संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित १३२१ - १३४०

शृङ्गारप्रवाहः - सुभाषित १३२१ - १३४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१७०. शरत्खञ्जनः

दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्तूः
कण्टेनोच्चैर्मदकलरुतस्तोकवाचालचञ्चुः ।
हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः
कंचित्कालं नटति निकटे खञ्जरीटः प्रियायाः ॥१३२१॥

मनोविनोदस्य । (सु.र. २७४)

मुहुरलसितपुच्छप्रेङ्खितैः प्रेयसीनां
मनसि मनसिजस्य प्रीतिमुद्द्योतयन्ति ।
नवकनबकपत्रच्छत्रसूनानुकूल
स्थलकवलितकीटाः खञ्जरीटाश्चरन्ति ॥१३२२॥

अपिदेववामनदेवयोः ।

अयं मेघव्यूहे बलिनि परिपन्थिन्यपसृते
शरज्जन्याः स्वैरं हसितमिव हर्षादविरतम् ।
पयःपूरभ्रंशक्रमजनितसोपानसिकते
नदीतीरे धीरं चरति विशदः खञ्जनगणः ॥१३२३॥

सुवर्णस्य ।

संप्रति दिगङ्गनानां
शरन्निराकृतघनान्धपटलानाम् ।
खञ्जनकटाक्षपातैः
कर्बुरितं गगनमाभाति ॥१३२४॥

कस्यचित।

मधुरमधुरं कूजन्नग्रे पतन्मुहुरुत्पतन्न्
अविरलचलत्पुच्छः स्वेच्छं विचुम्ब्य चिरं प्रियाम् ।
इह हि शरदि क्षीवः पक्षौ विधूय मिलन्मुदा
मदयति रहः कुञिजे मञ्जुस्थलीमधि खञ्जनः ॥१३२५॥

जयदेवस्य ।
१७१. हेमन्तः

यात्रालग्नं शिशिरमरुतां बान्धवः कुन्दलक्ष्याः
कालं सोऽयं कमलसरसां सम्पदः कालभूतः ।
निद्राव्याजाज्जडिमविधुरा यत्र गाढे हिमर्तौ
रामाः कण्ठग्रहमशिथिलं प्रेयसामाद्रियन्ते ॥१३२६॥

कस्यचित। (सु.र. २९३)

गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमाना
गोपान्गोगर्भिनीनां सुखयति बहलो रात्रिरोमन्थबाष्पः ।
प्रातः पृष्ठावगाढप्रथमरविरुचिर्ग्रामसीमोपशल्ये
शेते सिद्धार्थपुष्पच्छदनिचितहिमक्लिन्नपक्ष्मा महोक्षः ॥१३२७॥

योगेश्वरस्य । (सु.र. २९७)

दिग्भागेषु हिमावृतिः प्रतिदिनं सान्द्रापि सान्द्रायते
प्रालेयैः पिहितप्रभो दिनपतिर्मन्दोऽपि मन्दायते ।
भर्तुर्मान्द्यशुचेव हन्त दिवसः क्षीणोऽप्ययं क्षीयते
तत्संकोचनिरर्गलेव रजनी दीर्घापि दीर्घायते ॥१३२८॥

लक्ष्मीधरस्य ।

पाकं यत्र न याति पाणिजभ्दिआ यत्रातिशीतार्तिभिर्
मानच्छेदनिवेदनं रतिकलावृत्तिक्षमा यत्क्षपा ।
जारन्यस्तरदच्छदव्रणसमाधानाय यन्मारुतस्
तेऽमी संततकूटक्ÿप्तकुलटामोदा मुदे वासराः ॥१३२९॥

आचार्यगोपीकस्य ।

उद्ग्रीवा विवृतारुणास्यकुहरास्तृष्णाचलत्तालवः
पक्षासम्भववेपमानतनवः प्रोड्डीय किञ्चिन्मुहुः ।
अन्योन्याक्षमिणः शरारिशिशवः प्रातर्नदीरोधसि
प्रालेयाम्बु पिबन्ति वीरणदलद्रोणी प्रणालीस्रुतम् ॥१३३०॥

कस्यचित। (सु.र. ११५१)

१७२. हेमन्तरात्रिः

अन्तर्मन्युविभिन्नदीर्घरसितप्रोद्भूतकण्ठव्यथैर्
आक्रुष्टास्तटिनीषु कोकमिथुनैर्यावन्निशीथं मिथः ।
शीतोज्जागरजम्बुकौघमुखरग्रामोपकण्ठस्थलाः
कृच्छ्रेणोपरमन्ति पान्थगृहिणीचिन्तायता रात्रयः ॥१३३१॥

अभिनन्दस्य ।

विश्रामं भज तालवृन्त सुमनोवैकक्षक क्षम्यतां
श्रीखण्डद्रव वन्दितोऽसि सुमनोहाराः पुनर्दर्शनम् ।
दीपे संप्रति कर्मसाक्षिणि परीरम्भाय वामभ्रुवाम्
एकोऽपि प्रभवन्ति हैमननिशायामा निशायामिनः ॥१३३२॥

शुभाङ्कस्य ।

प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृतिविदलत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ।
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामियामा यमसदनसमा यामिनी याति यूनाम् ॥१३३३॥

कस्यचित। (स्व१८४३, शा.प. ३९२४)

विलासिनां भाग्यविजृम्भितेन
यस्मिन्द्वयं साधु कृतं विधात्रा ।
यदङ्गनानां विपुलस्तनोष्मा
व्यधायि दीर्घाश्च कृता रजन्यः ॥१३३४॥

पुरुषोत्तमदेवस्य ।

हिमधवलकान्तिकेशी मन्दद्युतितारका बृहत्तिमिरा ।
द्विगुणीभूता रजनी वृद्धेव शनैः शनैर्याति ॥१३३५॥

कस्यचित। (स्व१८३२, शा.प. ३९१९, सूक्तिमुक्तावलि ६३.६)

१७६. हेमन्तहालिकः

लघुनि तृणकुटीरे क्षेत्रकोणे यवानां
नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात्
स्तनकलशमहोष्माबद्धरेखस्तुषारः ॥१३३६॥

भवभूतेः (द.रू. ४.२२, स्व१८४०, सु.र. २९९, शा.प. ३९२२, सूक्तिमुक्तावलि ६३.१५)

इदानीमर्घन्ति प्रथमकलमच्छेदमुदिता
नवीनान्धस्थालीपरिमलमुचो हालिकगृहाः ।
उदञ्चद्दोर्लीलारणितवलयाभिर्युवतिभिर्
गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुसलाः ॥१३३७॥

योगेश्वरस्य । (सु.र. ३१४)

भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्गीयते
स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः ।
इत्यालोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः
पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥१३३८॥

तस्यैव (स.क.आ. ३.८, सु.र. ३०५, शा.प. ५८१, सूक्तिमुक्तावलि ९६.२)

आहूतो हालिकेनाश्रुतमिव वचनं तस्य कृत्वा क्षणैकं  
तिष्ठासुस्तब्धरोमा कथमपि विटपं निःसमीरं विहाय ।
दोर्भ्यामावृत्य वक्षःस्थलमलसगतिर्दीनपादप्रचारः  
शीत्कारोत्कम्पभिन्नस्फुटदधरपुटः पामरः क्षेत्रमेति ॥१३३९॥

कस्यचित।

क्षेत्रोपान्तपलायमानशशकद्वन्द्वं निरीक्ष्यापरान्
आहूयातिरसेन कर्षकजनानारब्धकोलाहलाः ।
हस्तावापितदात्ररज्जुलगुडैर्वृद्धैरवृद्धैः सह
त्यक्त्वा शालिचिकर्तिषामित इतो धावन्त्यमी पामराः ॥१३४०॥

कस्यचित। (सु.र. ३००)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP