TransLiteral Foundation

सुभाषितावलि - सुभाषित ४०१ - ४५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


सुभाषित ४०१ - ४५०
०४०१-१ साधयति यत्प्रयोजनमज्ञस्तत्तस्य काकतालीयं  ।
०४०१-२ दैवात्कथमप्यक्षरमुत्किरति घुणोपि काष्ठेषु  ॥
०४०२-१ प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते  ।
०४०२-२ पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण  ॥
०४०३-१ परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये  ।
०४०३-२ यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय   ॥
०४०४-१ अतिसत्कृताअपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिं  ।
०४०४-२ शिरसा महाश्वरेणापि ननु धृतो वक्र एव शशी  ॥
०४०५-१ वायुरिव खलजनोयं प्रायः पररूपमेति संपर्कात् ।
०४०५-२ सन्तस्तु रविकरा इव सदसद्योगेप्यसंश्लिष्टाः  ॥
०४०६-१ प्रेरयति परमनार्यः शक्रिदरिद्रोपि जगदभिद्रोहे  ।
०४०६-२ तेजयति खङ्गधारां स्वयमसमर्था शिला छेत्तुं  ॥
०४०७-१ दूरेपि परस्यागसि पटुर्जनो नात्मनः समीपेपि  ।
०४०७-२ स्वं व्रणमक्षि न पश्यति शशिनि कलङ्कं निरूपयति  ॥
०४०८-१ साधुष्वेवातितरामरुंतुदाः स्वां विवृण्वते वृत्तिं  ।
०४०८-२ व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिंहमाददते  ॥
०४०९-१ अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेत्यर्थं  ।
०४०९-२ कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति  ॥
०४१०-१ स्वगुणानिव परदोषान्वक्तुं न सतोपि शक्रुवन्ति बुधाः  ।
०४१०-२ स्वगुणानिव परदोषानसतोपि खलास्तु कथयन्ति  ॥
०४११-१ कृत्वापि येन लज्जामुपैति साधुः परोदितेनापि  ।
०४११-२ तदकृत्वैव खलजनः स्वयमुद्गिरतीति धिग्लघुतां  ॥
०४१२-१ आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टं  ।
०४१२-२ प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः  ॥
०४१३-१ प्रकृतिखलत्वादसतां दोष इव गुणोपि बाधते लोकान् ।
०४१३-२ विषकुसुमानां गन्धः सुरभिरपि मनांसि मोहयति  ॥
०४१४-१ लब्धोच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति  ।
०४१४-२ पथि धूलिरजो ह्यादावुत्थापकमेव संवृणुते  ॥
०४१५-१ मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः  ।
०४१५-२ न त्यजति गन्धमशुभं प्रकृतिमिव सहोत्थितां नीचः  ॥
०४१६-१ उपकृतमनेन सुहृदयमिति दुर्जनेष्वस्ति न क्वचिदपेक्षा  ।
०४१६-२ होत्रा सह स्वमाश्रयमुद्वृत्तोग्निर्दहत्येव  ॥
०४१७-१ उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः  ।
०४१७-२ अनुकूलाचरणेन हि कुप्यन्ति व्याधयोत्यर्थं  ॥
०४१८-१ न परं फलति हि किंचित्खल एवानर्थमावहति यावत् ।
०४१८-२ मारयति सपदि विषतरुराश्रयमाणं श्रमापनुदे  ॥
०४१९-१ स्वार्थनिरपेक्ष एव हि परोपघातोसतां व्यसनमेव  ।
०४१९-२ अशनायोदन्या वा विरमति फणिनो न दन्दशतः  ॥
०४२०-१ एकीभावं गतयोर्जलपयसोर्मित्त्रचेतसोश्वैव  ।
०४२०-२ व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च  ॥
०४२१-१ शल्यमपि स्खलदन्तः सोढुं शक्यते हालहलदिग्धं  ।
०४२१-२ धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनं  ॥
०४२२-१ मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनां  ।
०४२२-२ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति  ॥
०४२३-१ प्रारम्भतोतिविपुलं भृशकृशमन्ते विभेदकृन्मलिनं  ।
०४२३-२ महिषविषाणमिवानृजु पुरुषं भयदं खलप्रेम  ॥
०४२४-१ पात्रमपात्रीकुरुते दहति गुणान्स्नेहमाशु नाशयति  ।
०४२४-२ अमले मलं प्रयच्छति दीपज्वालेव खलमैत्त्री  ॥
०४२५-१ समर्पिताः कस्य न तेन दोषा
०४२५-२ हठाद्गुणा वा न हृताः खलेन  ।
०४२५-३ तथापि दोषैर्न वियुज्यतेसौ
०४२५-४ स्पृष्टोपि नैकेन गुणेन चित्रं  ॥
०४२६-१ आराध्यमानो बहुभिः प्रकारैर्-
०४२६-२ नाराध्यते नाम किमत्र चित्रं  ।
०४२६-३ अयं त्वपूर्वः प्रतिभाविशेषो
०४२६-४ यत्सेव्यमानो रिपुतामुपैति  ॥
०४२७-१ विद्वानुपालम्भमवाप्य दोषान्-
०४२७-२ निवर्ततेसौ परितप्यते च  ।
०४२७-३ ज्ञातस्तु दोषो मम सर्वथेति
०४२७-४ पापो जनः पापतरं करोति  ॥
०४२८-१ एवमेव नहि जीव्यते खलात्-
०४२८-२ तत्र का नृपतिवल्लभे कथा  ।
०४२८-३ पूर्वमेव हि सुदुःसहो नलः
०४२८-४ किं पुनः प्रबलवायुनेरितः  ॥
०४२९-१ अमरैरमृतं न पीतमब्धेर्-
०४२९-२ न च हालाहलमुल्वणं हरेण  ।
०४२९-३ विधिना निहितं खलस्य वाचि
०४२९-४ द्वयमेतद्बहिरेकमन्तरन्यत् ॥
०४३०-१ निमित्तमुद्दिश्य हि यः प्रकुप्यति
०४३०-२ ध्रुवं स तस्यापगसे प्रसीदति  ।
०४३०-३ अकारणद्वेषि मनो हि यस्य वै
०४३०-४ कथं परस्तं परितोषयिष्यति  ॥
०४३१-१ इतरदेव बहिर्मुखमुच्यते
०४३१-२ हृदि तु यत्स्फुरतीतरदेव तत् ।
०४३१-३ चरितमेतदधीरवितारकं
०४३१-४ धुरि पयःप्रतिबिम्बमिवासतां  ॥
०४३२-१ क्व पिशुनस्य गतिः प्रतिहन्यते
०४३२-२ दशति दृष्टमपि श्रुतमप्यसौ  ।
०४३२-३ अतिसुदुष्करमव्यतिरिक्तदृक्-
०४३२-४ छ्रुतिभिरप्यथ दृष्टिविषैरिदं  ॥
०४३३-१ गजतुरगशतैः प्रयान्तु मूर्खा
०४३३-२ धनरहिता विबुधाः प्रयान्तु पद्भ्यां  ।
०४३३-३ गिरिशिखिरगतापि काकपाली
०४३३-४ पुलिनगतैर्न समेति राजहंसैः  ॥
०४३४-१ ह्रेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते  ।
०४३४-२ उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः  ॥
०४३५-१ प्रकटमपि न संवृणोति दोषं
०४३५-२ गुणलवलम्पट एष साधुवर्गः  ।
०४३५-३ अतिपरुषरुषं विनापि दोषैः
०४३५-४ पिशुनशुनां रुषतां प्रयाति कालः  ॥
०४३६-१ यदा विगृह्णाति तदा हतं यशः
०४३६-२ करोति मैत्त्रीमथ दूषिता गुणाः  ।
०४३६-३ स्थितिं समीक्ष्योभयथा परीक्षकः
०४३६-४ करोत्यवज्ञोपहतं पृथग्जनं  ॥
०४३७-१ इष्टो वा सुकृतशतोपलालितो वा
०४३७-२ श्लिष्टो वा व्यसनशताभिरक्षितो वा  ।
०४३७-३ दौःशील्याज्जनयति नैव जात्वसाधुर्-
०४३७-४ विस्रम्भं भुजग इवाङ्कमध्यसुप्तः  ॥
०४३८-१ रूक्षं विरौति परिकुप्यति निर्निमित्तं
०४३८-२ स्पर्शेन दूषयति वारयति प्रवेशं  ।
०४३८-३ लज्जाकरं दशति नैव च तृप्यतीति
०४३८-४ कौलेयकस्य च खलस्य च को विशेषः  ॥
०४३९-१ पादाहतोथ दृढदण्डविघट्टितो वा
०४३९-२ यं दंष्ट्रया दशति तं किल हन्ति सर्पः  ।
०४३९-३ कोप्यन्य एव पिशुनोद्य भुजंगधर्मा
०४३९-४ कर्णे परं स्पृशति हन्त्यपरं समूलं  ॥
०४४०-१ युक्तं यया किल निरन्तरलब्धवृत्तेर्-
०४४०-२ अस्याभिमानतमसः प्रसरं निरोद्धुं  ।
०४४०-३ विद्वत्तया जगति तामवलम्ब्य केचित्-
०४४०-४ तन्वन्त्यहंकृतिमहो शतशाखमान्ध्यं  ॥
०४४१-१ नन्वाश्रयस्थितिरियं तव कालकूट
०४४१-२ केनोत्तरोत्तरविशिष्टपदोपदिष्टा  ।
०४४१-३ प्रागर्णवस्य हृदये वृषलक्ष्मणोथ
०४४१-४ कण्ठेधुना वससि वाचि पुनः खलानां  ॥
०४४२-१ प्रायः स्वभावमलिनो महतां समीपे
०४४२-२ टिष्ठन्खलः प्रकुरुतेर्थिजनोपघातं  ।
०४४२-३ शीतार्दितैः सकललोकसुखावहोपि
०४४२-४ धूमे स्थिते नहि सुखेन निषेव्यतोग्निः  ॥
०४४३-१ धूमः पयोधरपदं कथमप्यवाप्य
०४४३-२ वर्षाम्बुभिः शमयति ज्वलनस्य तेजः  ।
०४४३-३ दैवादवाप्य कलुषप्रकृतिर्महत्त्वं
०४४३-४ प्रायः स्वबन्धुजनमेव तिरस्करोति  ॥
०४४४-१ उल्लासिताखिलखलस्य विशृङ्खलस्य
०४४४-२ प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः  ।
०४४४-३ दैवादवाप्तविभवस्य गुणद्विषोस्य
०४४४-४ नीचस्य गोचरगतैः सुखमास्यते कैः  ॥
०४४५-१ नाश्चर्यमेतदधुना हतदैवयोगा-
०४४५-२ दुर्च्चैःस्थितिर्यदधमो न महानुभावः  ।
०४४५-३ रथ्याकलङ्कशतसंकरसंकुलोपि
०४४५-४ पृष्ठे भवत्यवकरो न पुनर्निधानं  ॥
०४४६-१ प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्-
०४४६-२ समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलं  ।
०४४६-३ भुजगमपि कोपितं शिरसि पुश्पवद्धारयेन्-
०४४६-४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥
०४४७-१ लभेत सिकतासु तैलमपि यत्नतः पीडयन्-
०४४७-२ पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः  ।
०४४७-३ कदाचिदपि पर्यटच्छशविषाणमासादयेन्-
०४४७-४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥
०४४८-१ अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
०४४८-२ स्थलेब्जमवरोपितं सुचिरमूषरे वर्षितं  ।
०४४८-३ श्वपुच्छमवनामितं बधिरकर्णजापः कृतः
०४४८-४ कृतान्धमुखमण्डना यदबुधो जनः सेचितः  ॥
०४४९-१ वृथा दुग्धोनड्वान्स्तनभरनता गौरिति चिरं
०४४९-२ परिष्वक्तः षण्ढो युवतिरित लावण्यसहिता  ।
०४४९-३ कृता वैदूर्याशा विकचकिरणे काचशकले
०४४९-४ मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता  ॥
०४५०-१ स्वपक्षच्छेदं वा समुचितफलभ्रंशमथवा
०४५०-२ स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा  ।
०४५०-३ शरः प्राप्नोत्येतान्हृदयपथसंस्थोपि धनुष
०४५०-४ ऋजोर्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभं  ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:02.8270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुर्वाव्रत

  • ( प्र . ) दूर्वा , दूर्वाव्रत , दूर्वाष्टमी इ० पहा . 
  • ( प्र . ) दूर्वा , दूर्वाव्रत , दूर्वाष्टमी इ० पहा . 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.