TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सात्त्विकप्रकरणं

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान्‍ ग्रंथ उज्ज्वलनीलमणिः होय.


सात्त्विकप्रकरणं
तत्र स्तम्भः, स हर्षाद्, यथा दानकेलिकौमुद्यां
अभ्युक्ष्य निष्कं पतयालुना मुहुः
स्वेदेन निष्कम्पतया व्यवस्थिता ।
पञ्चालिका कुञ्चितलोचना कथं
पञ्चालिकाधर्मं अवाप राधिका ॥१॥

भयाद्, यथा
घनस्तनितचक्रेण चकितेयं घनस्तनी ।
बभूव हरिं आलिङ्ग्य निश्चलाङ्गी व्रजाङ्गना ॥२॥
दिग्धोऽयं ।
आश्चर्याद्, यथा
तव मधुरिमसम्पदं विलक्ष
त्रिजगदलक्ष्यतुलां मुकुन्द राधा ।
कलय हृदि बलवच्चमत्क्रियासौ
समजनि निर्निमिषा च निश्चला च ॥३॥

विषादाद्, यथा
विलम्बं अम्भोरुहलोचनस्य
विलोक्य सम्भावितविप्रलम्भा ।
सङ्केतगेहस्य नितान्तं अङ्के
चित्रायिता तत्र बभूव चित्रा ॥४॥

अमर्षाद्, यथा
माधवस्य परिवर्तितगोत्रां
श्यामला निशि गिरं निशमय्य ।
देवयोषिदिव निर्निमिषाक्षी
छायया च रहिता क्षणं अयासीत्  ॥५॥

अथ स्वेदः, स हर्षाद्, यथा विष्णुपुराणे
गोपीकपोलसंश्लेषं अभिपत्य हरेर्भुजौ ।
पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥६॥

यथा वा
ध्रुवं उज्ज्वलचन्द्रकान्तयष्ट्या
विधिना माधव निर्मितास्ति राधा ।
यदुदञ्चति तावकास्यचन्द्रे
द्रवतां स्वेदभरच्छलाद्बिभर्ति ॥७॥

भयाद्, यथा
मा भूर्विशाखे तरला विदूरतः
पतिस्तवासौ निविडा लताकुटि ।
महा प्रयत्नेन कृताः कपोलयोः
स्वेदोदबिन्दुर्मकरीर्विलुम्पति ॥८॥

क्रोधाद्, यथा
खिन्नापि गोत्रस्खलनेन पाली
शालीनभावं छलतो व्यतानीत् ।
तथापि तस्याः पटं आर्द्रयन्ती
स्वेदाम्बुवृष्टिः कुर्धं आचचक्षे ॥९॥

अथ रोमाञ्चः । स आश्चर्याद्, यथा
चुम्बन्तं आलोक्य चमुरुचक्षुषां
चमूरमूषां युगपन्मधुरद्विषं ।
व्योमाङ्गने तत्र सुराङ्गनावली
रोमाञ्चिता विस्तृतदृष्टिराबभौ ॥१०॥

हर्षाद्, यथा श्रीदशमे
तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।
पुलकाङ्गुल्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥११॥

यथा वा श्रीरुक्मिणीस्वयंवरे
रोमाणि सर्वाण्यपि बालभावात्
प्रियश्रियं द्रष्टुं इवोत्सुकानि ।
तस्यास्तदा कोरकिताङ्गयष्टेर्
उद्ग्रीविकादानं इवाम्बभुवन् ॥१२॥

भयाद्, यथा
परिमलचटुले द्विरेफवृन्दे
मुखं अभिधावति कम्पिताङ्गयष्टिः ।
विपुलपुलकपालिरद्य पाली
हरिं अधरीकृतह्रीधूरालिलिङ्ग ॥१३॥

अथ स्वरभङ्गः, स विषादाद्यथा श्रीगीतगोविन्दे
विपुलपुलकपालिः स्फीतसीत्कारं अन्तर्
जनितजडिमम्काकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलनिधिमग्ना ध्यानलग्ना मृगक्षी ॥१४॥

विस्मयाद्, यथा
गुरुसम्भ्रमस्तिमितकण्ठया मया
करसंज्ञयापि बहुधावबोधिता ।
न पुनस्त्वं अत्र हरिवेणुवादने
पुलकान्विलोकितवती लतास्वपि ॥१५॥
अमर्षाद्, यथा
प्रेयस्यः परमाद्भुताः कति न मे दीव्यन्ति गोष्ठान्तरे
तासां नोज्ज्वलनर्मभङ्गिभिरपि प्राप्तोऽस्मि तुष्टिं तथा ।
द्वित्रैरद्य मुहुस्तरङ्गदधरग्रस्तार्धवर्णैर्यथा
राधायाः सखि रोषगद्गदपदैराक्षेपवाग्बिन्दुभिः ॥१६॥

हर्षाद्, यथा श्रीरुक्मिणीस्वयंवरे
पश्येम तं भूय इति ब्रुवाणां
सखीं वचोभिः किल सा ततर्ज ।
न प्रीतिकर्णेजपतां गतानि
विदाम्बभूव स्मरवैकृतानि ॥१७॥

भीतेर्, यथा
प्रथमसङ्गमनर्मणि साध्वस
स्खलितयापि गिरा सखि राधिका ।
नवसुधाह्रदिनीं मदिरेक्षणा
श्रुतितटे मम काञ्चिदवीवहत्  ॥१८॥

अथ वेपथुः, स त्रासेन, यथा
केशवो युवतिवेशभागयं
बालिशः किल पतिस्तवाग्रतः ।
राधिके तदपि मूर्तिरद्य ते
किं प्रवातकदलीतुलां दधे ॥१९॥

अमर्षेण, यथा
यदि कुपितासि न पद्मे
किं तुनुरुत्कम्पते प्रसभं ।
विचलति कुतो निवाते
दीपशिखा निर्भरस्निग्धा ॥२०॥

हर्षेण, यथा
वल्लवराजकुमारे
मिलिते पुरतः किं आत्तकम्पासि ।
तव पेशलास्मि पार्श्वे
ललितेयं परिहरातङ्कम् ॥२१॥

अथ वैवर्ण्यम्, तद्विषादाद्, यथा
मधुरिमभरैर्मुक्तस्यालं कलङ्कितकुङ्कुमैर्
र्द्विरदरदनश्रेणीं आभां चिराय वितन्वतः ।
विधुरपि तुलां आप्तस्तस्या मुखस्य बकीरिपो
वद परं अतः सारङ्ग्याक्ष्याः किं अस्ति विडम्बनम् ॥२२॥

रोषाद्, यथा
विलसति किल वृन्दारण्यलीलाविहारे
कथय कथं अकाण्डे ताम्रवक्त्रासि वृत्ता ।
प्रसरदुदयरागग्रस्तपूर्णेन्दुबिम्बा
किं इव सखि निशीथे शारदी जायते द्यौः ॥२३॥

भीतेर्, यथा
क्रीडन्त्यास्तटभुवि माधवेन सार्धं
तत्रारात्पतिं अवलोक्य विक्लवायाः ।
राधायास्तनुं अनु कालिमा तथासीत्
तेनेयं किं अपि यथा न पर्यचायि ॥२४॥

अथ अश्रु, तत्र हर्षाद्, यथा श्रीगीतगोविन्दे
अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन
प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये
पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥२५॥

फुल्लगण्डं सरोमाञ्चं बाष्पं आनन्दजं मतम् ॥२६॥

रोषाद्, यथा
प्रातर्मुरद्विषं उरःस्फुरदन्यनारी
पत्राङ्कुरप्रकरलक्ष्मणं ईक्षमाणा ।
अप्रोच्य किञ्चिदपि कुञ्चितदृष्टिरेषा
रोषाश्रुबिन्दुभरं इन्दुमुखी मुमोच ॥२७॥

यथा वा बिल्वमङ्गले
राधेऽपराधेन विनैव कस्माद्
अस्मासु वाचः परुषा रुषा ते ।
अहो कथं ते कुचयोः प्रथन्ते
हारानुकारास्तरलाश्रुधाराः ॥२८॥

शिरःकम्पि सनिश्वासं स्फुरदोष्ठकपोलकं ।
कटाक्षभ्रूकुटीवक्त्रं स्त्रीणां ईर्ष्योत्थरोदनम् ॥२९॥

विषादाद्, यथा पद्यावल्यां
मलिनं नयनाञ्जनाम्बुभिर्
मुखचन्द्रं करभोरु मा कुरु ।
करुणावरुणालयो हरिस्
त्वयि भूयः करुणां विधास्यति ॥३०॥

अथ प्रलयः, स सुखेन, यथा
जङ्घे स्थावरतां गते परिहृतस्पन्दा द्वयी नेत्रयोः
कण्ठ कुण्ठितानिस्वनो विघटितश्वासा च नासापुटी ।
राधायाः परमप्रमोदसुधया धौतं पुरो माधवे
साक्षात्कारं इते मनोऽपि मुनिवन्मन्ये समाधिं दधे ॥३१॥

दुःखेन, यथा ललितमाधवे
दंशः कंसनृपस्य वक्षसि रुषा कृष्णोरगेणार्प्यतां
दूरे गोष्ठतडागजीवनं इतो येनापजह्रे हरिः ।
हा धिक्कः शरणं भवेन्मृदि लुठद्गात्रीयं अन्तःक्लमाद्
आभीरीशफरीततिः शिथिलितश्वासोर्मिरामीलति ॥३२॥

अथ एषु धूमायिताः
सुराङ्गने सखि मधुरापुराङ्गने
पुरः पुरातनपुरुषस्य वीक्षया ।
तवाक्षिणी जलकणसाक्षिणी कुतः
कथं पुनः पुलकि च गण्डमण्डलम् ॥३३॥

ज्वलिताः
सखि स्तब्धीभावं भजति नितरां उरुयुगलं
तनुजाली हर्षं युगं अपि तवाक्ष्णोः सरसतां ।
तदुन्नीतं धन्ये रहसि करपङ्केरुहतलं
प्रपन्नस्ते दिष्ट्या नलिनमुखि नीलो निधिरभूत्  ॥३४॥

अथ दीप्ताः, यथा विदग्धमाधवे
क्षौणिं पङ्किलयन्ति पङ्कजरुचोरक्ष्णोः पयोबिन्दवः
श्वासास्ताण्डवयन्ति पाण्डुवदने दूरादुरोजांशुकं ।
मूर्तिं दन्तुरयन्ति सन्ततं अमी रोमाञ्चपुञ्जाश्च ते
मन्ये माधवमाधुरीश्रवणयोरभ्यासं अभ्याययौ ॥३५॥

उद्दीप्ताः
स्नाता नेत्रजनिर्झरेण दधती स्वेदाम्बुमुक्तावलिं
रोमाञ्चोत्करकञ्चुकेन निचिता श्रीखण्डपाण्डुद्युतिः ।
खञ्जन्मञ्जुलभारती सवयसा युक्ता स्फुरतीत्यसौ
सज्जा ते नवसङ्गमाय ललिता स्तम्भाश्रिता वर्तते ॥३६॥

उद्दीप्तानां भिदा एव सूद्दीप्ताः सन्ति कुत्रचित् ।
सात्त्विकाः परमोत्कर्षकोटिं अत्रैव बिभ्रति ॥३७॥

यथा
स्वेदैर्दर्शिअदुर्दिना विदधती बाष्पाबुभिर्निस्तृषो
वत्सीरङ्गरुहालिभिर्मुकुकिनीफुल्लाभिरामूलतः ।
श्रुत्वा ते मुरलीं तथाभवदियं राधा यथाराध्यते
मुग्धैर्माधव भारतीप्रतिकृतिर्भ्रान्त्याद्य विद्यार्थिभिः ॥३८॥

इति श्रीश्रीउज्ज्वलनीलमणौ सात्त्विकप्रकरणं ॥१२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:08.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

binucleolate

  • Bot. द्विकेंद्रकी० 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site