संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सुभाषितानि|सुभाषितावलि| सुभाषित ८५१ - ९०० सुभाषितावलि सुभाषित १ - ५० सुभाषित ५१ - १०० सुभाषित १०१ - १५० सुभाषित १५१ - २०० सुभाषित २०१ - २५० सुभाषित २५१ - ३०० सुभाषित ३०१ - ३५० सुभाषित ३५१ - ४०० सुभाषित ४०१ - ४५० सुभाषित ४५१ - ५०० सुभाषित ५०१ - ५५० सुभाषित ५५१ - ६०० सुभाषित ६०१ - ६५० सुभाषित ६५१ - ७०० सुभाषित ७०१ - ७५० सुभाषित ७५१ - ८०० सुभाषित ८०१ - ८५० सुभाषित ८५१ - ९०० सुभाषित ९०१ - ९५० सुभाषित ९५१ - १००० सुभाषित १००१ - १०४० सुभाषितावलि - सुभाषित ८५१ - ९०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : vallabhadevवल्लभदेवसंस्कृतसुभाषित सुभाषित ८५१ - ९०० Translation - भाषांतर ०८५१-१ स्थाने वर्षति नैव गर्जति वृथा क्लान्तिं हरत्यञ्जसा०८५१-२ क्षेत्राणां परितापजर्जररुचां क्षेमंकरः क्ष्मातले ।०८५१-३ यद्यद्भद्रकसान्द्रतां हृदि दधात्यन्यत्करोत्युल्लस-०८५१-४ न्सन्मेघोयममोघदर्शनघनस्निग्धच्छविर्वर्धतां ॥०८५२-१ नो गर्जत्यम्बुराशिस्त्रिजगदधिपतिप्रार्थितार्थप्रदान-०८५२-२ व्यापार्स्फीतकीर्तिः स्फुरदन्लशिखानर्घरत्नैकपूर्णः ।०८५२-३ तत्तोयस्तोकमात्रव्यपहृतविकृतिः प्राकृतोयं प्रकृत्या०८५२-४ शून्ये क्षिप्त्वाम्बु गर्जत्यगणितनिधनो वारिवाहः सगर्वं ॥०८५३-१ न पालयति मर्यादां वेलाख्यामम्बुधिस्तथा ।०८५३-२ तृष्यतां नोपकर्तव्यमितीमामपरां यथा ॥०८५४-१ गवादीनां पयोन्येद्युः सद्यो वा दधि जायते ।०८५४-२ क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥०८५५-१ यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।०८५५-२ तथापि जानुदघ्नोयमिति चेतसि मा कृथाः ॥०८५६-१ यस्याम्बुकणिकाप्यास्ये न पतत्यर्थीनां क्वचित् ।०८५६-२ कष्टमम्भोनिधिः सोपि नदीन इति कथ्यते ॥०८५७-१ यातु नाशं समुद्रस्य महिमा स भुवि श्रुतः ।०८५७-२ वाडवः क्षुत्पिपासार्तो येनैकोपि न तर्पितः ॥०८५८-१ अमृतरसविसरावितरणमरणोत्तारितसुरे सति पयोधौ ।०८५८-२ कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः ॥०८५९-१ यदयं शशिशेखरो हरो०८५९-२ हरिरप्येष यदीशिता श्रियः ।०८५९-३ अमरा अपि यत्सुरा अमी०८५९-४ तदिमास्तस्य विभूतिविप्रुषः ॥०८६०-१ क्षारतैव हि गुणस्तथास्ति ते०८६०-२ येन न व्रजति कश्चिदन्तिकं ।०८६०-३ भीषणाकृति बिभर्षि यादसां०८६०-४ चक्रमर्णव किमर्थमग्रतः ॥०८६१-१ अपास्य लक्ष्मीहरणोत्थवैरिता-०८६१-२ मचिन्तयित्वा च तदद्रिमन्थनं ।०८६१-३ ददौ निवासं हरये महोदधिर्-०८६१-४ विमत्सरा धीरधियां हि वृत्तयः ॥०८६२-१ जितेन्दुभासो नयतां मणिनधस्-०८६२-२ तृणानि मूर्ध्ना बिभृतां जलेश्वरः ।०८६२-३ प्रभोर्न कश्चित्प्रभुरस्ति तत्त्वतो०८६२-४ रत्नानि रत्नानि तृणं तृणं पुनः ॥०८६३-१ ग्रीष्मं द्विषन्तु जलदागमर्थयन्तां०८६३-२ ते संकटप्रकृतयः कृपणास्तडागाः ।०८६३-३ अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र-०८६३-४ निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यं ॥०८६४-१ ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पय्ॐआनुषी०८६४-२ मुक्तौघः सिकता प्रवाललतिकाः शेवालमम्भः सुधा ।०८६४-३ तीरे कल्पमहीरुहाः किमपरं नामापि रत्नाकरो०८६४-४ दूरात्कर्णरसायनं निकटतस्तृष्नापि नो शाम्यति ॥०८६५-१ आस्तां क्लमापहरणं जलधेर्जलेन०८६५-२ दूरे दवाग्निपरिदीपितमानसानां ।०८६५-३ एतावदस्तु यदि तोयकणैर्न जिह्वा०८६५-४ दन्दह्यते द्विगुणतां च न याति तृष्णा ॥०८६६-१ रत्नान्यमूनि मकरालय मावमंस्थाः०८६६-२ कल्लोलवेल्लितदृषत्परुषप्रहारैः ।०८६६-३ किं कौस्तुभेन विहितो भवतो न नाम०८६६-४ याञ्चाप्रसारितकरः पुरुषोत्तमोपि ॥०८६७-१ लज्जामहे वयमहो भृशमप्यनेके०८६७-२ सांयात्रिकाः सलिलराशिममी विशान्ति ।०८६७-३ स्कन्धाधिरोपिततदीयतटोपकण्ठ-०८६७-४ कौलेयकाम्बुदृतयो यदुदीर्णतृष्णाः ॥०८६८-१ आ स्त्रीशिशुप्रथितयैष पिपासितेभ्यः०८६८-२ संरक्ष्यतेम्बुधिरपेयतयैव दूरात् ।०८६८-३ दृष्ट्वा करालमकरालिकरालिताभिः०८६८-४ किं भाययस्यपरमूर्मिपरम्पराभिः ॥०८६९-१ धिग्धिग्धिगम्बुधिममी निरपत्रपस्य०८६९-२ यस्याध्वगा मरुभुवीव नितान्ततान्ताः ।०८६९-३ तृड्दाहशुष्कगलनिर्गतदीर्घजिह्वा०८६९-४ दीना विवर्तितदृशोनुतटं प्रयान्ति ॥०८७०-१ निर्मथ्यते यदि सुरासुरसैन्यसंघैर्-०८७०-२ आपूर्यते यदि जलैर्जलदापगाभिः ।०८७०-३ पेपीयते च वडवामुखवह्निना चेन्-०८७०-४ न क्षुभ्यति स्म जलधिर्न तनुत्वमेति ॥०८७१-१ मैनाकादिभिरद्रिभिर्मघवतः संत्रस्य यत्रास्यते०८७१-२ चण्डार्चिर्भगवानुदेति च यतो यत्रास्तमभ्येति च ।०८७१-३ शेते क्वापि निलीय यस्य जगतां कुक्ष्येकदेशे पतिर्-०८७१-४ गाम्भीर्यश्रियमस्य कस्तुलयितुं वारां निधेरर्हति ॥०८७२-१ उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया०८७२-२ मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसां ।०८७२-३ कथमितरथाः तेन स्थेयं यशोभरमन्थरं०८७२-४ यदि न मथनायासं धीरः सहेत पयोनिधिः ॥०८७३-१ विषमभिमुखं मुक्तं रौद्रं दिशो दश संश्रिताः०८७३-२ शशितरुमणिप्रायैः प्रायः प्रलोभनमाहितं ।०८७३-३ किमिव न कृतं नन्थारम्भे शठेन पयोधिना०८७३-४ तदपि निपुणैर्नास्य क्षान्तं सुरैरमृतं विना ॥०८७४-१ यदिह भवतो गाम्भीर्येण प्रयाति महत्तया-०८७४-२ प्यनुचितगुणारम्भः कालः किमेतदनन्तरं ।०८७४-३ अयि जलनिधे किं कल्लोलैरलब्धसमाप्तिभिर्-०८७४-४ विरम सरितामेतत्तोयं न तेस्ति मनागपि ॥०८७५-१ समाश्रित्योत्सङ्गं विपृतवदनस्यास्य वसतः०८७५-२ क्षणेनैकस्यान्तर्ज्वलितवपुषो यत्क्षणमपि ।०८७५-३ न तृष्णामौर्वाग्नेरपनयति पुष्टेपि विभवे०८७५-४ नृशंसस्याम्भोधेर्व्रजतु विलयं सोस्य महिमा ॥०८७६-१ अहो बत सरित्पतेरिदमनार्यरूपं परं०८७६-२ यदुज्ज्वलरुचीन्मणीन्सुचिरचर्चितास्थागुणान् ।०८७६-३ जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः०८७६-४ क्षिपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः ॥०८७७-१ इहैकश्चूडालोभ्यजनि कलशाद्यस्य सकलैः०८७७-२ पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः ।०८७७-३ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः०८७७-४ कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः ॥०८७८-१ रूक्षं क्षारमपेयमत्र सलिलं लब्ध्वा परं तप्यते०८७८-२ व्यालग्राहभियावगाहनमपि स्वस्थेन नासाद्यते ।०८७८-३ तत्किं पान्थ पयोधिनामनि मरौ तृष्णाविमूढो भवान्-०८७८-४ अन्तर्निह्नुतिनाशितामलमणिव्राते मुधा धावसि ॥०८७९-१ सर्वासां त्रिजगत्यपामियमसावाधारता तावकी०८७९-२ प्रोल्लासोयमसौ तवाम्बुनिलये सेयं महासत्त्वता ।०८७९-३ सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल-०८७९-४ ग्रावस्रोतसि पाप तापकलहो यत्क्वापि निर्वाप्यते ॥०८८०-१ कल्लोलैर्विकिरत्वसौ गिरिवरान्वेलाविलासोत्थितैः०८८०-२ शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णतां ।०८८०-३ पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः०८८०-४ किं साम्यं प्रतनोः करोतु सरसोप्यब्धिः कृताडमबरः ॥०८८१-१ दतं येन सुधानिधानमसमं सत्त्वाधिकेनार्थिने०८८१-२ श्रीवासोपि महामणिर्विधुरसौ कल्पद्रुमो गौस्तथा ।०८८१-३ शापात्क्षारजलस्तथापि जलधिः प्राप्तायशा इत्यहो०८८१-४ लोकोयं तृणवद्गुणं विगणयन्दोषग्रहैकाग्रधीः ॥०८८२-१ हा कष्टं तटवासिनोपि विफलप्राग्भारमालोक्य माम्-०८८२-२ अन्यत्रैव विपासवः प्रतिदिनं गच्छन्त्यमी जन्तवः ।०८८२-३ इत्थं व्यर्थजलातिभारवहनप्रोद्भूतखेदादिव०८८२-४ स्वां मूर्तिं वडवानले जलनिधिर्मन्ये जुहोत्यन्वहं ॥०८८३-१ मर्यादापरिपालनेन महतां क्षौणीभृतां रक्षणाद्-०८८३-२ विश्रान्त्या मधुसूदनस्य सुचिरं यत्किंचिदासादितं ।०८८३-३ गाम्भीर्योचितमात्मनो जलधिना मन्थव्यथासंभ्रमाद्-०८८३-४ देवेष्वर्पयतामृतं द्रुतमहो सर्वं तदुत्पुंसितं ॥०८८४-१ आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्-०८८४-२ यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते ।०८८४-३ एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर्-०८८४-४ अन्यस्यापि महात्मनो न वपुषः स्वल्पोपि जातः श्रमः ॥०८८५-१ नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं०८८५-२ त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरं ।०८८५-३ नैराश्यानुशयातिमात्रनिशितं निःश्वस्य यद्दृश्यसे०८८५-४ तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः ॥०८८६-१ इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्-०८८६-२ इतश्च शरणार्थिनां शिखरिणां गुणाः शेरते ।०८८६-३ इतश्च वडवानलः सह समस्तसंवर्तकैर्-०८८६-४ अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥०८८७-१ वैकुण्ठायश्रियमभिनवं शीतभानुं भवाय०८८७-२ प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्व गण्यं ।०८८७-३ तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं०८८७-४ कोन्यस्तस्माद्भवति भुवनेष्वम्बुधेर्बोधिसत्त्वः ॥०८८८-१ रत्नोज्ज्वलाः प्रविकिरल्लंहरीः समीरैर्-०८८८-२ अब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः ।०८८८-३ दोषोर्थिनः स खलु भाग्यविपर्ययाणां०८८८-४ दातुर्मनागपि न तस्य तु दातृतायाः ॥०८८९-१ अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै-०८८९-२ रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।०८८९-३ व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः०८८९-४ प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः ॥०८९०-१ स्वस्त्यस्तु विद्रुमलतासुमन्ॐअणिभ्यः०८९०-२ कल्याणिनी भवतु मौक्तिकशुक्तिपङ्क्तिः ।०८९०-३ प्राप्तं मया सकलमेव फलं पयोधेर्-०८९०-४ यद्दारुणैर्जलचरैर्न विदारितोस्मि ॥०८९१-१ आदाय वारि परितः सरितां मुखेभ्यः०८९१-२ किं तावदर्जितमनेन दुरर्णवेन ।०८९१-३ क्षारीकृतं च वडवादहने हुतं च०८९१-४ पातालकुक्षिकुहरे विनिवेशितं च ॥०८९२-१ कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् ।०८९२-२ अन्यहस्तगतं दृष्ट्वा पश्चात्स परितप्यते ॥०८९३-१ भिद्यतेनुप्रविश्यान्तर्यो यथारुच्युपाधिना ।०८९३-२ विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥०८९४-१ स्फटिकस्य गुणो योसौ स एवायाति दोषतां ।०८९४-२ धत्ते स्वच्छतया छायां यस्तां मलवतामपि ॥०८९५-१ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ।०८९५-२ अनस्तमितसारस्य तेजसस्तद्विजृम्भितं ॥०८९६-१ शुष्कतनुतृणलवाग्रं गृह्णाति धनाशयान्यदीयं यः ।०८९६-२ मूढास्तृणमणिमपि तं नियुञ्जते पादरक्षायै ॥०८९७-१ सद्वंशजः साधुगुणः सुवृत्तः०८९७-२ संतापभित्तुल्यगुणोपगूढः ।०८९७-३ कान्तो दृशः पश्य तथापि हारः०८९७-४ क्षिप्तो बहिस्तुङ्गकुचद्वयेन ॥०८९८-१ कनकभूषणसंग्रहणोचितो०८९८-२ यदि मणिस्त्रपुणि प्रतिबध्यते ।०८९८-३ न स विरौति न चापि हि शोभते०८९८-४ भवति योजयितुर्वचनीयता ॥०८९९-१ मरकतस्य वरं मलिनात्मता०८९९-२ त्यजति जातु निजां प्रकृतिं न यः ।०८९९-३ अमलतां स्फटिकस्य धिगञ्जसा०८९९-४ भजति रूपमुपान्तगतस्य यः ॥०९००-१ अस्मिन्सखे ननु मणित्वमहासुभिक्षे०९००-२ चिन्तामणे त्वमुपलो भव मा मणिर्भूः ।०९००-३ अद्येदृशा हि मणयः प्रभवन्ति लोके०९००-४ येषां तृणग्रहणकौशलमेव भूषा ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP