संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित ६८१ - ७०० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित ६८१ - ७०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ६८१ - ७०० Translation - भाषांतर ४२. कलहान्तरितासखीवचनम्अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले प्रेयसि कृतः ।समाकृष्टा ह्येते विरहदहनोद्भासुरशिखाः स्वहस्तेनाञ्गारास्तदलमधुनारण्यरुदितैः ॥६८१॥ अमरोः (अमरु ६६; Sभ्व्११७०; सूक्तिमुक्तावलि ५६.९, सु.र. ६५९)मया प्रागेवोक्तं कलहवति मा त्याजय गुणंभयेस्तु प्रेयांस्ते स्वकरवशगं मुञ्चसि मुधा ।अवाप्तो वैलक्ष्यं शर इव पुनर्नैति तदयंस्वयं गत्वानेयः प्रियसखि कराकर्षविधिना ॥६८२॥आचार्यगोपीकस्य । श्रवसि न कृतास्ते तावन्तः सखीवचनक्रमाश्चरणपतितोङ्गुष्ठाग्रेणाप्ययं न हतो जनः ।कठिनहृदये मिथ्यामौनव्रतव्यसनादयंपरिजनपरित्यागोपायो न मानपरिग्रहः ॥६८३॥कस्यचित। (सु.र. ६८७)जघनमुन्नतमाकुलमेखलंमुखमपाङ्गविसर्पिततारकम् ।इदमपास्य गतो यदि निर्घृणोननु वोरोरु स एव हि वञ्चितः ॥६८४॥कस्यचित। (स्व११६८)सखि न गणिता मानोन्मेषात्प्रियप्रणयक्षतिःपरमिह सखीवर्गस्येदं वचो न पुरस्कृतम् ।उदयशिखरारूढे नायं कलानिधिना बलात्किमिति शिथिलो मानग्रन्थिः करैर्न करिष्यते ॥६८५॥जलचन्द्रस्य । ४३. गोत्रस्खलितम्पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।स्फुटो रेखान्यासः कथमपि स तादृक्परिणतोगता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥६८६॥अमरोः (अमरु ४६)कृथा मैवं चेतः कथमपि मनागस्खलदितःप्रमादाद्वाणीयं किमिह करवाणि प्रणयिनि ।वृथैवायं ग्रन्थिर्झणझणितमञ्जीररणितंततस्त्वत्पादाब्जं यदिदमवतंसो भवतु मे ॥६८७॥नरसिंहस्य ।अर्धोक्ते भयमागतोऽसि किमिदं कण्ठश्च किं गद्गदश्चाटोरस्य न च क्षणोऽयमनुपक्षिप्तेयमास्तां कथा ।ब्रूहि प्रस्तुतमस्तु संप्रति महत्कर्णे सखीनां मुखैस्तृप्तिर्निर्भरमेभिरक्षरपदैः प्रागेव मे संभृता ॥६८८॥अभिनन्दस्य । (सूक्तिमुक्तावलि ५७.२६)कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम् ।असहनसखीश्रोत्रप्राप्तिं विशङ्क्य ससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥६८९॥कस्यचित। (आस्६३)दूरादेत्य दृशा निवार्य च सखीरुत्क्षिप्तदोःकङ्कणश्रोणिः सप्रणया पिधाय नयनद्वन्द्वं तवावस्थिता ।ज्ञातासीति विपक्षनाम गदता सम्भाविता सा त्वयाजीवत्येव यदि त्वरां त्यज ननु त्वामेव याचिष्यते ॥६९०॥आचार्यगोपीकस्य ।४४. मानिनीबाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतंखेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यतेनन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥६९१॥अमरोः (अमरु ५३; द.रू. २.१७; स्व१६१४, शा.प. ३५५४, सूक्तिमुक्तावलि ५७.१, सु.र. ६५३)एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद्दूरतस्ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः ।आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिकेकान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥६९२॥तस्यैव (अमरु १७, सु.र. ६३९, स्व१५८३, शा.प. ३५३४, सूक्तिमुक्तावलि ५५.६, द.रू. २.१९, ऱस्क्२.६७ग्)आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।मय्यालापवति प्रतीपवचनं सख्या सहाभाषतेतस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥६९३॥तस्यैव (स्व. १५९०, शा.प. ३५३७, सूक्तिमुक्तावलि ५५.११)धूमायते मनसि मूर्च्छति चेष्टितेषुसंदीप्यते वपुषि चेतसि जाज्वलीति ।वक्त्रे परिस्फुरति वाचि विजृम्भतेऽस्याःकान्तावमानजनितो बहुमानवह्निः ॥६९४॥कस्यचित।बाष्पासारः कथयति भृशं गण्डयोः पाण्डिमानंश्वासो भूम्ना स्तनकलसयोः पीनतामातनोति ।चित्तौत्सुक्यं किमपि कुरुते क्षाममङ्गं तदस्यास्तारुण्यस्य प्रसमधिकं मन्युराविष्करोति ॥६९५॥कस्यचित।४५. उदात्तमानिनीन मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलतांन नेत्राब्जं रज्यत्यनुषजति न भ्रूरपि भिदाम् ।इदं तु प्रेयस्याः प्रथयति रुषोऽन्तर्विलसितंशतेऽपि प्रश्नानां यदभिदुरमुद्रोधरपुटः ॥६९६॥वैद्यधन्यस्य । (सु.र. ६८८)ईर्ष्याप्रस्फुरिताधरोष्ठरुचिरं वक्त्रं न मे दर्शितंसाधिक्षेपपदा मनागपि गिरो न श्राविता मुग्धया ।मद्दोषैः सरसैः प्रतापितमनोवृत्त्यापि कोपोऽनयाकाञ्च्या गाढतरावबद्धवसनग्रन्थ्या समावेदितः ॥६९७॥काश्मीरनारायणस्य । (स्व१५९१)भ्रूबेधो न कृतः कृता मुखशशिच्छायापि नायादृशीकालुष्येण न लम्भिताः कलगिरः कोपस्त्वतो लक्ष्यते ।यत्प्रागल्भ्यमपास्य सम्प्रति नवीभूतं पुनर्लज्जयायश्चायं विनयादरः प्रणयितां मुक्त्वा महान्वर्तते ॥६९८॥कस्यचित।आमृद्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पैर्अन्तर्ध्यानात्त्रुटति च दृशोर्यद्बहिर्लक्ष्यलाभः ।पक्ष्मोत्क्षेपव्यतिकरहतो यच्च बाष्पस्तदेते भावाश्चण्डि त्रुटितहृदयं मन्युमावदेयन्ति ॥६९९॥कस्यचित।यद्यपि श्रियमाधत्ते भूषणानादरस्तव ।तथाप्यन्तर्गतं मन्युमयं कथयतीव मे ॥७००॥कस्यचित। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP