संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित ५८१ - ६०० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित ५८१ - ६०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ५८१ - ६०० Translation - भाषांतर २२. स्त्रीमात्रम्यासां सत्यपि सद्गुणानुसरणे दोषानुबन्धः सदायाः प्राणान्वरमर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये ।अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मकस्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः ॥५८१॥बिभोकस्य । (सा.द. ३.११६, सु.र.को. ३८४, शा.प.. ३०७९)दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥५८२॥राजशेखरस्य । (सु.र. ३९५, वि.शा.भ. १.२, स्व. १३०९, शा.प. ३०७८, सूक्तिमुक्तावलि ३७.२)सोऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनंस्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर्गुणः कार्मुके ।एतत्साधन उत्सहेत स जगज्जेतुं कथं मन्मथस्तस्यामोघममूर्भवन्ति नहि चेदस्त्रं कुरङ्गीदृशः ॥५८३॥अमरसिंहस्य । (सु.र. ४०३)यन्नामापि सुखाकरोति कलयत्युर्वीमपि द्यामिवप्राप्तिर्यस्य यदङ्गसङ्गविधिना किं यन्न निह्नूयते ।अन्तः किं च सुधासपत्नमनिशं जागर्ति यद्रागिणांविस्रम्भास्पदमद्भुतं किमपि तत्कान्तेति तत्त्वान्तरम् ॥५८४॥कस्यचित। (सु.र. ४३५)व्यर्थं विलोक्य कुसुमेषुमसुव्ययेऽपिगौरीपतीक्षणशिखिज्वलितो मनोभूः ।रोषाद्वशीकरणमस्त्रमुपाददे यत्सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥५८५॥मनोविनोदस्य । (सु.र. ४४१)२३. खण्डितातव कितव किमाभिर्वाग्भिरभ्यर्णचूतक्षितिरुहि कलकण्ठालापमाकर्णयन्ती ।रजनिमहमलज्जाजागरं पांशुलानाम्उषसि विघस न त्वां पाणिनापि स्पृशामि ॥५८६॥धर्मयोगेश्वरस्य ।सार्धं मनोरथशतैस्तव धूर्त कान्तासैव स्थिता मनसि कृत्रिमभावरम्या ।अस्माकमस्ति न हि कश्चिदिहावकाशस्तस्मात्कृतं चरणपातविडम्बनाभिः ॥५८७॥ रुद्रटस्य । (शृ.ति. १.४१द्; शा.प. ३५६३; सूक्तिमुक्तावलि ५७.१६; स.क.आ.ं ५८७; पद्या.. २१८)पादान्ते पतितः प्रियः पततु न प्रव्यक्तबाष्पोद्गमः संजातः स न जायतां त्वमधुना तद्वक्त्रमत्रागता ।एकाहं तटिनीतटान्तविटपागारे यदा जागरंनासीत्कापि सखी तदा घनतः स्तोमावृतायां निशि ॥५८८॥आचार्यगोपीकस्य ।किं ते बाष्पस्तिरयति दृशो किं सकम्पोऽधरस्तेगण्डाभोगः कथय किमु ते कोपकेलीकषायः ।निर्यर्यादे मम हि रजनी जागरक्लेशराशेर्एकः साक्षी स खलु मुरलातीरवानीरकुञ्जः ॥५८९॥वासुदेवस्य ।ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचामनस्विन्या रूढप्रणयकलहाविष्ठमनसा ।अहो चित्रं चित्रं स्फुटमिति लपन्त्याश्रुकलुषंरुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५९०॥अमरुकस्य । (द.रू. ४.१७, स्व१३२४)२४. अन्यरतिचिह्नदुःखिताहंहो कान्त रहोगतेन भवता यत्पूर्वमावेदितंनिर्भिन्ना तनुरावयोरिति मया तज्ज्ञातमद्य स्फुटम् ।कामिन्या स्मरवेदनाकुलहृदा यः केलिकाले कृतःसोऽत्यर्थं कथमन्यथा तुदति मामेष त्वदोष्ठव्रणः ॥५९१॥कस्यचित। (सु.र. ६२४)अयं धूर्तो मायाविनयमधुरादस्य वचसःसखि प्रत्येषि त्वं प्रकृतिसरले पश्यसि न किम् ।कपोले यल्लाक्षाबहलरसरागप्रणयिनीम्इमां धत्ते मुद्रामनतिचिरवृत्तान्तपिशुनाम् ॥५९२॥सोल्होकस्य । (सु.र. ६८५)किमेताः स्वच्छन्दं वितथशपथोक्तीर्वितनुषे भजेथास्तामेव प्रियसहचरीं चित्तमधुराम् ।यया याच्ञानम्रे तव शिरसि सौभाग्यगरिमप्रशस्तिर्न्यस्तेयं चरणनखलाक्षारसमयी ॥५९३॥वामदेवस्य ।लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गलेवक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः ।दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसोलीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥५९४॥अमरोः (अमरु ५३ (८८); शा.प. ३७४०, Sभ्२२१५; सूक्तिमुक्तावलि ८२.१७; पद्या.. २२२; दशरूपक २.६)निद्राच्छेदकषायिते तव दृशौ दृष्टिर्ममालोहिनीवक्षो मुष्टिभिराहतं तव हृदि स्फूर्जन्ति मे वेदनाः ।आश्चर्यं नवकुन्दकुड्मलशिखा तीक्ष्णैरमीभिर्नखैःप्रत्यङ्गं तव जर्जरा तनुरहं जाता पुनः खण्डिता ॥५९५॥उमापतिधरस्य ।२५. लक्षितविरहिणीकुचौ धत्तः कम्पं निपतति कपोलः करतलेनिकामं निःश्वासः सकलमलकं ताण्डवयति ।दृशः सामर्थ्यानि स्थगयति मुहुर्बाष्पसलिलंप्रपञ्चोऽयं किञ्चित्तव सखि हृदिस्थं कथयति ॥५९६॥अमरसिंहस्य । (सु.र. ७५०)आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परानासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः ।मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति तेतद्ब्रूयाः सखि योगिनी किमसि भोः किं वियोगिन्यपि ॥५९७॥राजशेखरस्य । (पद्या. २३८, सु.र. ७०३ ऱजसेखर, उ.नी. १३.७५) यत्तालीदलपाकपाण्डुवदनं यन्नेत्रयोर्दुर्दिनंगण्डः पाणिनिषेवणाच्च यदयं सङ्क्रान्तपञ्चाङ्गुलिः ।गौरी क्रुध्यतु वर्तते यदि न ते तत्कोऽपि चित्ते युवाधिक्धिक्त्वां सहपांशुखेलनसखीवर्गेऽपि यन्निह्नवः ॥५९८॥तस्यैव । (वि.शा.भ. २.१४, सूक्तिमुक्तावलि ३९.२, सु.र. ७१२)यत्सम्भाषणलालसेव कुरुषे वक्त्रेन्दुमर्धोन्नतंधत्से बाहुलतार्गलां कुचतटे निष्कान्तिभीत्येव यत।किं वा मन्त्रयते जनोऽयमिति यत्सर्वत्र शङ्काकुलातज्जाने हृदि कोऽपि तिष्ठति युवा प्रौढश्च गूढश्च ते ॥५९९॥शिल्हणस्य । यद्दौर्बल्यं वपुषि महती सर्वतश्चास्पृहा यन्नासालक्ष्यं यदपि नयनं मौनमेकान्ततो यत।एकाधीनं कथयति मनस्तावदेषा दशा तेकोसावेकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥६००॥लक्ष्मीधरस्य । (सु.र. ७१५) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP