उद्दीपनविभावप्रकरणं

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान्‍ ग्रंथ उज्ज्वलनीलमणिः होय.


अथ विभावेषूद्दीपनाः
उद्दीपनविभावा हरेस्तदीयप्रियाणां च ।
कथिता गुणनामचरितमण्डनसम्बन्धिनस्तटस्थाश्च ॥१॥

तत्र गुणाः
गुणास्त्रिधा मानसा स्युर्वाचिकाः कायिकास्तथा ॥२॥

तत्र मानसाः
गुणाः कृतज्ञताक्षान्तिकरुणाद्यास्तु मानसाः ॥३॥

यथा
वशं अल्पिकयापि सेवयामुं
विहितेऽप्यागसि दुःसहे स्मितास्यं ।
परदुःखलवेऽपि कातरं मे
हरिं उद्वीक्ष्य मनस्तनोति तृष्णाम् ॥४॥

अथ वाचिकाः
वाचिकास्तु गुणाः प्रोक्ताः कर्णानन्दकतादयः ॥५॥

यथा
कर्णापहारिवर्णाम्
अश्रुतचरमाधुरीभिरभ्यस्तां ।
आलि रसालां माधव
वाचं नाचम्य तृप्यामि ॥६॥

अथ कायिकाः
ते वयो रूपलावण्ये सौन्दर्यं अभिरूपता ।
माधुर्यं मार्दवाद्याश्च कायिकाः कथिता गुणाः ॥७॥
तत्र वयः
वयश्चतुर्विधं त्वत्र कथितं मधुरे रसे ।
वयःसन्धिस्तथा नव्यं व्यक्तं पूर्णं इति क्रमात्  ॥८॥
वयोमुखा गुणाः पूर्वमुक्ताः केशवसंश्रयाः ।
तेन तेऽत्र प्रवक्ष्यन्ते प्रायशस्तत्प्रियानुगाः ॥९॥

तत्र वयःसन्धिः
बाल्ययौवनयोः सन्धिर्वयःसन्धिरितीर्यते ॥१०॥

स कृष्णस्य, यथा
यान्ती श्यामलतां विमुच्य कपिशच्छायां स्मरक्ष्मापते
रद्याज्ञालिपिवर्णपङ्क्तिपदवीं आप्नोति रोमावली ।
वाञ्छत्युच्छलितं मनागभिनवां तारुण्यनीरच्छटां
लब्ध्वा किञ्चिदधीरं अक्षिशफरद्वन्द्वं च कंसद्विषः ॥११॥

तन्माधुर्यम्
दशार्धशरलुब्धकं चलं अवेक्ष्य लक्ष्येच्छया
विशन्तं इह साम्प्रतं भवद्रूपाङ्गशृङ्गोपरि ।
सदाश्रुनिकरोक्षिता व्रजमहेन्द्र वृन्दावने
कुरङ्गनयनावली दरपरिप्लवत्वं गता ॥१२॥

तत्प्रियाणां, यथा
वाद्यं किङ्किणिं आहरत्युपचयं ज्ञात्वा नितम्बो गुणी
स्वस्य ध्वंसं अवेत्य वष्टि बलिभिर्योगं ह्रसन्मध्यमं ।
वक्षः साधुफलद्वयं विचिनुते राजोपहारक्षमं
राधायास्तनुराज्यं अञ्चति नवे क्षौणीपतौ यौवने ॥१३॥

तन्माधुर्यम्
आशास्ते पतितुं कटाक्षमधुपो मन्दं दृगिन्दीवरे
किञ्चिद्व्रीडविसाङ्कुरं मृगयते चेतोमरालार्भकः ।
नर्मालापमधुच्छटाद्य वदनाम्भोजे तवोदीयते
शङ्के सुन्दरि माधवोत्सवकरीं काञ्चिद्दशां अञ्चसि ॥१४॥

अथ नव्यम्
दरोद्भिन्नस्तनं किञ्चिच्चलाक्षं मन्थरस्मितं ।
मनागभिस्फुरद्भावं नव्यं यौवनं उच्यते ॥१५॥

यथा
उरः स्तोकोच्छूनं वचनं उदयद्वक्रिमलवं
दवोद्घूर्णा दृष्टिर्जघनतटं ईषद्घनतरं ।
मनाग्व्यक्ता रोमावलिरपचितं किञ्चिदुदरं
हरेः सेवौचित्यं तव सुवदने विन्दति वयः ॥१६॥

तन्माधुर्यम्
वारं वारं विचरसि हरेरद्य विश्रामवेद्या
मुद्भ्रान्तासि स्फुरति पवने तद्वपुर्गन्धभाजि ।
बाले नेत्रे विकिरसि मुहुर्नैचिकीनां पदव्यां
भावाग्निस्ते स्फुटं इह मनोधाम्नि धूमायितोऽस्ति ॥१७॥

अथ व्यक्तम्
वक्षः प्रव्यक्तवक्षोजं मध्यं च सुवलित्रयं ।
उज्ज्वलानि तथाङ्गानि व्यक्ते स्फुरति यौवने ॥१८॥

यथा
रथाङ्गमिथुनं नवं प्रकटयत्युरोजद्युति
र्व्यनक्ति युगलं दृशोः शफरवृत्तिं इन्द्रावलि ।
बिभर्ति च बलित्रयं तव तरङ्गभङ्गोद्गमं
त्वं अत्र सरसीकृता तरुणिमश्रिया राजसि ॥१९॥

तन्माधुर्यम्
भ्राजन्ते वरदन्तिमौक्तिकगणा यस्योल्लिखद्भिर्नखैः
क्षिप्ताः पुष्करमालयावृतरुचः कुञ्जेषु कुञ्जेश्वमी ।
शौटीर्याब्धिरुरोजपञ्जरतटे संवेशयन्त्या कथं
स श्रीमान्हरिणेक्षणे हरिरभून्नेत्रेण बद्धस्त्वया ॥२०॥
अथ पूर्णम्
नितम्बो विपुलो मध्यं कृशं अङ्गं वरद्युति ।
पीनौ कुचावुरुयुग्मं रम्भाभं पूर्णयौवने ॥२१॥

यथा
दृशोर्द्वन्द्वं वक्रां हरति शफरोल्लासलहरी
मखण्डं तुण्डश्रीर्विधुमधुरिमाणं दमयति ।
कुचौ कुम्भभ्रान्तिं मुहुरविकलां कन्दलयत
स्तवापूर्वं लीलावति वयसि पूर्णे वपुरभूत्  ॥२२॥

तन्माधुर्यम्
न वित्रस्ता का ते प्रतियुवतिरासीन्मुखरुचा
दधार स्तैमित्यं प्रणयघनवृष्ट्या तव न का ।
व्रजे शिष्या काभून्न हि तव कलायां इति हरे
र्निकुञ्जस्वाराजे त्वं असि रसिके पट्टमहिषी ॥२३॥

तारुण्यस्य नवत्वेऽपि कासाञ्चिद्व्रजसुभ्रुवां ।
शोभापूर्तिविशेषेण पूर्णतेव प्रकाशते ॥२४॥

अथ रूपम्
अङ्गान्यभूषितान्येव केनचिद्भूषणादिना ।
येन भूषितवद्भाति तद्रूपं इति कथ्यते ॥२५॥

यथा दानकेलिकौमुद्यां
त्रपते विलोक्य पद्मा
ललिते राधां विनाप्यलङ्कारं ।
तदलं मणिमयमण्डन
मण्डलरचनाप्रयासेन ॥२६॥

यथा वा विदग्धमाधवे
नीतं ते पुनरुक्ततां भ्रमरकैः कस्तूरिकापत्रकं
नेत्राभ्यां विफलीकृतं कुवलयद्वन्द्वं च कर्णापितं ।
हारश्च स्मितकान्तिभङ्गिभिरलं पिष्टानुपेषीकृतः
किं राधे तव मण्डनेन नितरां अङ्गैरसि द्योतिता ॥२७॥

अथ लावण्यम्
मुक्ताफलेषु छायायास्तरलत्वं इवान्तरा ।
प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥२८॥

यथा
जगदमलरुचिर्विचित्य राधे
व्यधित विधिस्तव नूनं अङ्गकानि ।
मणिमयमुकुरं कुरङ्गनेत्रे
किरणगणेन विडम्बयन्ति यानि ॥२९॥

यथा वा
शृणु सखि तव कर्णे वर्णयाम्यत्र नीचै
र्विरचय मुखचन्द्रं मा वृथाराद्विवर्णं ।
इयं उरसि मुरारेरस्ति नान्या मृगाक्षी
मरकतमुकुराभे बिइम्बितासि त्वं एव ॥३०॥

अथ सौन्दर्यम्
अङ्गप्रत्यान्गकानां यः सन्निवेशो यथोचितं ।
सुस्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यं इतीर्यते ॥३१॥

यथा
अखण्डेन्दोस्तुल्यं मुखं उरुकुचद्योतितं उरो
भुजौ स्रस्तावंसे करपरिमितं मध्यं अभितः ।
परिस्फारा श्रोणी क्रमलघिमभागूरुयुगलं
तवापूर्वं राधे किं अपि कमनीयं वपुरभूत्  ॥३२॥

अथ अभिरूपता
यदात्मीयगुणोत्कर्षैर्वस्त्वन्यन्निकटस्थितं ।
सारूप्यं नयति प्राज्ञैराभिरूप्यं तदुच्यते ॥३३॥

यथा
मग्ना शुभ्रे दशनकिरणे स्फाटिकीव स्फुरन्ती
लग्ना शोणे करसरसिजे पद्मारगीव गौरि ।
गण्डोपान्ते कुवलयरुचा वैन्द्रनीलीव जाता
सूते रत्नत्रयधियं असौ पश्य कृष्णस्य वंशी ॥३४॥

यथा वा
वक्षोजे तव चम्पकच्छविं अवष्टम्भोरुकुम्भोपमे
राधे कोकनदश्रियः करतले सिन्दूरतः सुन्दरे ।
द्रागिन्दिन्दिरबन्धुरेषु चिकुरेष्विन्दीवरऽभां वहन्
नकः कैरवकोरको वितनुते पुष्पत्रयीविभ्रमम् ॥३५॥

अथ माधुर्यम्
रूपं किं अप्यनिर्वाच्यं तनोर्माधुर्यं उच्यते ॥३६॥

यथा
किं अपि हृदयं अभ्रश्यामलं धाम रुन्धे
दृशं अहह विलुण्ठत्याङ्गिकी कापि मुद्रा ।
चटुलयति कुलस्त्रीधर्मचर्यां बकारेः
सुमुखि नवविवर्तः कोऽप्यसौ माधुरीणाम् ॥३७॥

अथ मर्दवम्
मार्दवं कोमलस्यापि संस्पर्शासहतोच्यते ।
उत्तमं मध्यमं प्रोक्तं कनिष्ठं चेति तत्त्रिधा ॥३८॥

तत्र उत्तमम्
अभिनवनवमालिकां अयं सा
शयनवरं निशि राधिकाधिशिश्ये ।
न कुसुमपटलं दरापि जग्लौ
तदनुभवात्तनुरेव सव्रणासीत्  ॥३९॥

मध्यमं, यथा
चित्रं धनिष्ठे तनुवाससोऽपि
चीनस्य पीनस्तनि सङ्गमेन ।
लिप्तेव ते लोहितचन्दनेन
मूर्तिर्बिन्दुना सखि लोहितासीत्  ॥४०॥

कनिष्ठं, यथा रससुधाकरे
आमोदं आमोदनं आदधानं
निलीननीलालकचञ्चरीकं ।
क्षणेन पद्मामुखपद्मं आसीत्
त्विषा रवेः कोमलयापि ताम्रम् ॥४१॥

अथ नाम, यथा
तटभुवि रविपुत्र्याः पश्य गौराङ्गि रङ्गी
स्फुरति सखि कुरङ्गीमण्डले कृष्णसारः ।
इति भवदभिधानं शृण्वती सा मदुक्तौ
सुतनुरतनुघूर्णापूरपूर्णा बभूव ॥४२॥

अथ चरितम्
अनुभावाश्च लीला चेत्युच्यते चरितं द्विधा ।
अग्रेऽनुभावा वक्तव्या लीलेयं कथ्यतेऽधुना ॥४३॥
लीला स्याच्चारुविक्रीडा ताण्डवं वेणुवादनं ।
गोदोहः पर्वतोद्धारो गोहूतिर्गमनादिका ॥४४॥

अथ चारुविक्रीडा
रासकन्दूकखेलाद्या चारुक्रीडात्र कीर्तिता ॥४५॥

तत्र रासः
तं विलासवति रासमण्डले
पुण्डरीकनयनं सुराङ्गनाः ।
प्रेक्ष्य सम्भृतविहारविभ्रमं
बभ्रमुर्मदनसम्भ्रमोर्मिभिः ॥४६॥

कन्दूकक्रीडा
अरुणरुचिमुदस्य क्षेपिणीं कुञ्चिताग्रां
सरभसं अभिधावन्विभ्रमद्दीर्घवेणिः ।
विरचयति मुकुन्दः कन्दुकान्दोलनृत्य
द्विपुलनयनभङ्गीविभ्रमः कौतुकं नः ॥४७॥

ताण्डवम्
प्रचलप्रचलाककुण्डलोऽयं
स्वसुहृन्मण्डलचर्चरीपरीतः ।
हरिरद्य नटन्पतङ्गपुत्री
तटरङ्गे मम रङ्गं आतनोति ॥४८॥

वेणुवादनं, यथा ललितमाधवे
जङ्घाधस्तटसङ्गिदक्षिणपदं किञ्चिद्विभुग्नत्रिकम्
साचिस्तम्भितकन्धरं सखि तिरःसञ्चारिनेत्राञ्चलं ।
वंशीं कुट्मलिते दधानं अधरे लोलाङ्गुलीसङ्गतां
रिङ्गद्भ्रूभ्रमरं वराङ्गि परमानन्दं पुरः स्वीकुरु ॥४९॥

गोदोहो, यथा पद्यावल्यां
अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिरसौ पादार्थनीरुद्धभू
रार्द्रीकृत्य पयोधराञ्चलं अलं सद्यः पयोबिन्दुभिः ।
न्यग्जानुद्वयमध्ययन्त्रितगह्टीवक्त्रान्तरालस्खल
द्धाराध्वानमनोहरं सखि पयो गां दोग्धि दामोदरः ॥५०॥

पर्वतोद्धारः
उद्यम्य कन्दुकितमन्दरसोदराद्रिं
सव्यं करं कटिं अनु स्थगयन्नसव्यं ।
स्मेराननश्चलदृगञ्चलचञ्चरीक
श्चित्ताम्बुजं मम हरिश्चटुलीचकार ॥५१॥

गोहूतिः
पिशङ्गि मणिकस्तनि प्रणतशृङ्गि पिङ्गेक्षणे
मृदङ्गमुखि धूमले शबलि हंसि वंशीप्रिये ।
इति स्वसुरभीकुलं मुहुरुदीर्णहीहीध्वनि
र्विदूरगतं आह्वयन्हरति हन्त चित्तं हरिः ॥५२॥

गमनम्
अनुपममदमन्दान्दोलिदोरर्गलश्रीः
सुरगजगुरुगर्वस्तम्भिगम्भीरकेलिः ।
सहचरि दरचञ्चच्चारुचूडारुचिर्मां
मदयति गतिमुद्रामाधुरी माधवस्य ॥५३॥

अथ मण्डनम्
चतुर्धा मण्डनं वासोभूषामाल्यानुलेपनैः ॥५४॥

अथ वस्त्रं, यथा
अम्बरं रचितधैर्यसंवरं
रम्यं अम्बरमणिप्रभोज्ज्वलं ।
सुभ्रु किं न हि कटीरमण्डले
पुण्डरीकनयनस्य पश्यसि ॥५५॥

यथा वा
अमलकमलरागरागं एतत्तव
जयति स्फुटं अद्भुतं दुकूलं ।
मम हृदि निजरागं अत्र राधे
दधदपि यद्द्विगुणं बभूव रक्तम् ॥५६॥

भूषा, यथा
प्रहरतु हरिणा कदम्बपुष्पं
प्रियसखि शेखरितं यदङ्गजास्त्रं ।
बत कथं अमुनावतंसितोऽसौ
मम हृदि बिध्यति नीलकण्ठपक्षः ॥५७॥

यथा वा
हारेण तारद्युतिना कपोलः
प्रेङ्खोलिना कुण्डलयोर्युगेन ।
उत्तुङ्गभासा कनकाङ्गदेन
मां लालितेयं ललिता धिनोति ॥५८॥

माल्यानुलेपने, यथा रससुधाकरे
आलोक्लैरनुमीयते मधुकरैः केशेषु माल्यग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलं अन्तर्गतं ।
अङ्गानां अनुभूयते परिमलैरालेपनप्रक्रिया
वेषः कोऽपि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥५९॥

यथा वा
अनङ्गरागाय बभूव सद्य
स्तवाङ्गरागोऽपि किं अङ्गनासु ।
उद्दामभावाय तथा किं आसीद्
दामापि दामोदर तावकीनम् ॥६०॥

अथ सम्बन्धिनः
लग्नाः सन्निहिताश्चेति द्विधा सम्बन्धिनो मताः ॥६१॥

तत्र लग्नाः
वंशीशृङ्गीरवौ गीतं सौरभ्यं भूषणक्वणः ।
पदाङ्काद्या विपञ्च्यादिनिक्वाणाः शिल्पकौशलं ।
इत्यादयोऽत्र कथिता लग्नाः सम्बन्धिनो बुधैः ॥६२॥

तत्र वंशीरवो, दानकेलिकौमुद्यां
वेणोरेष कलस्वनस्तरुलताव्याजृम्भणे दोहदं
सन्ध्यागर्जभरः पिकद्विजकुहुस्वाध्यायपारायणे ।
आभीरेन्दुमुखीस्मरानलशिखोत्सेके सलीलानिलो
राधाधैर्यधराधरेन्द्रदमने दम्भोह्लिरुन्मीलति ॥६३॥

यथा वा रससुधाकरे
माधवो मधुरमाधवीलता
मण्डपे पटुरटन्मधुव्रते ।
संजगौ श्रवणचारु गोपिका
मानमीनवडिशेन वेणुना ॥६४॥

कृष्णवक्त्रेन्दुनिष्ठ्यूतं मुरलीनिनदामृतं ।
उद्दीपनानां सर्वेषां मध्ये प्रवरं ईर्यते ॥६५॥

शृङ्गीरवः
कंसारातेः पिबतु मुरली तस्य सद्वंशजन्मा
सा वक्त्रेन्दुं स्फुटं अकुटिला पञ्चमोद्गारगुर्वी ।
आस्वाद्यामुं त्वं अपि विषमा भङ्गुराङ्गारकाली
तुङ्गं शृङ्गि ध्वनसि यदिदं तत्तु दुःखाकरोति ॥६६॥

अथ गीतम्
मानानलं मे शमयन्समिद्धं
गानामृतं वर्षति कृष्णमेघः ।
मा क्रुध्य वात्यासि सखि प्रसीद
दूरे नयामुं निजविभ्रमेण ॥६७॥

सौरभम्
मिलति परिमलोर्मिः कस्य रोमश्रियासौ
मम तनुलतिकायां कुर्वती कुड्मलानि ।
सखि विदितं इहाग्रे माधवः प्रादुरासीद्
भुवि सुरभितया यः ख्यातिं अङ्गीकरोति ॥६८॥

यथा वा
मदयति हृदयं किं अप्यकाण्डे
मम यदिदं नवसौरभं वरीयः ।
तदिह कुसुमसंग्रहाय राधा
शिखरितटे शिखरद्विजा विवेश ॥६९॥

भूषणक्वणः
कलहंसनादं इह हंसगामिनी
निशमय्य हंसदुहितुस्तटान्तरे ।
तव नूपुरध्वनिधिया परिप्लवा
कलसीं न वेद शिरसश्च्युतां अपि ॥७०॥

यथा वा ललितमाधवे
मधुरिमलहरीभिः स्तम्भयत्यम्बरे या
स्मरमदसरसानां सारसानां रुतानि ।
इयं उदयति राधाकिङ्किनीझङ्कृतिर्मे
हृदि परिणमयन्ती विक्रियाडम्बराणि ॥७१॥

पदाङ्काद्याः, यथा दानकेलिकौमुद्यां
पदततिभिरलं कृतोज्ज्वलेयं
ध्वजकुलिशाङ्कुशपङ्कजाङ्किताभिः ।
नखरलुठितकुट्मलावनाली
किं अपि धिनोति धुनोति चान्तरं मे ॥७२॥

विपञ्चीनिक्वाणो, यथा ललितमाधवे
स्मरकेलिनाट्यनान्दीं
शब्दब्रह्मश्रियं मुहुर्दुहती ।
वहति मुदं मम महती
मिह महिता श्यामलामहती ॥७३॥

शिल्पकौशलं, यथा
वरकुसुमनिवेशप्रक्रियासौष्ठवेन
प्रकटितहरिशिल्पा पट्टसूत्रोज्ज्वलश्रीः ।
हृदि विनिहितकम्पा निर्मिमीते स्रगेषा
निशितशरपरीतस्मारतुणीरशङ्काम् ॥७४॥

अथ सन्निहिताः
निर्माल्याद्याः सन्निहिता बर्हगुञ्जाद्रिधातवः ।
नैचिकीनां समुदयो लगुडीवेणुशृङ्गीकाः ॥७५॥
तत्प्रेष्ठदृष्टिर्गोधूलिर्वृन्दारण्यं तदाश्रिताः ।
गोवर्धनो रविसुता तथा रासस्थलादयः ॥७६॥

तत्र निर्माल्याद्याः, यथा विदग्धमाधवादौ
अङ्गोत्तीर्णविलेपनं सखि समाकृष्टिक्रियायां मणि
र्मन्त्रो हन्त मुहुर्वशीकृतिविधौ नामास्य वंशीपतेः ।
निर्माल्यस्रगियं महौषधिरिह स्वान्तस्य सम्मोहने
नासां कस्तिसृणां गृणाति परमाचिन्त्यां प्रभावावलीम् ॥७७॥

यथा वा ललितमाधवे
दुकूलेऽस्मिन्कार्तस्वरमहसि विस्तारितदृशो
वपुः किं ते फुल्लैर्वहति तुलनां नीपकुसुमैः ।
त्रुटन्तीभिः किं वा स्फटिकमणिमालाभिरुपमां
लभन्तेऽमी क्षामोदरि नयनयोस्तोयपृषताः ॥७८॥

अथ बर्हगुञ्जे, यथा विदग्धमाधवे
अग्रे वीक्ष्य शिखण्डखण्डं अचिरादुत्कम्पं आलम्बते
गुञ्जानां च विलोकनान्मुहुरसौ सास्रं परिक्रोशति ।
नो जाने जनयन्नपूर्वनटनक्रीडाचमत्कारितां
बालायाः किल चित्तभूमिं अविशत्कोऽयं नवीनग्रहः ॥७९॥

अद्रिधातुर्, यथा
आभीरवृन्दाधिपनन्दनस्य
कएवरालङ्करणोज्ज्वलश्रीः ।
क्षिप्तेन्द्रगोपांशुरपांशुलोऽयं
तनोति रागं मम धातुरागः ॥८०॥

नैचिकीसमुदयो, यथा
सन्ध्याद्योते विलसति गताः प्रेक्ष्य गोष्ठप्रकोष्ठे
हम्बारभोन्मुखरितमुखीनैचिकीस्त्वद्विहीनाः ।
अन्तश्चिन्ताचुलुकितमतिर्यादवेन्द्राद्य मन्दा
कष्टं चन्द्रावलिरिह कथं प्राणबन्धं करोतु ॥८१॥

लगुडी, यथा
विष्टभ्य यां भुवि पुरः शिखरार्पितेन
विन्यस्तचारुचिबुकेन करद्वयेन ।
दीव्यन्हरिर्गिरितटे मुदं आदधान्नः
सा हन्त यस्टिरधुना हृदयं पिनष्टि ॥८२॥

वेणुर्, यथा
हृदि न्यस्ता वंशी तदधरसुधाभागिति मया
दुरन्तं विश्लेषज्वरगरलं अस्याः शमयितुं ।
वितेने सा तूर्णं शतगुणं इदं यादवपते
विरक्तो यत्रेशस्तं इह न हि वा कः प्रहरति ॥८३॥

शृङ्गिका, यथा
वलितं विलोचनाग्रे, शवलं धूरिभिरिदं बलावरज ।
बलवत्कुवलयनयनास्तव गवलं कवलयत्यद्य ॥८४॥

तत्प्रेष्ठदृष्टिर्, यथा
सखि मृगमदलेखया विशाखा
हृदि मकरीरपि राधिका लिखन्ती ।
सुबलं अवकलय्य घूर्णिताग्रे
पुलकवती वनमालिनं लिलेख ॥८५॥

यथा वा ललितमाधवे
निखिलसुहृदां अर्थारम्भे विलम्बितचेतसा
मसृणितशिखो यः प्राप्तोद्भूद्मनागिव मार्दवं ।
स खलु ललितासान्द्रस्रेहप्रसङ्गघनीभवन्
पुनरपि बलादिन्धे राधावियोगमयः शिखी ॥८६॥

गोधूलिर्, यथा उद्धवसन्देशे
आप्रत्यूषादपि सुमनसां वीचिभिर्ग्रथ्यमाना
धत्ते नासौ सखि कथं अहो वैजयन्ती समाप्तिं ।
धिन्वन्गोपीनयनशिखिनः व्योमकक्षां जगाहे
सोऽयं मुग्धे निविडधवलो धूलिचक्राम्बुवाहः ॥८७॥

वृन्दारण्यं, यथा तत्रैव
आशापाशैः सखि नवनवैः कुर्वती प्राणबन्धं
जात्या भीरुः कति पुनरहं वासराणि क्षयिष्ये ।
एते वृन्दावनविटपिनः स्मारयन्तः विलासान्
उत्फुल्लास्तान्मम किल बलान्मर्म निर्मूलयन्ति ॥८८॥

तदाश्रिताः
तदाश्रित्याः खगा भृङ्गा मृगाः कुञ्जा लतास्तथा ।
तुलसी कर्णिकारश्च कदम्बाद्याश्च कीर्तिताः ॥८९॥

तत्र खगाः, यथा ललितमाधवे
कस्तान्पश्यन्भवदुपहृतस्निग्धपिञ्छावतंसान्
कंसाराते न खलु शिखिनः खिद्यते गोष्ठवासी ।
उन्मीलन्तं नवजलधरं नीलं अद्यापि मत्वा
ये त्वां अन्तर्मुदितमतयस्तन्वते ताण्डवानि ॥९०॥

भृङ्गाः, यथा
वृन्दावने श्रवसि ये निनदं विपञ्ची
निष्ठ्युतपञ्चममनोहरं आहरन्तः ।
ते षट्पदाः कुलिशघट्टनघोरं एतं
दैवे विरोधिनि भवन्ति न के विपक्षाः ॥९१॥

मृगाः, यथा तत्रैव
हरि हरि भवतीभिः स्वान्तहारी हरिण्यो
हरिरिह किं अपाङ्गातिथ्यसङ्गी व्यधायि ।
यदनुरणितवंशीकाकलीभिर्मुखेभ्यः
सुखतृणकवला वः सामिलीढाः स्खलन्ति ॥९२॥
कुञ्जाः, यथा उद्धवसन्देशे
लब्धान्दोलः प्रणयरभसादेष ताम्रौष्ठि नम्रः
प्रम्लायन्तीं किं अपि भवतीं याचते नन्दसूनुः ।
प्रेमोद्दामप्रमदपदवी साक्षिणी शैलकक्षे
द्रष्टव्या ते कथं अपि न सा माधवी कुञ्जवीथी ॥९३॥

लतादिर्, यथा पद्यावल्यां
तुलसि विलससि त्वं मल्लि जातासि फुल्ला
स्थलकमलिनि भृङ्गे सङ्गताङ्गी विभासि ।
कथयत बत सख्यः क्षिप्रं अस्मासु कस्मिन्
वसति कपटकन्दः कन्दरे नन्दसूनुः ॥९४॥

कर्णिकारो, यथा ललितमाधवे
रासात्तिरोहिततनुः सखि यस्य पुष्पैश्
चूडां चकार चिकुरे मम पिञ्छचूडः ।
कूले कलिन्ददुहितुर्धृतकन्दलोऽयं
मां दन्दहीति स मुहुर्नवकर्णिकारः ॥९५॥

कदम्बो, यथा
सखि रोपितो द्विपत्रः
शतपत्राक्षेण यो व्रजद्वारि ।
सोऽयं कदम्बडिम्भः
फुल्लो वल्लववधूस्तुदति ॥९६॥

गोवर्धनो, यथा ललितमाधवे
गोवर्धन त्वं इह गोकुलसङ्गिभूमौ
तुङ्गैः शिरोभिरभिपद्य नभो विभासि ।
तेनावलोक्य हरितः परितो वदाशु
कुत्राद्य वल्लवमणिः खलु खेलतीति ॥९७॥

रविसुता, यथा पद्यावल्यां
मथुरापथिक मुरारेर्
उपगेयं द्वारि वल्लवीवचनं ।
पुनरपि यमुनासलिले
कालियगरलानलो ज्वलति ॥९८॥

रासस्थली, यथा
गोष्ठादप्यवलोक्य मानशिखरोच्छ्रायश्रिया दूरतः
सद्यः खेदिनि चित्तचत्वरतटे वंशीवटेनार्पिता ।
कुर्वाणा हृतवृत्तिं इन्द्रियगणं सा यादवेन्द्राय ते
कष्टं रासविहारभुर्विहरति प्राणैः कुरङ्गीदृशाम् ॥९९॥

अथ तटस्थाः
तटस्थाश्चन्द्रिकामेघविद्युतो माधवस्तथा ।
शरत्पूर्णसुधांशुश्च गन्धवाहखगादयः ॥१००॥

तत्र चन्द्रिका, यथा रससुधाकरे
दुरासदे चन्द्रिकया सखीगणै
र्लतालिकुञ्जे ललिता निगूहिता ।
चकोरचञ्चुच्युतकौमुदीकणं
कुतोऽपि दृष्ट्वा भजति स्म मूर्च्छनाम् ॥१०१॥

मेघो, यथा रससुधाकरे
वासः पीतं कुतुकिनि कुतः कुत्र बर्हं मदान्धे
कंसारिर्वा क्व नु सखि मुधा सम्भ्रमान्मा प्रयाहि ।
पश्योत्तुङ्गे क्षणरुचिघटालिङ्गिता शैलशृङ्गे
नव्यः शक्रं दधदुदयते कार्मुचं वार्मुगेषः ॥१०२॥

विद्युत्, यथा रससुधाकरे
वर्षासु तासु क्षणरुक्प्रकाशा
द्गोपाङ्गना माधवं आलिलिङ्ग ।
विद्युच्च सा वीक्ष्य तदङ्गशोभां
ह्रीणेव तूर्णं जलदं जगाहे ॥१०३॥

वसन्तो, यथा
ऋतुहतकः सखि भुवने
किं अवततीर्षुर्बभूवाद्य ।
मन्दादरं अलिवृन्दं
वृन्दावनकुन्दसङ्गमे यदभूत्  ॥१०४॥

शरत्, यथा
कलहंसोज्ज्वलजल्पा
प्रकटितवृन्दावनोरुमाधुर्या ।
धृतिं अपहर्तुं सखि मे
दूतीव हरेः शरन्मिलिता ॥१०५॥

पूर्णसुधांशुर्, यथा
राकासुधांशुरभवन्न तमांसि हर्तुं
वृन्दाटवीजठरगान्यधुनापि शक्तः ।
राकासुधांशुमुखि तानि तवोन्नतानि
हृत्कन्दरास्तरचराणि कथं जहार ॥१०६॥

गन्धवाहो, यथा श्रीगीतगोविन्दे
मनोभवानन्दनचन्दनानिल
प्रसीद रे दक्षिण मुञ्च वामतां ।
क्षणं जगत्प्राण निदाय माधवं
पुरो मम प्राणहरो भविष्यसि ॥१०७॥

खगाः, यथा
मानेन सार्धं पशुपालसुभ्रुवां
मरालमाला चलिता घनागमे ।
कदम्बकुञ्जे विजिहीर्षया समं
समागता नागरि चातकावली ॥१०८॥

आदिशब्दात्सखीस्नेह आत्मन्युद्दीपनो वरः ॥१०९॥

यथा
हरिं अवेक्ष्य पुरो गुर्तो भिया
मुहुरभून्मुकुलन्नवविभ्रमा ।
ललितया विवृते निजसौहृदे
चलदृगञ्चलं आधित राधिका ॥११०॥

इति श्रीश्रीउज्ज्वलनीलमणौ उद्दीपनविभावभेदप्रकरणं ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP