TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

व्यभिचारिप्रकरणं

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान्‍ ग्रंथ उज्ज्वलनीलमणिः होय.


व्यभिचारिप्रकरणं
निर्वेदाद्यास्त्रयस्त्रिंशद्भावा ये परिकीर्तिताः ।
औग्र्यलस्ये विना तेऽत्र विज्ञेया व्यभिचारिणः ॥१॥
सख्यादिषु निजप्रेमाप्यत्र सञ्चारितां व्रजेत्  ॥२॥
साक्षादङ्गत्या नेष्टा किन्त्वत्र मरणादयः ।
वर्ध्यमानास्तु युक्त्यामी गुणतां उपचिन्वते ॥३॥

तत्र निर्वेदः, स महार्त्या, यथा विदग्धमाधवे (२.४१)
यस्योत्सङ्गसुखाश्रया शिथिलता गुर्वी गुरुभ्यस्त्रपा
प्राणेभ्योऽपि सुहृत्तमाः सखि तथा यूयं परिक्लेशिताः ।
धर्मः सोऽपि महान्मया न गणितः साध्वीभिरध्यासितो
धिग्धैर्यं तदुपेक्षितापि यदहं जीवामि पापीयसी ॥४॥

विप्रयोगेण, यथा उद्धवसन्देशे
न क्षोदीयानपि सखि मम प्रेमगन्धो मुकुन्दे
क्रन्दन्तीं मां निजशुभगताख्यापनाय प्रतीहि ।
खेलत्वम्शीवलयिनमनालोक्य तं वक्त्रबिम्बं
ध्वस्तालम्बा यदहमहह प्राणकीटं बिभर्मि ॥५॥

ईर्स्यया, यथा
नात्मानं आक्षिप त्वं म्लायद्वदना गभीरगरिमाणं ।
सखि नान्तरं क्षितौ कश्चन्द्रावलितारयोर्वेत्ति ॥६॥

अथ विषादः । स इष्टानवाप्तितो, यथा विदग्धमाधवे
पीतं नवागमृतं अद्य हरेरशङ्कं
न्यस्तं मयाद्य वदने न दृगञ्चलं च ।
रम्ये चिरादवसरे सखि लब्धमात्रे
हा दुर्विधिर्विरुरुधे जरती च्छलेन ॥७॥

यथा व श्रीदशमे
अक्षण्वतां फलं इदं न परं विदामः
सख्यः पशूननुविवेशतयोर्वयस्यैः ।
वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टं
यैर्वा निपीतं अनुरक्तकटाक्षमोक्षम् ॥८॥

प्रारब्धकार्यासिद्धेर्, यथा श्रीगीतगोविन्दे
गणयति गुणग्रामं भ्रामं भ्रामादपि नेहते
वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलत्तृष्णे कृष्णे विहरति मां विना
पुनरपि मनो वामं कामं करोति करोमि किम् ॥९॥

विपत्तितो, यथा ललितमाधवे
निपीता न स्वैरं श्रुतिपुटिकया नर्मभणितिर्
न दृष्टा निःशङ्कं सुमुखि मुखपङ्केरुहरुचः ।
हरेर्वक्षःपीठं न किल घनं आलिङ्गितं अभूद्
इति ध्यायं ध्यायं स्फुटति लुठदन्तर्मम मनः ॥१०॥

अपराधाद्, यथा
हरेर्वचसि सूनृते न निहिता श्रुतिर्वामया
तथा दृगपि नार्पिता प्रणतिभाजि तस्मिन्पुरः ।
हितोक्तिरपि धिक्कृता प्रियसखी मुहुस्तेन मे
ज्वलत्यहह मुर्मुरज्वलनजालरुद्धं मनः ॥११॥

अथ दैन्यं । तद्दुःखेन, यथा बिल्वमङ्गले
अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द
श्वसन्रसरसज्ञे त्वां नमस्कृत्य याचे ।
मधुरं अधरबिम्बं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥१२॥

यथा वा, श्रीदशमे
तन्नः प्रसीद वृजिनार्दन तेऽङ्घ्रिमूलं
प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम
तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥१३॥

त्रासेन, यथा
अपि करधुतिभिर्मयापनुन्नो
मुखमयं अञ्चति चञ्चलो द्विरेफः ।
अघदमन मयि प्रसीद वन्दे
कुरु करुणां अवरुन्धि दुष्टं एनम् ॥१४॥

अपराधेन, यथा
आलि तथ्यं अपराद्धं एव ते
दुष्टमानफणिदष्टया मया ।
पिञ्छमौलिरधुनानुमीयतां
मामकीनं अनवेक्ष्य दूषणम् ॥१५॥

अथ ग्लानिः, सा श्रमेण, यथा
व्यात्युक्षीं अघमथनेन पङ्कजाक्षी
कुर्वाणा किं अपि सखीषु सस्मितासु ।
क्षामाङ्गी मणिवलयं स्खलत्करान्तात्
कालिन्दीपयसि रुरोध नाद्य राधा ॥१६॥

आधिना, यथा हंसदूते
प्रतीकारारम्भश्लथमतिभिरुद्यत्परिणतेर्
विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः ।
अमुञ्चन्ती सङ्गं कुवलयदृशः केवलं असौ
बलादद्य प्राणानवति भवाशासहचरी ॥१७॥

रतेन, यथा श्रीगीतगोविन्दे
माराङ्के रतिकेलिसङ्कुलरणारम्भे तया साहस
प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्सम्भ्रमात् ।
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितं अक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥१८॥

अथ श्रमः । सोऽध्वनो, यथा पद्यावल्यां
द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्लीस्रजं
कण्ठान्मौक्तिकमालिकां तदनु च त्यक्त्वा पदैः पञ्चमैः ।
कृष्णप्रेमविघूर्णितान्तरतया दूराभिसारातुरा
तन्वङ्गी निरुपायं अध्वनि परं श्रेणीभरं निन्दति ॥१९॥

नृत्याद्, यथा
शिथिलगतिविलासास्तत्र हल्लीशरङ्गे
हरिभुजपरिघाग्रन्यस्तहस्तारविन्दाः ।
श्रमलुलितललाटश्लिष्टलीलालकान्ताः
प्रतिपदं अनवद्याः सिष्विदुर्वेदिमध्याः ॥२०॥

रताद्, यथा
अहह भुजयोर्द्वन्द्वं मन्दं बभूव विशाखिके
समजनि घनस्वेदं चेदं युगं तव गण्डयोः ।
धृतमधुरिमस्फूर्तिमूर्तिस्तथापि वरानने
प्रमदसुधयाक्रान्तं स्वान्तं मम प्रणयत्यसौ ॥२१॥

अथ मदः । स मधुपानजो, यथा
या ह्रिया हरिपुरो मुखमुद्रां
भङ्क्तुमध्यवससौ न कदापि ।
स पपाठ चटुलं मधु पीत्वा
शारिकेव पशुपालकिशोरी ॥२२॥

अथ गर्वः । स सौभाग्येन, यथा
मुञ्चन्मित्रकदम्बसङ्गं अभजन्नप्युत्सुकाः प्रेयसी
रेष द्वारि हरिस्त्वदाननतटीन्यस्तेक्षणस्तिष्ठति ।
यूथिभिर्मकराकृति स्मितमुखी त्वं कुर्वती कुण्डलं
गण्डोद्यत्पुलका दृशोऽपि न किल्क्षीवे क्षिपस्यञ्चलम् ॥२३॥

रूपेण, यथा
चन्द्रावलीवदनचन्द्रमरीचिपुञ्जं
कः स्तोतुं अप्यतिपटु क्षमते क्षमायां ।
येनाद्य पिञ्छमुकुटोऽपि निकेतवाटी
पर्यन्तकाननकुटिरचरः कृतोऽयम् ॥२४॥

यथा वा विदग्धमाधवे
सहचरि वृषभानुजया प्रादुर्भावे वरत्विषोपगते ।
चन्द्रावलीशतान्यपि भवन्ति निर्धूतकान्तीनि ॥२५॥

गुणेन, यथा
रमयन्तु तावदमलै
र्ध्वनिभिर्गोपीकपोतिका कृष्णं ।
इह ललिताकलकण्ठी
कलं न यावत्प्रपञ्चयति ॥२६॥

सर्वोत्तमाश्रयेण, यथा श्रीविष्णुपुराणे
जानामि ते पतिं शत्रुं जानामि त्रदशेश्वरं ।
पारिजातं तथाप्येनं मानुषी हारयामि ते ॥२७॥

इष्टलाभेन, यथा
नम्रा न भवतु वंशी मुकुन्दवक्त्रेन्दुमाधुरीरसिका ।
त्वं दुर्लभतद्गन्धा लगुडि वृथा स्तब्धतां वहसि ॥२८॥

यथा वा श्रीदशमे
उन्नीय वक्त्रं उरुकुन्तलकुण्डलत्विड्
गण्डस्थलं शिशिरहासकटाक्षमोक्षैः ।
राज्ञो निरीक्ष्य परितः शनकैर्मुरारेर्
अंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥२९॥

अथ शङ्का, सा चौर्येण, यथा
हरन्ती निद्राणे मधुभिदि करात्केलिमुरलीं
लतोत्सङ्गे लीना घनतमसि राधा चकितधीः ।
निशि ध्वान्ते शान्ते शरदामलचन्द्रद्युतिं उषा
मसौ निर्मातारं स्ववदनरुचां निन्दति विधिम् ॥३०॥

अपराधाद्, यथा ललितमाधवे
उत्ताम्यन्ती विरमति तमस्तोमसम्पत्प्रपञ्चे
न्यञ्चन्मूर्धा सरभसं असौ स्रस्तवेणीवृतांसा ।
मन्दस्पन्दं दिशि दिशि दृशोर्द्वन्द्वं अल्पं क्षिपन्ती
कुञ्जाद्गोष्ठं विशति चकिता वक्त्रं आवृत्य पाली ॥३१॥

शङ्का तु प्रवरस्त्रीणां भीरुत्वाद्भयकृद्भवेत्  ॥३२॥

परक्रौर्याद्, यथा विदग्धमाधवे
व्यक्तिं गते मम रहस्यविनोदवृत्ते
रुष्टो लघिष्ठहृदयस्तरसाभिमन्युः ।
राधां निरुध्य सदने विनिगूहन्ते वा
हा हन्त लम्भयति वा यदुराजधानीम् ॥३३॥

अथ त्रासः, स तडिता, यथा
स्फूर्जिते नभसि भीरुरुद्यतां
विद्युतां द्युतिं अवेक्ष्य कम्पिता ।
सा हरेरुरसि चञ्चलेक्षणा
चञ्चलेव जलदे न्यलीयत ॥३४॥

घोरसत्त्वेन, यथा विदग्धमाधवे
कर्णोत्तंसितरक्तपङ्कजजुषो भृङ्गीपतेर्झङ्क्रिया
भ्रान्तेनाद्य दृगञ्चलेन दधती भृङ्गावलीविभ्रमं ।
त्रासान्दोलितदोर्लतान्तविलसच्चूडाझणत्कारिणी
राधे व्याकुलतां गतापि भवति मोदं ममाध्यस्यति ॥३५॥

उग्रनिस्वनेन, यथा
त्वं असि मम सखेति किंवदन्ती
मुद्र चिराद्भवता व्यधायि तथ्या ।
मदुरसि रसितैर्निरस्यमानं
यदुदितवेपथुरर्पिताद्य राधा ॥३६॥

अथ आवेगः, स प्रियदर्शनजो, यथा ललितमाधवे
सहचरि निरातङ्कः कोऽयं युवा मुदिरद्युतिर्
व्रजभुवि कुतः प्राप्तो माद्यन्मतङ्गजविभ्रमः ।
अहह चटुलैरुत्सर्पद्भिर्दृगाङ्चलतस्करैर्
मम धृतिर्धनं चेतःकोषाद्विलुण्ठयतीह यः ॥३७॥

यथा वा तत्रैव
उपतरु ललितां तां प्रत्यभिक्षाय सद्यः
प्रकृतिमधुररूपां वीक्ष्य राधाकृतिं च ।
मणिं अपि परिचिन्वन्शङ्खचूडावतंसं
मुहुरहं उद्घूर्णं भूरिणा सम्भ्रमेण ॥३८॥

प्रियश्रवणजो, यथा ललितमाधवे
धन्ये कज्जलमुक्तवामनयना पद्मे पदोढाङ्गदा
सारङ्गि ध्वनदेकनूपुरधरा पालि स्खलन्मेखला ।
गण्डोद्यत्तिलका लवङ्गि कमले नेत्रार्पितालक्तका
माधावोत्तरलं त्वं अत्र मुरली दूरे कलं कूजति ॥३९॥

अप्रियदर्शनजो, यथा तत्रैव
क्षणं विक्रोशन्ती विलुठति शताङ्गस्य पुरतः
क्षणं बाष्पग्रस्तां किरति किल दृष्टिं हरिमुखे ।
क्षणं रामस्याग्रे पतति दशनोत्तम्भिततृणा
न राधेयं कं वा क्षिपति करुणाम्भोधिकुहरे ॥४०॥

अप्रियश्रवणजो, यथा
व्रजनरपतेरेष क्षत्ता करोति गिरा प्रगे
नगरगतये घोरं घोषे घनां सखि घोषणां ।
श्रवणपदवीं आरोहन्त्या यया कुलिशोग्रया
रचितं अचिरादाभीरीणां कुलं मुहुराकुलम् ॥४१॥
एवं अन्येऽप्यूह्याः ।

अथ उन्मादः, स प्रौढानन्दाद्, यथा
प्रसीद मदिराक्षि मां सखि मिलन्तं आलिङ्गितुं
निरुन्धि मुदिरद्युतिं नवयुवानं एनं पुरः ।
इति भ्रमरिकां अपि प्रियसखीभ्रमाद्याचते
समीक्ष्य हरिं उन्मदप्रमदविक्लवा वल्लवी ॥४२॥

विरहाद्, यथा
क्वाप्यान्दोलितकुन्तला विलुठति क्वाप्याङ्गुलीभङ्गत
स्त्वङ्गद्भ्रूर्दशनैर्विदश्य दशनान्कंसं शपत्युद्धूरा ।
कुत्राप्यद्य तमालं उत्तरलधीरालोक्य धावत्यलं
राधा त्वद्विरहज्वरेण पृथुना दूना यदूनां पते ॥४३॥

अत्ज अपस्मारः, यथा
अङ्गक्षेपविधायिभिर्निविडतोत्तुङ्गप्रलापैरलं
गाढोद्वर्तिततारलोचनपुटैः फेनच्छटोद्गारिभिः ।
कृष्ण त्वद्विरहोत्थितैर्मम सखीं अन्तर्विकारोर्मिभि
र्ग्रस्तां प्रेक्ष्य वितर्कयन्ति गुरवः सम्प्रत्यपस्मारिणीम् ॥४४॥

अथ व्याधिः, स यथा रससुधाकरे
शय्या पुष्पमयी परागमयतां अङ्गार्पणादश्नुते
ताम्यन्त्यन्तिकतालवृन्तनलिनीपत्राणि गात्रोष्मणा ।
न्यस्तं च स्तनमण्डले मलयजं शीर्णान्तरं लक्ष्यते
क्वाथादाशु भवन्ति फेनिलमुखा भूषामृणालाङ्कुराः ॥४५॥

अथ मोहः, स हर्षाद्, यथा विदग्धमाधवे
दरोन्मीलन्नीलोत्पलदलरुचस्तस्य निविडाद्
विरूढानां सद्यः करसरसिजस्पर्शकुतुकात् ।
वहन्ती क्षोभाणां निवहं इह नाज्ञासिषं इदं
क्व वाहं का वाहं चकर किं अहं वा सखि तदा ॥४६॥

यथा व श्रीदशमे
कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं
श्रुत्वा च तत्क्वणितवेणुविचित्रगीतं ।
देव्यो विमानगतयः स्मरनुन्नसारा
भ्रश्यत्प्रसूनकवरा मुमुहुर्विनीव्य् ॥४७॥

विश्लेषाद्, यथा उद्धवसन्देशे
सा पल्यङ्के किशलयदलैः कल्पिते तत्र सुप्ता
गुप्ता नीरस्तवकिततृशां चक्रवालैः सखीनां ।
द्रष्टव्या ते क्रशिमकलिताकण्ठनालोपकण्ठ
स्पन्देनान्तर्वपुरनुमितप्राणसङ्गा वराङ्गी ॥४८॥

विषादाद्, यथा श्रीदशमे
निजपदाब्जदलैर्ध्वजवज्र
नीरजाङ्कुशविचित्रललामैः ।
व्रजभुवः शमयन्खुरतोदं
वर्ष्मधुर्यगतिरीडितवेणुः ॥४९॥

व्रजति तेन वयं सविलास
वीक्षणार्पितमनोभववेगाः ।
कुजगतिं गमिता न विदामः
कश्मलेन कवरं वसनं वा ॥५०॥

अथ मृतिः
मृतेरध्यवयायोऽत्र वर्ण्यः साक्षादियं न हि ॥५१॥

यथा उद्धवसन्देशे
यावद्व्यक्तिं न किल भजते गान्दिनेयानुबन्धस्
तावन्नत्वा सुमुखि भवतीं किंचिदभ्यर्थयिष्ये ।
पुष्पैर्यस्या मुहुरकरवं कर्णपूरान्मुरारेः
सेयं फुल्ला गृहपरिसरे मालती पालनीया ॥५२॥

अथ आलस्यम्
साक्षादङ्गं न चालस्यं भङ्ग्या तेन निबध्यते ॥५३॥

यथा
निरवधि दधिपूर्णां गर्गरीं लोडयित्वा
सखि कृततनुभङ्गं कुर्वती भूरि जृम्भां ।
भुवं अनुपतिता ते पत्युरास्ते सवित्री
विरचय तदशङ्कं त्वं हरेर्मूर्ध्नि चूडाम् ॥५४॥

अथ जाड्यं, तदिष्टश्रुत्या, यथा
गोपुरे रुवति कृष्णनूपुरे
निष्क्रमाय धृतसम्भ्रमाप्यसौ ।
कीलितेव परिमीलितेक्षणा
सीदति स्म सदने मनोरमा ॥५५॥

अनिष्टश्रुत्या, यथा ललितमाधवे
आलीव्यालीकवचनेन मुहुर्विहन्तो
हन्तारविन्दविगलद्ग्रथितार्धमाल्या ।
हा हन्त हन्त किं अपि प्रतिपन्नतन्द्रा
चन्द्रावली किल दशान्तरं आरुरोह ॥५६॥

इष्टेक्षणेन, यथा विदग्धमाधवे
अहो धन्या गोप्यः कलितनवनर्मोक्तिभिरलं
विलासैरामोदं दधति मधुरैर्या मधुभिदः ।
धिगस्तु स्वं भाग्यं यदिह मम राधा प्रियसखी
पुरस्तस्मिन्प्राप्ते जडिमनिविडाङ्गी विलुठति ॥५७॥

अनिष्टेक्षणेन, यथा
राधा वनान्ते हरिणा विहारिणी
प्रेक्ष्याभिमन्युं स्तिमिताभरत्तथा ।
क्रुद्यास्य तूर्णं भजतोऽपि सन्निधिं
यथा भवानीप्रतिमाभ्रमं दधे ॥५८॥

विरहेण, यथा पद्यावल्यां
गृहीतं ताम्बूलं परिजनवचोभिर्न सुमुखी
स्मरत्यन्तःशून्या मुरहर गतायां अपि निशि ।
ततेवास्ते हस्तः कलितफणिवल्लीकिसलयस्
तथवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥५९॥

अथ व्रीडा, सा नवीनसङ्गमेन, यथा
विधुमुखि भज शय्यां वर्तसे किं नतास्या
मुहुरयं अनुवर्ती याचते त्वां प्रसीद ।
इति चटुभिरनल्पैः सा मयाभ्यर्थ्यमाना
व्यरुचदिह निकुञ्जश्रीरिव द्वारि राधा ॥६०॥

अकार्येण, यथा
पटुः किं अपि भाग्यतत्त्वं असि पुत्रि वित्तार्जने
यदेतं अतुल्यं बलादपजहर्थ हारं हरेः ।
गभीरं इति शृण्वती गुरुजनादुपालम्भनं
मणिस्रगवलोकनान्मुखं अवाञ्चयन्मालती ॥६१॥

स्तवेन, यथा
सङ्कुच न तथ्यवचसा
जगन्ति तव कीर्तिकौमुदी मार्ष्टि ।
उरसि हरेरसि राधे
यदक्षया कौङ्कुमीचर्चा ॥६२॥

अवज्ञया, यथा श्रीगीतगोविन्दे
तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव
प्रियपादालक्तच्छुरितं अरुणद्योति हृदयं ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किं अपि लज्जां जनयति ॥६३॥

अथ अवहित्था, सा जैह्म्येन, यथा श्रीजगन्नाथवल्लभे
अमुष्याः प्रोन्मीलत्कमलमधुधारा इव गिरो
निपीय क्षीबत्वं गत इव चलन्मौलिरधिकं ।
उदञ्चत्कामोऽपि स्वहृदयकलागोपनपरो
हरिः स्वैरं स्वैरं स्मितसुभगं ऊचे कथं अयम् ॥६४॥

जैह्म्यलज्जाभ्यां, यथा उद्धवसन्देशे
मा भूयस्त्वं वद रविसुतातीरधूर्तस्य वार्तां
गन्तव्या मे न खलु तरले दूति सीमापि तस्य ।
विख्याताहं जगति कठिना यत्पिधत्ते मदङ्गं
रोमाञ्चो.अयं सपदि पवनो हैमनस्तत्र हेतुः ॥६५॥

ह्रिया, यथा विदग्धमाधवे
भजन्त्याः सव्रीडं कथं अपि तदाडम्बरघटाम्
अपह्नोतुं यत्नादपि नवमदामोदमधुरा ।
अधीरा कालिन्दीपुलिनकलभेन्द्रस्य विजयं
सरोजाक्ष्याः साक्षाद्वदति हृदि कुञ्जे तनुवनी ॥६६॥

दाक्षिण्येन, यथा ललितमाधवे
उद्धूता स्मितकौमुदी न मधुरा वक्त्रेन्दुबिम्बात्तया
मृद्वीनां न निराकृता निजगिरां माधुर्यलक्ष्मीरपि ।
कोष्णैरद्य दुरावरैर्निजमनोगूढव्यथाशंसिभिः
श्वासैरेव दरोद्धूतस्तनपटैस्तस्या रुषः कीर्तिताः ॥६७॥

ह्रीभयाभ्यां, यथा
हृदये त्वदीयरागं, माधव दधती शमीव सा दहनं ।
अन्तर्ज्वलितापि बहिः, सरसा स्फुरति क्षमागुणतः ॥६८॥

भयेन, यथा
चन्द्रावली मन्दिरमण्डलानि
पतुयः प्रस्ताच्चिरं आचरन्ती ।
वंशीनिनादेन विरूडकम्पा
निनिन्द धूर्ता घनगर्जितानि ॥६९॥

गौरवदाक्षिण्याभ्यां, यथा
स्वकरग्रथितां अवेक्ष्य मालां
विलुठन्तीं प्रतिपक्षकेशपक्षे ।
मलिनाप्यघमर्दनादरोर्मि
स्थगिता चन्द्रमुखी बभूव तूष्णीम् ॥७०॥

अथ स्मृतिः । सा सदृशेक्षया, यथा हंसदूते
तमालस्यालोकाद्गिरिपरिसरे सन्ति चपलाः
पुलिन्द्यो गोविन्दस्मरणरभसोत्तप्तवपुषः ।
शनैस्तासां तापं क्षणं अपनयन्यास्यति भवान्
अवश्यं कालिन्दीसलिलशिशिरैः पक्षपवनैः ॥७१॥

द्यूताभ्यासेन, यथा
ते पीयूषिकिरां गिरां परिमलाः सा पिञ्छचूडोज्ज्वला
तास्तापिञ्छमनोहरास्तनुरुचस्ते केलयः पेशलाः ।
तद्वक्त्रं शरदिन्दुनिन्दि नयने ते पुण्डरीकश्रिणी
तस्येति क्षणं अप्यविस्मरदिदं चेतो ममाघूर्णते ॥७२॥

अथ वितर्कः, स विमर्शाद्यथा विदग्धमाधवे
विघूर्णन्तः पौष्पं न मधु लिहतेऽमी मधुलिहः
शुकोऽयं नादत्ते कलितजडिमा दाडिमफलं ।
विवर्णा पर्णाग्रं चरति हरिणीयं न हरितं
पथानेन स्वामी तदिभवरगामी ध्रुवं अगात्  ॥७३॥

संशयाद्, यथा ललितमाधवे
विदूरे कंसारिर्मुकुटितशिखण्डावलिरसौ
पुरे गौराङ्गीभिः कलितपरिरम्भो विलसति ।
न कान्तोऽयं शङ्के सुरपतिधनुर्धाममधुरस्
तडिल्लेखाहारी गिरिं अवललम्बे जलधरः ॥७४॥

यथा पद्यावल्यां
आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा
नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः ।
मौनं चेदं इदं च शून्यं अखिलं यद्विश्वं आभाति ते
तद्ब्रूयाः सखि योगिनी किं असि भोः किं वियोगिन्यपि ॥७५॥

यथा वा विदग्धमाधवे
अक्ष्णोर्द्वन्द्वं प्रसरति दरोद्घूर्णतारं मुरारेः
श्वासाः क्प्तां किल विचकिलैर्मालिकां म्लापयन्ति ।
केयं धन्या वसति रमणी गोकुले क्षिप्रं एतां
नीतस्तीव्रामयं अपि यया कां अपि ध्याननिष्ठाम् ॥७६॥

अनिष्टाप्त्या
बाल्यस्योच्छिदुरतया यथा यथाङ्गे
राधाया मधुरिमकौमुदी दिदीपे ।
पद्माया मुखकमलं विशीर्णमन्तः
सन्ताम्यद्भ्रमरं इदं तथा तथासीत्  ॥७७॥

यथा वा
मा चन्द्रावलि मलिना भव राधायाः समीक्ष्य सौभाग्यं ।
ज्योतिर्विदोऽपि विद्युः कृष्णे किल बलवती तारा ॥७८॥

अथ मतिः, यथा पद्यावल्यां
आश्लिष्य वा पादरतां पिनष्टु माम्
अदर्शनान्मर्महतां करोतु वा ।
यथा तथा वा विदधातु लम्पटो
मत्प्राणनाथस्तु स एव नापरः ॥७९॥

यथा वा
भवाम्बुजभवादयस्तव पदाम्बुजोपासना
मुशन्ति सुरवन्दिताः किं उत मन्दपुण्या नृपाः ।
अतस्तव जगत्पते मधुरिमाम्बुधेर्मद्विधो
न दास्यं इह वष्टि कः पुरुषरत्न कन्याजनः ॥८०॥

अथ धृतिः । सा दुःखाहावेन, यथा श्रीदशमे
तद्दर्शनाह्लादविधूतहृद्रुजो
मनोरथान्तं श्रुतयो यथा ययुः ।
स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैर्
अचीक्ल्पन्नासनं आत्मबन्धवे  ॥८१॥

उत्तमाप्त्या, यथा
नव्या यौवनमञ्जरी स्थिरतरा रूपं च विस्मापनं
सर्वाभीरमृगीदृशां इह गुणश्रेणी च लोकोत्तरा ।
स्वाधीन पुरुषोत्तमश्च नितरां त्यक्तान्यकान्तास्पृहो
राधायाः किं अपेक्षणीयं अपरं पद्मे क्षितौ वर्तते ॥८२॥

अथ हर्षः । सोऽभीष्टेक्षणेन, यथा श्रीदशमे
तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः ।
उत्तस्थुर्युग्थे कारिकासोफ़् रसार्णवसुधाकर ॥८३॥

यथा वा ललितमाधवे
स एष किं उ गोपिकाकुमुदिनीसुधादीधितिः
स एष किं उ गोकुलस्फुरितयौवराज्योत्सवः ।
स एष किं उ मन्मनःपिकविनोदपुष्पाकरः
कृशोदरि दृशोर्द्वईं अमृतवीचिभिः सिञ्चति ॥८४॥

अभीष्टलाभेन, यथा तत्रैव
आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे
नाश्लेषे किल शक्तिभागतिपृथुस्तम्भा भुजावल्लरी ।
वाणी गद्गदकुण्ठितोत्तरविधौ नालं चिरोपस्थिते
वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गीदृशः ॥८५॥

अथ औत्सुक्यं । तदिष्टेक्षास्पृहया, यथा हंसदूते
असव्यं बिभ्राणा पदं अधूतलाक्षारसं असौ
प्रयाताहं मुग्धे विरम मम वेशैः किं अधुना ।
अमन्दादाशङ्के सखि पुरपुरन्ध्रिकलकलाद्
अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते ॥८६॥

इष्टाप्तिस्पृहया, यथा श्रीगीतगोविन्दे
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥८७॥

अथ औग्र्यं ।
औग्र्यं न साक्षादङ्गं स्यात्तेन वृद्धादिषूच्यते ॥८८॥
यथा विदग्धमाधवे
नवीनाग्रे नप्त्री चटुल न हि धर्मात्तव भयं
न मे दृष्टिर्मध्येदिनं अपि जरत्याः पटुरियं ।
अलिन्दात्त्वं नन्दात्मज न यदि रे यासि तरसा
ततोऽहं निर्दोषा पथि कियति हंहो मधुपुरी ॥८९॥

अथ अमर्षः । सोऽधिक्षेपाद्, यथा श्रीदशमे
तस्याः स्युरच्युत नृपा भवतोपदिष्टाः
स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः ।
यत्कर्णमूलं अरिकर्षण नोपयायाद्
युष्मत्कथा मृडविरिञ्चसभासु गीता ॥९०॥

अपमानाद्, यथा विदग्धमाधवे
बाले वल्लवयौवतस्तनतटीदत्तार्धनेत्रादितः
कामं श्यामशिलाविलासिहृदयाच्चेतः परावर्तय ।
विद्मः किं न हि यद्विकृष्य कुलजाः केलिभिरेष स्त्रियो
धूर्तः सङ्कुलयन्कलङ्कततिभिर्निःशङ्कं उन्मुञ्चति ॥९१॥

अथ असूया । सा सौभाग्येन, याथा श्रीदशमे
इमान्यधिकमग्नानि पदानि वहतो वधूं ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥९२॥

याथा वा तत्रैव
गोप्यः किं आचरदयं कुशलं स्म वेणुर्
दामोदराधरसुधां अपि गोपिकानां ।
भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो
हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्याः ॥९३॥

यथा वा,
कृष्णाधरमधुमुग्धे पिबसि सदेति त्वं उन्मदा मा भूः ।
मुरलीभुक्तविमुक्ते रज्यति भवतीव का तत्र ॥९४॥

गुणेन, यथा
त्वत्तोऽपि मुग्धे मधुरं सखी मे
वन्यस्रजः स्रष्टुं असौ प्रवीणा ।
नास्याः करौ सिञ्चति चेदुदीर्णा
निरुध्य दृष्टिं प्रणयाश्रुधारा ॥९५॥

अथ चापल्यं । तद्रागेण, यथा
फुल्लासु गोकुलतडागभवासु केलिं
निःशङ्कं आचर चिरं वरपद्मिनीषु ।
मृद्वीं अलब्धकुसुमां नलिनीं त्वं एनां
मा कृष्णकुञ्जर करेण परिस्पृशाद्य ॥९६॥

यथा वा, श्रीगीतगोविन्दे
रासोल्लासभरेण विभ्रमभृतां आभीरवामभ्रुवाम्
अभ्यर्णं परिरभ्य निर्भरं उरः प्रेमान्धया राधया ।
साधु त्वद्वदनं सुधामयं इति व्याहृत्य गीतस्तुति
व्याजादुद्भटचुम्बितः स्मृतमनोहारि हरिः पातु वः ॥९७॥

द्वेषेण, यथा
यातु वक्षसि हरेर्गुणसङ्ग
प्रोज्झिता लयं इयं वनमाला ।
या कदाप्यखिलसौख्यपदं नः
कण्ठं अस्य कुटिला न जहाति ॥९८॥

अथ निद्रा । सा क्लमेन, यथा
श्वासस्पन्दनबन्धुरोदरतलं पुष्पावलीस्रस्तर
न्यञ्चन्मौक्तिकहारयष्टि कलयन्नीवीं मनागाकुलां ।
क्लान्तः केलिभरादुरोजकलसीं आभीरवामभ्रुवः
कल्याणीं उपधाय सान्द्रपुलकां अद्रौ निदद्रौ हरिः ॥९९॥

यथा वा हंसदूते (११५)
अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसतेर्
वसन्तीं वासन्ती नवपरिमलोद्गारिचिकुरां ।
त्वदुत्सङ्गे निद्रासुखमुकुलिताक्षीं पुनरिमां
कदाहं सेविष्ये किशलयकलापव्यजनिनी ॥१००॥

अथ सुप्तिर्, यथा
पुरः पन्थानं मे त्यज यदमुना यामि यमुना
मिति व्याक्षाणा चुचुकविचरत्कौस्तुभरुचिः ।
हरेः सव्यं राधा भुजं उपदधत्यम्बुजमुखी
दरीक्रोडे क्लान्ता निविडं इह निद्राभरं अगात्  ॥१०१॥

यथा वा
आभीरेन्द्रसुतस्य गण्डमुकुरे स्वाप्नीभिरुल्लासितं
लीलाभिः पुलकं विलोक्य चकिता निश्चिन्वती जागरं ।
सा वेणोर्हरणोत्सवे धृतनवोत्कण्ठापि तल्पाञ्चले
विस्रस्तं करतोऽपि माध्यवससौ तं हर्तुं एणेक्षणा ॥१०२॥

प्रबोधः, यथा
निद्राप्रमोदहरं अप्युरुकण्ठनादं
कण्ठीरवस्य शितिकण्ठपतत्रमौलिः ।
तुष्टाव सत्वरविबुद्धपरिप्लवाक्ष
राधापयोधरगिरिन्द्रनिपीडिताङ्गम् ॥१०३॥

सख्यां स्वस्नेहो, यथा
शैलमूर्ध्नि हरिणा विहरन्ती
रोमकुड्मलकर्मबितमूर्तिः ।
राधिका सललितं ललितायाः
पश्य मार्ष्टि लुलितालकं आस्यम् ॥१०४॥

अथ उत्पत्त्यादिदशाचतुष्टयम्, तत्र उत्पत्तिर्, यथा
मृदुरियं इति वादीर्मा त्वं अस्या कुडुङ्गे
शशिमुखि तव सख्याः पौरुषं दृष्टं अस्ति ।
इति भवदुपकण्ठे मद्गिरा भुग्नदृष्टेः
स्थपुटितवदनाया राधिकायाः स्मरामि ॥१०५॥
अत्रासूयोत्पत्तिः ।

अथ सन्धिः । तत्र सरूपयोर्, यथा
चिराभीष्टे प्रेक्षे दनुजदमने विद्नति दृशोः
पदं पत्यौ चार्धस्फुटवचसि रक्तत्विषि रुषा ।
इयं निस्पन्दाङ्गी निमिषकलनोन्मुक्तनयना
बभूवावष्टम्भप्रतिकृतिरिवाब्म्होजवदना ॥१०६॥
अत्रेष्टानिष्टेक्षणकृतयोर्जाड्ययोः सन्धिः ।

अथ भिन्नयोः । तत्र एकहेतुजयोर्, यथा ललितमाधवे
शिखरिभरवितर्कतः प्रतप्तं
समहं अहर्निशं ईक्षया प्रियस्य ।
हृदयं इह समस्तवल्लवीनां
युगपदपूर्वविधं द्विधा बभूव ॥१०७॥
 अत्र विषादहर्षयोः ।

भिन्नहेतुजयोर्, यथा
स्थवयति नवरागं माधवे राधिकायां
गिरं अथ ललितायाः सावहेलां प्रतीत्य ।
चलतरचरणाग्रेणालिखन्ती धरित्रीं
विधृतवदनपद्मा तत्र सिष्वेद पद्मा ॥१०८॥
अत्र चिन्तामर्षयोः ।

अथ शावल्यम्, यथा विदग्धमाधवे
धन्यास्ता हरिणीदृशः स रमते याभिर्नवीनो युवा
स्वैरं चापलं आकलय्य लल्ता मां हन्त निन्दिष्यति ।
गोविन्दं परिरब्धुं इन्दुवदनं हा चित्तं उत्कण्ठते
धिग्वामं विधिं अस्तु येन गरलं मानाभिधं निर्ममे ॥१०९॥
                                                                                                                                                      अत्र चापलशङ्कौत्सुक्यामर्षाणां शावल्यं ।

अथ शान्तिः, यथा
आलीयुक्तिकुठारिकापटिमाभिर्यो न प्रपेदे छिदां
दूतीजल्पितनिर्झरेण च चिरं यः क्वापि नोच्चालितः ।
वंश्नादमरुल्लवेन कमलाचेतस्तटीवेष्टनो
मानाख्यः प्रबलोन्नतिस्तरुरयं न क्षिप्रं उन्मूल्यते ॥११०॥
                                                                                                                                                      अत्रेर्ष्याख्यभावस्य शान्तिः ।

इति श्रीश्रीउज्ज्वलनीलमणौ व्यभिचारिप्रकरणं ॥१३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:08.0700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

reformist

  • सा. सुधारणावादी 
  • सा. सुधारणावादी 
  • सा. सुधारणावादी 
  • सा. परिवर्तनवादी 
More meanings
RANDOM WORD

Did you know?

चातुर्मासाचे महत्व स्पष्ट करावे.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site