे तरणिं इह रवेराख्यया का रतिर्मे ।वार्तेयं नौप्रसङ्गे कथं अपि भविता नावयोः सङ्गमार्थावार्तापीति स्मितास्यं जितगिरिं अजितं राधयाराधयामि ॥८६॥प्रलापः ।व्यर्थालापः प्रलापः स्यात् ॥८७॥यथाकरोति नादं मुरली रली रलीव्रजाङ्गनाहृन्मथनं थनं थनं ।ततो विदूना भजते जते जतेहरे भवन्तं ललिता लिता लिता ॥८८॥अनुलापःअनुलापो मुहुर्वचः ॥८९॥यथाकृष्णः कृष्णो नहि नहि तापिञ्छोऽयंवेणुर्वेणुर्नहि नहि भृङ्गोद्घोषः ।गुञ्जा गुञ्जा नहि नहि बन्धूकाली नेत्रे नेत्रे नहि नहि पद्मद्वन्द्वम् ॥९०॥अपलापः ।अपलापस्तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥९१॥यथाफुल्लोज्ज्वलवनमालं कामयते का न माधवं प्रमदा ।हरये स्पृहयसि राधे नहि नहि वैरिणि वसन्ताय ॥९२॥सन्देशःसन्देशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत् ॥९३॥यथाव्याहर मथुरानाथे मम सन्देशप्रहेलिकां पान्थ ।विकला कृता कुहूभिर्लभते चन्द्रावली क्व लयम् ॥९४॥अतिदेशःसोऽतिदेशस्तदुक्तानि मदुक्तानीति यद्वचः ॥९५॥यथावृथा वृथास्त्वं विचिकित्सितानिमा गोकुलाधीश्वरनन्दनात्र ।गान्धर्विकाया गिरं अन्तरस्थांवीणेव गीतिं ललिता व्यनक्ति ॥९६॥अथ अपदेशःअन्यार्थकथनं यत्तु सोऽपदेश इतीरितः ॥९७॥यथायत्ते विक्षतं उज्ज्वलं पृथुफलद्वन्द्वं नवा दाडिमीभृङ्गेण व्रणितं मधूनि पिबता ताम्रं च पुष्पद्वयं ।इत्याकर्ण्य सखीगिरं गुरुजनालोके किल श्यामला चैलेन स्तनयोर्युगं व्यवदधे दन्तच्छदौ पाणिना ॥९८॥उपदेशःयत्तु शिक्षार्थवचनं उपदेशः स उच्यते ॥९९॥यथा छन्दोमञ्जर्याम्मुग्धे यौवनलक्ष्मीर्विद्युद्विभ्रमलोलात्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ।तद्वृन्दावनकुञ्जे गुञ्जद्भृङ्गसनाथेश्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥१००॥निर्देशःनिर्देशस्तु भवेत्सोऽयं अहं इत्यादिभाषणम् ॥१०१॥यथासेयं मे भगिनी राधा ललितेयं च मे सखी ।विशाखेयं अहं कृष्ण तिस्रः पुष्पार्थं आगताः ॥१०२॥व्यपदेशःव्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्यते ॥१०३॥यथाविलसन्नवकस्तवका काम्यवने पश्य मालती मिलति ।कथं इव चुम्बसि तुम्बीं अथवा भ्रमरोऽसि किं ब्रूमः ॥१०४॥अनुभावा भवन्त्येते रसे सर्वत्र वाचिकाः ।माधुर्याधिक्यपोषित्वादिहैव परिकीर्तिताः ॥१०५॥इति श्रीश्रीउज्ज्वलनीलमणौ अनुभावप्रकरणं ॥११॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP