संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सुभाषितावलि| सुभाषित ३०१ - ३५० सुभाषितावलि सुभाषित १ - ५० सुभाषित ५१ - १०० सुभाषित १०१ - १५० सुभाषित १५१ - २०० सुभाषित २०१ - २५० सुभाषित २५१ - ३०० सुभाषित ३०१ - ३५० सुभाषित ३५१ - ४०० सुभाषित ४०१ - ४५० सुभाषित ४५१ - ५०० सुभाषित ५०१ - ५५० सुभाषित ५५१ - ६०० सुभाषित ६०१ - ६५० सुभाषित ६५१ - ७०० सुभाषित ७०१ - ७५० सुभाषित ७५१ - ८०० सुभाषित ८०१ - ८५० सुभाषित ८५१ - ९०० सुभाषित ९०१ - ९५० सुभाषित ९५१ - १००० सुभाषित १००१ - १०४० सुभाषितावलि - सुभाषित ३०१ - ३५० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : vallabhadevवल्लभदेवसंस्कृतसुभाषित सुभाषित ३०१ - ३५० Translation - भाषांतर ०३०१-१ गुणवान्सुचिरस्थायी दैवेनापि न सह्यते ।०३०१-२ तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः ॥०३०२-१ सर्वत्र गुणवान्देशे चकास्ति प्रथतेतरां ।०३०२-२ मणिर्मूर्ध्नि गले बाहौ पादपीठेपि शोभते ॥०३०३-१ उत्तमं सुचिरं नैव विपदोभिभवन्त्यलं ।०३०३-२ राहुग्रसनसंभूता क्षणं विच्छायता विधोः ॥०३०४-१ संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः ।०३०४-२ प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः ॥०३०५-१ न कदाचित्सतां चेतः प्रसरत्यघकर्मसु ।०३०५-२ जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत् ॥०३०६-१ नराः संस्कारार्हा जगति किल केचित्सुकृतिनः०३०६-२ समानायां जातावपि वयसि सत्यामपि धियि ।०३०६-३ अयं दृष्टान्तोत्र स्फुटपरिचयादभ्यसनतः०३०६-४ शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥०३०७-१ धनमपि परदत्तं दुःकमौचित्यभाजां०३०७-२ भवति हृदि तदेवानन्दकारीतरेषां ।०३०७-३ मलयजरसबिन्दुर्बाधते नेत्रमन्तर्-०३०७-४ जनयति च स एवाह्लादमन्यत्र गात्रे ॥०३०८-१ सद्वंशजस्य परितापनुदः सुवृत्त-०३०८-२ शुद्धात्मनः सकललोकविभूषणस्य ।०३०८-३ छिद्रं प्रजातमपि साधुजनस्य दैवान्-०३०८-४ मुक्तामणेरिव गुणाय भवत्यवश्यं ॥०३०९-१ गेहं दुर्गतबन्धुर्भिर्गुरुगृहं छात्रैरहंकारिभिर्-०३०९-२ हट्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमान् ।०३०९-३ सिंहाद्यैश्च वनं खलैर्नृपसभां चौरौर्दिगन्तानपि०३०९-४ संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व विश्राम्यति ॥०३१०-१ साभिमानमसंभाव्यमौचित्यच्युतमप्रियं ।०३१०-२ दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥०३११-१ भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य ।०३११-२ वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्द्योतः ॥०३१२-१ गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति ।०३१२-२ स्वमहिमदर्शनमक्ष्णोर्मकुरतले जायते यस्मात् ॥०३१३-१ कोतिभारः समर्थानां किं दूरं व्यवसायिनां ।०३१३-२ को विदेशः सविद्यानां कः परः प्रियवादिनां ॥०३१४-१ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।०३१४-२ पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥०३१५-१ उत्साहसंपन्नमदीर्घसूत्रं०३१५-२ क्रियाविधिज्ञं व्यसनेष्वसक्तं ।०३१५-३ शूरं कृतज्ञं दृढसौहृदं च०३१५-४ लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥०३१६-१ कदर्थितस्यापि महाशयस्य०३१६-२ न शक्यते सर्गगुणः प्रमार्ष्टुं ।०३१६-३ अध्ॐउखस्यापि कृतस्य वह्नेर्-०३१६-४ नाधः शिखा यान्ति कदाचिदेव ॥०३१७-१ न्यायः खलैः परिहृतश्चलितश्च धर्मः०३१७-२ कालः कलिः कलुष एव परं प्रवृत्तः ।०३१७-३ प्रायेण दुर्जनजनः प्रभाविष्णुरेव०३१७-४ निश्चक्रिकः परिभवास्पदमेव साधुः ॥०३१८-१ व्रते विवादं विमतिं विवेके०३१८-२ सत्येतिशङ्कां विनये विकारं ।०३१८-३ गुणेवमानं कुशले निषेधं०३१८-४ धर्मे विरोधं न करोति साधुः ॥०३१९-१ वन्द्यः स पुंसं त्रिदशाभिनन्द्यः०३१९-२ कारुण्यपुण्योपचयक्रियाभिः ।०३१९-३ संसारसारत्वमुपैतै यस्य०३१९-४ परोपकाराभरणं शरीरं ॥०३२०-१ अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो०३२०-२ विपक्षादम्भोजादुपगतवतो वा मधुलिहः ।०३२०-३ अपर्याप्तः कोपि स्वपरपरिचर्यापरिचय-०३२०-४ प्रबन्धः साधूनामयमनभिसंधानमधुरः ॥०३२१-१ यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां०३२१-२ कामप्यन्तर्विदधति रुजं येप्यनुद्गीर्यमाणाः ।०३२१-३ तेभिप्रायाः किमपि हृदये कण्ठलग्नः स्फुरन्तो०३२१-४ यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ॥०३२२-१ उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं०३२२-२ सदा पान्थः पूषा गगनपरिमाणं कथयति ।०३२२-३ इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः०३२२-४ सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥०३२३-१ सागसेपि न कुप्यन्ति कृपया चोपकुर्वते ।०३२३-२ बोधं स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः ॥०३२४-१ पात्रं पवित्रयति नैव गुणान्क्षिणोति०३२४-२ स्नेहं न संहरति नापि मलं प्रसूते ।०३२४-३ दोषावसानरुचिरश्चलतां न धत्ते०३२४-४ सत्संगमः सुकृतसद्मनि कोपि दीपः ॥०३२५-१ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां०३२५-२ शिशुरपि रुषा सिंहीसूनः समाह्वयते गजान् ।०३२५-३ तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं०३२५-४ प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥०३२६-१ नमः खलेभ्यः क इवाथवा न ता-०३२६-२ नलं नमस्येदिह यो जिजीविषुः ।०३२६-३ विनैव ये दोषमृषिप्रकाण्डवन्-०३२६-४ नयन्ति शापेन रसातलं नरान् ॥०३२७-१ विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।०३२७-२ यदयं नकुलद्वेषी सकुलद्वेषी सदा पिशुनः ॥०३२८-१ अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।०३२८-२ तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥०३२९-१ विध्वस्तपरगुणानां भवति खलानामतीव मलिनत्वं ।०३२९-२ अन्तरितशशिरुचामपि सलिलमुचां मलिनिमाभ्यधिकः ॥०३३०-१ हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सूजनं ।०३३०-२ दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायं ॥०३३१-१ जीवनग्रहणे नम्रा गृहीत्वा पुनरुत्थिताः ।०३३१-२ किं कनिष्ठा उत ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥०३३२-१ सदा खण्डनयोग्याय तुषपूर्णाशयाय च ।०३३२-२ नमोस्तु बहुबीजाय खलायोलूखलाय च ॥०३३३-१ जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः ।०३३३-२ तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः ॥०३३४-१ अहो बत खलः पुण्यैर्मूर्खोप्यश्रुतपण्डितः ।०३३४-२ स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥०३३५-१ खलः सुजनपैशुन्ये सर्वतोक्षि शिर्ॐउखः ।०३३५-२ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥०३३६-१ सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः ।०३३६-२ जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते ॥०३३७-१ मायामयः प्रकृत्यैव रागद्वेषमदाकुलः ।०३३७-२ महतामपि मोहाय संसार इव दुर्जनः ॥०३३८-१ खचित्रमपि मायावी रचयत्येव लीलया ।०३३८-२ लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः ॥०३३९-१ खलेन धनमत्तेन नीचेन प्रभविष्णुना ।०३३९-२ पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि ॥०३४०-१ कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।०३४०-२ वचनशतमवचनकरे बुद्धिशतमचेतने नष्टं ॥०३४१-१ नष्टमपात्रे दानं नष्टं हितमफलबुद्ध्यवज्ञाने ।०३४१-२ नष्टो गुणोगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे ॥०३४२-१ दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो०३४२-२ गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु सक्तोत्तरः ।०३४२-३ अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायामयः०३४२-४ को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥०३४३-१ ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतं ।०३४३-२ वन्द्यास्तेसरलात्मानो दुर्जनाः सज्जना इव ॥०३४४-१ अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः ।०३४४-२ अन्यद्वचसि कण्ठेन्यदन्यदोष्ठपुटे स्थितं ॥०३४५-१ खलेषु सत्सु निर्याता वयमर्जयितुं गुणान् ।०३४५-२ इयं सा तस्करग्रामे रत्नक्रयविडम्बना ॥०३४६-१ वर्धेते स्पर्धयेवोभौ संपदा शतशाखया ।०३४६-२ अङ्कुरोवस्करोद्भूतः पुरुषश्चाकुलोद्भवः ॥०३४७-१ दह्यमानाः सुतीक्ष्णेन नीचाः परयशोग्निना ।०३४७-२ अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रचक्रिरे ॥०३४८-१ यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिं ।०३४८-२ तदसन्तो हसन्तोपि हेलयैव हि कुर्वते ॥०३४९-१ गुणदोषावशास्त्रज्ञः कथं विभजते जनः ।०३४९-२ किमन्धस्याधिकारोस्ति रूपभेदोपलब्धिषु ॥०३५०-१ प्रायः प्रकाशतां याति मलिनः साधुबाधया ।०३५०-२ नाग्रसिष्यत चेदर्कं कोज्ञास्यत्सिंहिकासुतं ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP