संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित ९८१ - १००० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित ९८१ - १००० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ९८१ - १००० Translation - भाषांतर १०२. चन्द्रोपालम्भःयस्तापः शमितो मृगाङ्क जगतां या म्लानिरुन्मूलितायामिन्या गगनस्य याः स्मृतिपथं नीतास्तमोवीचयः ।यत्क्षामत्वमपाकृतं जलनिधेर्यः कैरवाणां हृतोमोहस्तत्कथमत्र दुःखिनि जने सर्वं समावेशितम् ॥९८१॥उमापतिधरस्य ।प्रियविरहामहुष्ण्यान्मुर्मुरामङ्गलेखामयि हतकहिमांशो मा स्पृश क्रीडयापि ।इह हि तव लुठन्तः प्लोषभावं भजन्तेदरजरठमृणालीकाण्डमुग्धा मयूखाः ॥९८२॥राजशेखरस्य । (वि.शा.भ. ३.२३, सु.र. ७१४)सूतिर्दुग्धसमुद्रतो भगवतः श्रीकौस्तुभौ सोदरौसौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः ।स्पर्धा ते वदनाम्बुजैर्मृगदृशां तत्स्थाणुचूडामणेहंहो चन्द्र कथं नु मुञ्चसि मयि ज्वालामुचो वेदनाः ॥९८३॥कस्यचित। (वि.शा.भ. ३.१३, सु.र. ७९९)मुखरय स्वयशो नवडिण्डिमंजलनिधेः कुलमुज्ज्वलयाधुना ।अपि गृहाण वधूवधपौरुषंहरिणलाञ्छन मुञ्च कदर्थनाम् ॥९८४॥कविपण्डितश्रीहर्षस्य । (ण्च्४.५३)आश्वासयति काकोऽपि दुःखितां पथिकाङ्गनाम् ।त्वं चन्द्रामृतजन्मापिदहसीति किमुच्यताम् ॥९८५॥ काश्मीरकमहामनुष्यस्य । (स्व१९५६)१०३. मदनोपालम्भः ।नाथानङ्ग निदेशवर्तिनि जने कस्तेऽभ्यसूयारसश्चापारोपितसायकस्य भवतः को नाम पात्रं रुषः ।विश्राम्यन्तु शरा निषीदतु धनुः शिञ्जापि संयम्यतांमाकन्दाङ्कुरकोमले मनसि नः को बाणमोक्षग्रहः ॥९८६॥गोवर्धनस्य ।देवेन प्रथमं जितोऽसि शशभृल्लेखभृतानन्तरंबुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे ।त्व्यक्त्वा तान्बत हंसि मामपि कृशां बालामनाथां स्त्रियंधिक्त्वा धिक्तव पौरुषं धिगुदयं धिक्कार्मुकं धिक्शरान॥९८७॥विद्यायाः । (सु.र. ७०१)आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च तेनिर्दग्धं विरहाग्निना वपुरिदं तैरेव सार्धं मम ।कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनोदुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥९८८॥राजशेखरस्य । (सु.र. ७७१)हरसि हृदयं वेगादन्तः प्रविश्य शरीरिणाम्अथ जनयसि क्रीडाहेतोर्विकारपरम्पराम् ।वितरसि मुहुर्मोहं पश्चान्निकृन्तसि जीवितंकितव किमियं चेष्टा लोके तवार्थजनोचिता ॥९८९॥गोशरणस्य ।कष्टं हृदि ज्वलति शोकमयो ममाग्निस्ते चक्षुषी च विरहज्वरजागरुके ।एतन्मनो भ्रमति विष्वगसूंस्तथापि त्वं पश्यतोहर इव स्मर हर्तुकामः ॥९९०॥कस्यचित।१०४. मेघोपालम्भःपाथोवाह किमम्बुभिः प्रियतमानेत्राम्बुसिक्ता महीकिं गर्जैः सुतनोरमन्दरुदितैरुज्जागरा भूरपि ।वातैः शीकरिभिः किमिन्दुवदनाश्वासैः सबाष्पैरलंसर्वं ते पुनरुक्तमेतदपुनःपूर्वा पुनर्मद्व्यथा ॥९९१॥देवबोधस्य । नो रुद्धं गगनं पयोदपटलै रुद्धप्रियावाञ्छितंनो शीर्णाः कमलाकराः कृशतनोः शीर्णा मनोवृत्तयः ।नो पूरः सरितामपूरि दयितानेत्राम्बुकल्लोलिनीधिग्धिङ्मारकदर्थितां व्यथयता पाथोभृता किं कृतम् ॥९९२॥तस्यैव ।आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुधिस्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोस्तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ॥९९३॥यशोधर्मणः । (सु.र. २४०, सूक्तिमुक्तावलि ४३.३३)हंसानां गतयो हृता यदि तया कूजन्त्वमी सोत्सुकास्तत्केशैर्हृतबर्हकान्तय इमे नृत्यन्तु वा बर्हिणः ।लावण्यं हृतमस्य दग्धशशिनस्तापं करोत्वेष मेयूयं गर्जथ यन्निरागसि मयीत्येतन्न युक्तं घनाः ॥९९४॥कस्यचित।दग्धा पूर्वमहं वसन्तसमये चूताङ्कुरैः कोकिलैःप्रायः प्रावृषि गर्जितैः किमपरं कर्तव्यमद्य त्वया ।दीना कान्तवियोगदुःखविधुरा क्षामा तनुर्वर्तते क्षारं प्रक्षिपसि क्षते जलधर प्राणावशेषस्थितेः ॥९९५॥कस्यचित।१०५. उन्मादःअप्यामीलितपङ्कजां कमलिनीमप्युल्लसत्पल्लवां वासन्तीमपि सौधभित्तिपतितामात्मप्रतिच्छायिकाम् ।मन्वानः प्रथमं प्रियेति पुलकस्वेदप्रकम्पाकुलं प्रीत्यालिङ्गति नास्ति सेति न पुनः खेदोत्तरं मूर्च्छति ॥९९६॥कस्यचित।नियमितमपि मानसं तपोभिः प्रविशति वैशसवारिधावगाधे ।अयमपि चिरविस्मृतोऽपि धैर्यंव्यपनयतीव पुनर्मनोविकारः ॥९९७॥कस्यचित।व्याधूतं पवनेन पल्लवमिदं तस्याः क्रुधा नाधरःस्रंसन्ते कुसुमान्यमूनि न पुनर्बाष्पाम्भसां बिन्दवः ।एषां झाङ्कृतिराकुला मधुलिहामार्तो न मन्युध्वनिर्धिक्कष्टं द्रुमसङ्गता मृदुरियं वल्ली न मे वल्लभा ॥९९८॥श्रीलक्ष्मणसेनदेवस्य ।क्वाकृत्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सादोषाणामुपशान्तये श्रुतमहो कोपेऽपि कान्तं मुखम् ।किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभाचेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योधरं पास्यति ॥९९९॥कस्यचित। (स.क.आ. १.१७७, स्व१३४३, सा.द. उन्देर्३.२४०, सूक्तिमुक्तावलि ४३.३०)अमी कारागारे निविडनलिनीनालनिगडैर्निबध्यन्तां हंसाः प्रथमविसकन्दाङ्कुरभिदः ।नवे वासन्तीनामुदयिनि वने गर्भकलिकाच्छिदो निर्धार्यन्तां परभृतयुवानो मदकलाः ॥१०००॥कस्यचित। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP