हरिवल्लभाप्रकरणं

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान्‍ ग्रंथ उज्ज्वलनीलमणिः होय.


आसां चतुर्विधो भेदः सर्वासां व्रजसुभ्रुवां ।
स्यात्स्वपक्षः सुहृत्पक्षस्तटस्थः प्रतिपक्षकः ॥१॥
सुहृत्पक्षतटस्थौ तु प्रासङ्गिकत्योदितौ ।
द्वौ स्वपक्षविपक्षाख्यौ भेदावेव रसप्रदौ ॥२॥
प्रोक्तस्तत्र स्वपक्षस्य विशेषः पूर्वं एव हि ।
सुहृत्पक्षादिभेदानां दिगेव किल दर्श्यते ॥३॥

तत्र सुहृत्पक्षः
सुहृत्पक्षो भवेदिष्टसाधकोऽनिष्टबाधकः ॥४॥

तत्र इष्टसाधकत्वम्, यथा
अद्याकर्णय मद्गिरं परिजनैरेभिः समं श्यामले
राधायास्त्वयि सौहृदं सखि जगच्चित्तेषु चित्रीयते ।
उल्लासाद्भवदाख्यया यदनिशं तस्याङ्गरागस्तया
सान्द्रश्चन्द्रकशेखरस्य समये चन्द्रान्वितः प्रेष्यते ॥५॥

अनिष्टबाधकत्वं, यथा
गीर्भिर्मूढजनस्य खण्डितं अतिभाण्डीरमूले मुधा
किं गन्तास्मि तवोदिते बलवती श्यामे प्रतीतिर्मम ।
निर्व्याजं बटराजरोधसि वधूवेशक्रियोद्भासिनी
कंसारिः सुबलेन गोष्ठनगरीवैहासिकः क्रीडति ॥६॥

अथ तटस्थः
यो विपक्षसुहृत्पक्षः स तटस्थ इहोच्यते ॥७॥

यथा
खेदं न व्यसने तनोषि वहसे नोल्लासं अस्याः शुभे
दोषाणां प्रकटीकृतौ न हि धियं धत्से गुणानां अपि ।
अव्याक्षिप्तमनोगतिः सुवदने द्वेषेण रागेण च
त्वं श्यामे मुनिवृत्तिरत्र सततं चन्द्रावलौ दृश्यसे ॥८॥

अथ विपक्षः
मिथोद्वेषी विपक्षः स्यादिष्टहानिष्ठकारकः ॥९॥

तत्र इष्टहन्तृत्वं, यथा
राधे त्वत्पदवीनिवेशितदृशं कुञ्जे हरिं जानती
पद्मा तत्र निनाय हन्त कुटिला चन्द्रावलीं छद्मना ।
इत्याकर्ण्य मुकुन्द सा सुबलतः स्तब्धा तथाद्य स्थिता
दृष्ट्वा नीलपटीं तनौ जटिलया प्रातर्यथा तर्जिता ॥१०॥

अथ अनिष्ठकारित्वं, यथा
कुतः पद्मे पुत्रि क्षितिधरतटादम्ब जटिले
वधूर्दृष्ट्वा क्व नु रविनिकेतस्य पुरतः ।
चिरं नायात्येषा कथं इव निरुद्धात्र हरिणा
तवाध्वानं पश्यत्यहह भवती धावतु रुषा ॥११॥

छद्मेर्ष्याचापलासूयामत्सरामर्षगर्वितं ।
व्यक्तिं यात्युक्तिचेष्टाभिः प्रतिपक्षसखीष्विदम् ॥१२॥

तत्र छद्म, यथा
श्रुत्वा कीचकं अद्रिमूर्ध्नि पशवः श्यामं च दृष्ट्वाम्बुदं
धावन्त्वधियः कथं त्वं अपि धिग्धीराधिकं धावसि ।
इत्युच्चैरनृतोत्तरेण तरलां प्रयाय्य पद्मां असौ
प्राप्ता पश्य गृहं करोति ललिता राधाप्रयाणे त्वराम् ॥१३॥

अथ ईर्ष्या, यथा
उद्घटय्य कुटिलं कचपक्षं
देवि दर्शयसि किं वनमालां ।
नीलयष्टिवदमुं मदलिन्दे
लोकयालि वनमालिनं एव ॥१४॥

यथा वा
निर्बन्धप्रवणेन कंसरिपुणा प्रागर्प्यमाणोऽपि यः
प्राज्यं दोषं अवेक्ष्य नायकमणौ न स्वीकृतोऽभून्मया ।
हारः सम्प्रति सोऽयं एव विषमो लुब्धे क्व लब्धस्त्वया
द्रागिष्ठोऽप्युरगक्षताङ्गुलिनिभो दुष्टः सखि त्यज्यताम् ॥१५॥

अथ चापलम्
नात्मानं व्यथय वृथा निकुञ्जमध्ये
खद्योति दुतिं इह कुर्वती सरागं ।
कृष्णाभ्रे गिरिवरसङ्गतेऽनुरूपा
सोमाभा विलासितुं अत्र विद्युदेव ॥१६॥

अथ आसूया
यद्भाण्डीरे तव सहचरी ताण्डवं सा व्यतानीत्
पद्मे शैव्या समजनि न तत्कस्य विस्मापनाय ।
सा चेत्तन्वी प्रकृतिलडहा शिक्षिता चाभविष्य
न्मन्ये सर्वं जगदपि ततः प्रेक्षयामोहयिष्यत्  ॥१७॥

अथ मत्सरः
अलं चक्रे राधाहृदयं उरुहारेण हरिणा
स्रजा धूर्तेनेयं तव तु कवरश्रीरवरया ।
मनो द्वन्द्वातीतं मुनिवदविकल्पं च दधती
तथापि त्वं मुग्धे न विपिनविनोदाद्विरमसि ॥१८॥

अथ अमर्षः
स्फुटद्भिरिव कोरकैरलघुभिश्च गुञ्जाफलिअ
र्मयाद्य विरचय्य यन्मुरहराय विश्राणितं ।
त्वयात्र पखि राधिकाश्रवसि वीक्ष्य तत्कुण्डलं
मनः स्वं उदघाटि यत्तदतिलाघवायैव नः ॥१९॥

अथ गर्वितम्
अहङ्कारोऽभिमानश्च दर्प उद्धसितं तथा ।
मद औद्धत्यं इत्येष गर्वः षोढा निगद्यते ॥२०॥

अत्र अहङ्कारः
अहङ्कारः पराक्षेपः स्वपक्षगुणवर्णनात्  ॥२१॥

यथा
आकाशे रुचिलवं इन्द्रनीलशोभे
सोमाभा जनयति तावदस्फुटश्रीः ।
नेत्राणां तिमिरहरा वरेण्यदीप्तिः
सा यावन्न हि वृषभानुजाभ्युदेति ॥२२॥

अभिमानः
अभिमानो निजप्रेमोत्कर्षाख्यानं तु भङ्गितः ॥२३॥

तत्र कृष्णे स्वपक्षप्रेमाख्यानं, यथा
त्वं धीरधीः फणिह्रदे हरिझम्पगाथां
निष्कम्पं एव यदियं गदितुं प्रवृत्ता ।
तत्रानुषङ्गिकतयाप्युदिते कदम्बे
वक्षः पिनष्टि रुदती तरला सखी मे ॥२४॥

स्वपक्षे कृष्णप्रेमाख्यानं, यथा
धन्यासि कृष्णकरकल्पितपत्रवल्ली
रमालिका विहरसे मदमन्थराङ्गी ।
हा वञ्चितास्मि कलिते ललितामुखेन्दौ
जाड्यं स यात्यखिलशिल्पधुरन्धरोऽपि ॥२५॥

दर्पः
गर्वं आचक्षते दर्पं विहारोत्कर्षसूचकम् ॥२६॥

यथा
विद्मः पुण्यवतीशिखामणिं इह त्वां एव हर्म्ये यया
नीयन्ते शरदिन्दुधामधवलाः स्वापोत्सवेन क्षपाः ।
कोऽयं नः फलति स्म कर्मविटपी वृन्दाटवीकन्दरे
श्यामः कोऽपि करी करोति हृदयोन्मादेन निद्राक्षयम् ॥२७॥

उद्धसितम्
उपहासो विपक्षस्य साक्षादुद्धसितं भवेत्  ॥२८॥

यथा
नोच्चैर्निःश्वसिहि प्रसीद परमे मुञ्च ग्रहं दुर्लभे
म्लानिं ते सखि वीक्ष्य हन्त कृपया मच्चित्तं उत्ताम्यति ।
बद्धः पश्य विभङ्गुरेऽत्र ललितावाग्वागुराडम्बरे
जानीते न किल स्वं एव सरले श्यामः कुरङ्गीपतिः ॥२९॥

मदः
सेवाद्युत्कर्षकृद्गर्वो मद इत्यभिधीयते ॥३०॥

यथा
जगति ललिते धन्या यूयं सुगन्धिभिरद्भुतै
रविरविरतिं याभिः पुष्पैरमीभिरुपास्यते ।
बत विधिवशाज्जातं वन्यस्रजि व्यसनं तथा
दलं अपि न नः कात्यायन्यै यथा परिशिष्यते ॥३१॥

औद्धत्यम्
स्पष्टं स्वोत्कृष्टताख्यानं औद्धत्यं इति कीर्त्यते ॥३२॥

यथा
कस्तावद्व्रजमण्डले स वलते गान्धर्विका स्पर्धतां
सार्धं हन्त जनेन येन जगतीजङ्घालकीर्तिध्वजा ।
कुल्यायाः कृपणावलीषु कृपया कामं द्रवच्चेतसो
यस्याः प्रेरणया क्षणं भवति वः पद्मे निषेव्यो हरिः ॥३३॥

किं च
श्लिष्टोक्तिश्च क्वचित्तासां निन्दागर्भोपजायते ॥३४॥

यथा
गोविन्दाहितमण्डना विधुरतावाप्तिप्रसङ्गोज्झिता
दक्षानल्पकला वयोघनरुचिं तन्वा मुहुस्तन्वती ।
सर्वानुत्तमसाधुतापदकृतिर्भव्ये भवत्याः सखी
नासौ भाग्यभरात्कदापि विरतिं प्राप्नोति सौदामिनी ॥३५॥

यथा वा
समस्तजनलोचनोत्सवविनोदनिष्पादिनी
विलक्षणगतिक्रियाविचलिताङ्गहारस्थितिः ।
निरस्य हरितालजं रुचितरङ्गं आत्मोर्जितैः
सखी नटति ते रसस्खलितं अत्र खेलावती ॥३६ ।

यास्तु यूथाभिनाथाः स्युः साक्षान्नेर्ष्यन्ति ताः स्फुटं ।
विपक्षाय स्वगाम्भीर्यमर्यादादिगुणोदयात्  ॥३७॥

यथा
विपक्षरमणीसखीं पिशुनितोरुगर्वच्छटां
विलोक्य किल मङ्गला विरलहासफेनोज्ज्वलं ।
ततान तं अनाकुलं विनयनिर्झरं येन सा
निजे तरसि मज्जिता सपदि लज्जिता विव्यथे ॥३८॥

विपक्षयूथनाथायाः पुरतः प्रकटं न हि ।
जल्पन्ति लघवः सेर्ष्यं प्रायशः प्रखरा अपि ॥३९॥

यथा
दिष्ट्या दुस्तरतो मदुक्तिनिगडान्मुक्तासि मुग्धे क्षणा
दभ्यर्णे वृषभानुजा विजयते यद्भानुजायास्तटे ।
नातथ्यं प्रथयामि देव्यपि गिरां वाग्द्यूतकेलीषु मे
निर्धूतप्रतिभोद्गमा भगवती लज्जार्णवे मज्जति ॥४०॥

हरिप्रियजने भावा द्वेषाद्या नोचिता इति ।
ये व्याहरन्ति ते ज्ञेया अपूर्वरसिकाः क्षितौ ॥४१॥

यथा वा
सम्मोहनस्य कन्दर्पवृन्देभ्योऽप्यघविद्विषः ।
मूर्तो नर्मप्रियसखः शृङ्गारो वर्तते व्रजे ॥४२॥
क्षिपेन्मिथो विजातीयभावयोरेष पक्षयोः ।
ईर्ष्यादीन्स्वपरिवारान्योगे स्वप्रेष्ठतुष्टये ।
अतएव हि विश्लेषे स्नेहस्तासां प्रकाशते ॥४३॥

यथा ललितमाधवे
सान्द्रैः सुन्दरि वृन्दशो हरिपरिष्वङ्गैरिदं मङ्गलं
दृष्टं ते हतराधयाङ्गं अनया दिष्ट्याद्य चन्द्रावलि ।
द्रागेनां निहितेन कण्ठं अभितः शीर्णेन कंसद्विषः
कर्णोत्तंससुगन्धिना निजभुजद्वन्द्वेन सन्धुक्षय ॥४४॥

यूथेशायाः स्वपक्षादिभेदहेतुरथोच्यते ।
भावस्य सर्वथैवात्र साजात्ये स्यात्सपक्षता ॥४५॥
मनागेतस्य वैजात्ये सुहृत्पक्षत्वं ईरितं ।
साजात्यस्य तथाल्पत्वे सति ज्ञेया तटस्थता ।
सर्वथा खलु वैजात्ये निश्चिता प्रतिपक्षता ॥४६॥
मिथोभावस्य वैजात्ये न भावो रोचते मिथः ।
अरोचकतयैवायं अक्षान्तिं जनयेत्पराम् ॥४७॥

यथा
या मध्यस्थपदेन सङ्कुलतरा शुद्धा प्रकृत्या जडा
वैदग्धीनलिनीनिमीलनपटुर्दोषान्तरोल्लासिनी ।
आशायाः स्फुरणं हरेर्जनयितुं युक्तात्र चन्द्रावली
सापि स्यादिति लोचयन्सखि जनः कः सोढुं ईष्टे क्षितौ ॥४८॥

षोडश्यास्त्वं उडोर्विमुञ्च सहसा नामापि वामाशये
तस्या दुर्विनयैर्मुनेरपि मनः शान्तात्मनः कुप्यति ।
धिग्गोष्ठेन्द्रसुते समस्तगुणिनां मौलौ व्रजाभ्यर्चिते
पादान्ते पतितेऽपि नैव कुरुते भ्रूक्षेपं अप्यत्र या ॥४९॥
यत्र स्यान्निजभावस्य प्रायस्तुल्यप्रमाणता ।
पक्षः स एव मैत्राय विद्वेषाय च युज्यते ॥५०॥
नांशोऽप्यन्यत्र राधायाः प्रेमादिगुणसम्पदां ।
रसेनैव विपक्षादौ मिथः साम्यं इवार्प्यते ॥५१॥
भावस्यात्यन्तिकाधिक्ये साजात्यं सर्वथा द्वयोः ।
तथा तुल्यप्रमाणत्वं एवं प्रायः सुदुर्घटम् ॥५२॥
स्याच्चेद्घूणाक्ष्रन्यायात्सुहृत्तैवेह सम्मता ।
रसस्वभावादत्रापि वैपक्ष्यं इति केचन ॥५३॥

इति श्रीश्रीउज्ज्वलनीलमणौ हरिवल्लभा प्रकरणं ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP