संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित ११६१ - ११८० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित ११६१ - ११८० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ११६१ - ११८० Translation - भाषांतर १३८. नायिकानिष्क्रमणम्विरामे यामिन्या उपकुचयुगोरूपजघनंसमालम्ब्य व्यस्ताञ्चलमलसमुत्थाय शयनात।हसित्वा संमुग्धं मधुरमवलोक्याथ शिथिलैर्भुजैर्निर्यान्तीभिः सुदृढमुपगूढः प्रियतमः ॥११६१॥वासुदेवज्योतिषः ।विरामे यामिन्या उपकुचयुगो रूपजघनंसमालम्ब्य व्यस्तां चलमलसमुत्थाय शयनात।हसित्वा संमुग्धं मधुरमवलोक्याथ शिथिलैर्भुजैर्निर्यान्तीभिः सुदृढमुपगूढः प्रियतमः ॥११६२॥कस्यापि ।प्रत्यग्रदंशजनितश्वयथून्सलीलम्अम्भोजकोमलकराङ्गुलिकोटिभागैः ।बिम्बाधरान्मधुरसीत्कृति संस्पृशन्त्यःकान्ताः प्रयान्ति दयितान्तिकतोऽधुनैताः ॥११६३॥रत्नाकरस्य ।विदलितकुचपाणिजाङ्कलेखादरभिदुरोरुभरालसा कृशाङ्गी ।उषसि निधुवनोपभोगजिह्मा यदि गृहमेति सखि बलाबलेन ॥११६४॥योगोकस्य ।निर्यान्त्या रतिवेश्मनः परिणतप्रायां विलोक्य क्षपांगाढालिङ्गनचुम्बनानि बहुशः कृत्वाप्यसंतुष्टया ।एकं भूमितले निधाय चरणं तल्पे प्रकल्प्यापरं तन्वङ्ग्या परिवर्तिताङ्गलतया प्रेयांश्चिरं चुम्बितः ॥११६५॥कस्यापि । (स्व२१९१, शा.प. ३७२८)१३९. रतप्रशंसायत्नात्संगममिच्छतोः प्रतिदिनं दूतीकृताश्वासयोर्अन्योन्यं परितुष्यतोरवसरप्राप्तिस्पृहां तन्वतोः ।संकेतोन्मुखयोश्चिरात्कथमपि प्राप्ते क्रमाद्दर्शनेयत्सौख्यं नवरक्तयोस्तरुणयोस्तत्केन साम्यं व्रजेत॥११६६॥भट्टचूलितकस्य ।स स्वर्गादपरो विधिः स च सुधासेकः क्षणान्नेत्रयोस्तत्साम्राज्यमखण्डितं तदपरं प्रेम्णः प्रतिष्ठास्पदम् ।यद्बाला बलवन्मनोभवभयभ्रश्यत्त्रपं सत्रपातत्कालोचितनर्मकर्म दयितादम्यास्यमभ्यस्यति ॥११६७॥कस्यापि । (सु.र. ५६४)सव्रीडार्धनिरीक्षणं यदुभयोर्यद्दूतिकाप्रेषणंचाद्यश्वो भविता समागम इति प्रीत्या प्रमोदश्च यः ।प्राप्ते चैव समागमे सरभसं यच्चुम्बनालिङ्गनान्य्एतत्कामफलं तदेव सुरतं शेषः पशूनामिव ॥११६८॥कस्यापि । (स्व२२३७, शा.प. ३७८०, सु.र. १६५४)सीत्कारवन्ति दरमीलितलोचनानिरोमाञ्चमुञ्चि मकरकेतुनिकेतनानि ।एणीदृशां मकरकेतुनिकेतनानि वन्दामहे सुरतविभ्रमचेष्टितानि ॥११६९॥कस्यचित। (सु.र. ५८२)हारावली त्रुटति न प्रणयः प्रियाणाम्आखण्ड्यतेऽधरदलं न मनोभवाज्ञा ।यस्मिन्विलेपनमपैति न चानुरागस्तन्मोहनं न खलु मैथुनमन्यदस्मात॥११७०॥केशटस्य ।१४०. सखीनां मिथः कथा कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्वासश्च श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।एतावत्सखि वेद्मि केवलमहो तस्याङ्गसङ्गे पुनःकोऽसौ कास्मि रतं च किं कीदृशमिति स्वल्पापि मे न स्मृतिः ॥११७१॥विकटनितम्बायाः । (स.क.आ. ५.४४, द.रू.. उन्देर्२.१८, स्व२१४७, शा.प. ३७४७, सूक्तिमुक्तावलि ८६.१७, सु.र. ५७२)धन्यासि यत्कथयसि प्रियसङ्गमेऽपिनर्मस्मितं च वदनं च रसं च तस्य ।नीवीं प्रति प्रणिहिते तु करे प्रियेणसख्यः शपामि यदि किंचिदपि स्मरामि ॥११७२॥विद्यायाः । (सा.द. उन्देर्३.७३, शा.प. ३७६, सु.र. ५७४)आत्ते वाससि रोद्धुमक्षमतया दोःकन्दलीभ्यां स्तनौ तस्योरःस्थलमुत्तरीयविषये सख्यो मया चिन्तितम् ।श्रोणीं तस्य करेऽधिरोहति पुनर्व्रीडाम्बुधौ मामथो मज्जन्तीमुदतारयन्मनसिजो देवः स मूर्च्छागुरुः ॥११७३॥बल्लणस्य । (सु.र. ५६८)हर्षाश्रुपूरितविलोचनया मयाद्यकिं तस्य तत्सखि निरूपितमङ्गमङ्गम् ।रोमाञ्चकञ्चुकतिरस्कृतदेहया वाज्ञातानि तानि परिरम्भसुखानि किं वा ॥११७४॥अचलदासस्य । (सु.र. ५९६, अचलस्य)मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता नवमञ्जरीति ।अन्यापि किं न सखि भाजनमीदृशीनांवैरी न चेद्भवति वेपथुरन्तरायः ॥११७५॥ केशटस्य । (अमरु ५५; सु.र. १६४०; सूक्तिमुक्तावलि ८६.१४; Sद्३.१०५ मद; दश २.२२, एत्च्.; पद्या. ३०२, दामोदरस्य; भ.र.सि. २.४.१६५)शुकोक्तिव्रीडाप्रयच्छाहारं मे यदि तव रहोवृत्तमखिलंमया वाच्यं नोच्चैरिति गृहशुके जल्पति शनैः ।वधूवक्त्रं व्रीडाभरनमितमन्तर्विहसितंहरत्यर्धोन्मीलन्नलिनमलिनावर्जितमिव ॥११७६॥डिम्बोकस्य । (सूक्तिमुक्तावलि ७७.१२, सु.र. ६२२)प्रत्यूषे गुरुसन्निधौ गृहशुके तत्तद्रहोजल्पितंप्रस्तोतुं परिहासकारिणि पदैरर्धोदितैरुद्यते ।क्रीडाशारिकया निलीय निभृतं त्रोतुं भयार्तां वधूंप्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः ॥११७७॥मार्जारस्य । (सु.र. ६३१)त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणंबिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् ।इत्यक्षुण्णमनोज्ञचाटुजनितव्रीडः पुरन्ध्रीजनाधन्यानां भवनेषु पञ्जरशुकैराहारमभ्यर्थ्यते ॥११७८॥वाक्कूटस्य । (सु.र. ४०६)उषसि गुरुसमक्षं लज्जमाना मृगाक्षीर्अतिरुतमनुकर्तुं राजकीरे प्रवृत्ते ।तिरयति शिशुलीलानर्तनच्छद्मतालप्रचलवलयमालास्फालकोलाहलेन ॥११७९॥भवभूतेः । (सु.र. ६१६)दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः ।कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटेव्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥११८०॥ अमरोः । (अमरु १५, Kउवल्१७३, सु.र. ६२१, Sभ्२२१४, शा.प. ३७४३) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP