संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सुभाषितावलि| सुभाषित १०१ - १५० सुभाषितावलि सुभाषित १ - ५० सुभाषित ५१ - १०० सुभाषित १०१ - १५० सुभाषित १५१ - २०० सुभाषित २०१ - २५० सुभाषित २५१ - ३०० सुभाषित ३०१ - ३५० सुभाषित ३५१ - ४०० सुभाषित ४०१ - ४५० सुभाषित ४५१ - ५०० सुभाषित ५०१ - ५५० सुभाषित ५५१ - ६०० सुभाषित ६०१ - ६५० सुभाषित ६५१ - ७०० सुभाषित ७०१ - ७५० सुभाषित ७५१ - ८०० सुभाषित ८०१ - ८५० सुभाषित ८५१ - ९०० सुभाषित ९०१ - ९५० सुभाषित ९५१ - १००० सुभाषित १००१ - १०४० सुभाषितावलि - सुभाषित १०१ - १५० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : vallabhadevवल्लभदेवसंस्कृतसुभाषित सुभाषित १०१ - १५० Translation - भाषांतर ०१०१-१ मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं०१०१-२ कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः ।०१०१-३ भ्रूभङ्गैर्विनिवारितोपि बहुशो जल्पन्यशोदाग्रतो०१०१-४ गोपीभिः करपद्ममुद्रितमुखः पायात्स वः केशवः ॥०१०२-१ संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे०१०२-२ धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया ।०१०२-३ श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं०१०२-४ मा स्त्रीलंपट मां स्पृशेति गदितो गौर्या हरः पातु वः ॥०१०३-१ कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेहं०१०३-२ केकामेकां वद पशुपतिर्नैव दृश्ये विषाणे ।०१०३-३ मुग्धे स्थाणुः स चरति कथं जीवितेशः शिवाया०१०३-४ गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥०१०४-१ कोयं द्वारि हरिः प्रयाह्युपवनः शाखामृगस्यात्र किं०१०४-२ कृष्णोहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् ।०१०४-३ मुग्धेहं मधुसूदनः पिब लतां तामेव तन्मीवले०१०४-४ इत्थं निर्वचनीकृतो दयितया ह्रीतो हरिः पातु वः ॥०१०५-१ निर्लज्ज हरे किमिदं प्रमदानुगतः सदा परिभ्रमसि ।०१०५-२ मुग्धे त्वत्संपर्कात्प्रमदो भवतीति किं चित्रं ॥०१०६-१ शठ वर्णयामि भवतो नारीणामुपरिभूयसी प्रीतिः ।०१०६-२ प्रलपसि किमसंबद्धं कस्यारिषु विद्यते प्रेम ॥०१०७-१ व्यामोहयसि किमेवं रामासक्तिं ब्रवीमि भवदीयां ।०१०७-२ ज्येष्ठे भ्रातरि रामे न क्रियतां कथमिवासक्तिः ॥०१०८-१ किं मामेवं भ्रमयसि शोचामि व्यसनमेव भवदीयं ।०१०८-२ निष्कारणकुपितायां त्वयि कथय किमल्पकं व्यसनं ॥०१०९-१ वक्रवचनैरमीभिर्गोपवधूमिति नरुत्तरीकृत्य ।०१०९-२ मण्डलितगुरुपयोधरमुपगूढं पातु वः शौरेः ॥०११०-१ अयि संप्रसीद पार्वति शिवोपि तव पादयोर्निपतितोहं ।०११०-२ शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः ॥०१११-१ शिव इति यदि तव गदिते द्विगुणो रोषो भवाम्यहं स्थाणुः ।०१११-२ स्थानुरसि सत्यमेतच्चेतसि भवतो न किंचिदपि ॥०११२-१ त्यज रुषमवेहि मानिनि मामीश्वरमर्चितः त्रिभुवनस्य ।०११२-२ त्र्यम्बक यदीश्वरस्त्वं नग्नः किं धूलिधूसरितः ॥०११३-१ संप्रति किमत्र वक्ष्यसि पशुपतिरेषोस्मि पाण्डुरकपोले ।०११३-२ पशुपतिरेव न गणयसि युक्तायुक्तानि यस्मात्त्वं ॥०११४-१ मुग्धे भ्रमसि किमेवं सत्यमिमं मां भवं विजानीहि ।०११४-२ सत्यं भवोसि शठ हे येनातिविचित्ररूपोसि ॥०११५-१ पण्डितबादस्तव यदि लोकेहं त्र्यम्बको विदित एषः ।०११५-२ अम्बा ह्येकापि न ते प्रजल्पसि त्वं कुतस्तिस्रः ॥०११६-१ वादो महानिहैव हि तथा विजानीह्यनङ्गदहनं मां ।०११६-२ दग्धमिदमङ्गमङ्गं त्वया ममैवेदृशैश्चरितैः ॥०११७-१ संध्याप्रणामदोषाद्योनुनयति तं विजित्य पार्वत्या ।०११७-२ आलिङ्गितश्च सरभसमुरसा वै हरतु दुरितं वः ॥०११८-१ भव निःस्नेहस्त्वं मे न भवाम्येवं यथा त्वया गदितं ।०११८-२ निःस्नेहताभिलाषस्तव देवि कुतः समुत्पन्नः ॥०११९-१ कुसृतिभिरलमेताभिः किमर्थमुपरिस्थिता नदीयं ते ।०११९-२ का नरकपालमाला ममोपरिस्था गृहाणैताः ॥०१२०-१ जनमनुरागिणमेवं संतापयसि व्यलीककरणेन ।०१२०-२ तव नरकपालपङ्क्तिभिरवश्यमेवोपरि स्थेयं ॥०१२१-१ किं कुपितोसि त्यज रुषमपनयतां विग्रहं मया हि भवान् ।०१२१-२ सह विग्रहो भवत्या न जातु विघाटिष्यतेस्माकं ॥०१२२-१ गङ्गाविग्रहकलुषामिति शिववचनैर्निरुत्तरां गौरीं ।०१२२-२ परिहास्य योनुनिन्ये स करोतु शिवः शिवं भवतां ॥०१२३-१ विजये कुशलस्त्र्यक्षो न क्रीडितुमहमनेन सह शक्ता ।०१२३-२ विजये कुशलोस्मि न तु त्र्यक्षोक्षद्वयमिदं पाणौ ॥०१२४-१ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेभिमतः ।०१२४-२ कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि ॥०१२५-१ वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्रेषि ।०१२५-२ किं वसुभिन्नमत्ॐऊन्सुरासुरानेव पश्य पुरः ॥०१२६-१ चन्द्रग्रहणेन विना नास्मि रमे किं प्रवर्तयस्येवं ।०१२६-२ देव्यै यदि रुचितमिदं नन्दिन्नाह्वयतां राहुः ॥०१२७-१ हा राहौ निकटस्थे सितदंष्ट्रे भयकृति रतिः कस्य ।०१२७-२ यदि नेच्छसि तत्त्यक्तः संप्रत्येवैष हाराहिः ॥०१२८-१ आरोपयसि मुधा किं नाहमभिज्ञा त्वदङ्कस्य ।०१२८-२ दिव्यं वर्षसहस्रं स्थित्वैवं युक्तमभिधातुं ॥०१२९-१ इत्थं पशुपतिपेशलपाशकलीलाप्रयुक्तवक्रोक्तेः ।०१२९-२ हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥०१३०-१ अङ्गुल्या कः कवाटे प्रहरति कुटिलो माधवः किं वसन्तो०१३०-२ नो चक्री किं कुलालो नहि धरणिधरः किं प्रणीन्द्रो द्विजिह्वः ।०१३०-३ मुग्धे घोराहिमाथी किमुत खगपतिर्नो हरिः किं कपीन्द्र०१३०-४ इत्थं लक्ष्म्या कृतोसौ प्रतिहतवचनः पातुलक्ष्मीधवो वः ॥०१३१-१ खेदः किं खलु दयिते न वेत्सि रविमण्डलं जगद्विदितं ।०१३१-२ न क्रोधः कर्तव्यो जलचरमूर्ध्वं न जातु पश्यामः ॥०१३२-१ कोपस्त्यक्तुं योग्यो यस्य पिपासा न संभवति ।०१३२-२ संत्यज मानिनि मानं किं मानेनाधुना ममानेन ॥०१३३-१ किं तेन किल काव्येन मृद्यमानस्य यस्य ताः ।०१३३-२ उदधेरिव नायान्ति रसामृतपरम्पराः ॥०१३४-१ किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः ।०१३४-२ परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥०१३५-१ अप्रगल्भपदन्यासा जननीरागहेतवः ।०१३५-२ सन्त्येके बहुलालापाः कवयो बालका इव ॥०१३६-१ किं तेन काव्यमधुना प्लाविता रसनिर्झरैः ।०१३६-२ जडात्मानोपि नो यस्य भवन्त्यङ्कुरितान्तराः ॥०१३७-१ नवोर्थो जातिरग्राम्या श्लेषोक्लिष्टः स्फुतो रसः ।०१३७-२ विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करं ॥०१३८-१ मुखमात्रेण काव्यस्य करोत्यहृदयो जनः ।०१३८-२ छायामछामपि श्यामां राहुस्तारापतेरिव ॥०१३९-१ बोद्धार्ॐअत्सरग्रस्ता विभवः स्मयदूषिताः ।०१३९-२ अबोधोपहताश्चान्ये जीर्नमङ्गे सुभाषितं ॥०१४०-१ पदद्वयस्य संधानं कर्तुमप्रतिभाः खलाः ।०१४०-२ तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः ॥०१४१-१ क्व दोषोत्र मया लभ्य इति संचिन्त्य चेतसा ।०१४१-२ खलः काव्येषु साधूनां श्रवणाय प्रवर्तते ॥०१४२-१ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः ।०१४२-२ स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः ॥०१४३-१ केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् ।०१४३-२ कस्याप्या हृदयाद्वक्त्रे वल्गु वल्गन्ति सूक्तयः ॥०१४४-१ बहूनि नरशीर्षाणि ल्ॐअशानि बृहन्ति च ।०१४४-२ ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकं ॥०१४५-१ साध्वीव भारती भाति सूक्तिसद्व्रतचारिणी ।०१४५-२ ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः ॥०१४६-१ ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः ।०१४६-२ यैर्निबद्धानि काव्यानी ये वा काव्येषु कीर्तिताः ॥०१४७-१ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।०१४७-२ भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥०१४८-१ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।०१४८-२ विध्यमानश्रुतेर्मा भूहुर्जनस्य कथं व्यथा ॥०१४९-१ यास्यति सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा ।०१४९-२ उत्पादितयापि कविस्ताम्यति कथया दुहित्रेव ॥०१५०-१ अवसरपठितं सर्वं सुभाषितत्वं प्रयात्पसूक्तमपि ।०१५०-२ क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP