संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित ७२१ - ७४० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित ७२१ - ७४० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ७२१ - ७४० Translation - भाषांतर ५०. मानभङ्गःदृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्त्रवन्न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति ।नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततोमानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥७२१॥कस्यचित। (स.क.आ.व्१५.४९६, शा.प. ३५८१, सूक्तिमुक्तावलि ५८.२, सु.र. ६९९)चेतस्यङ्कुरितं विसारिणि दृशोर्द्वन्द्वे द्विपत्रायितंप्रायं पल्लवितं वचस्युपचितं प्रौढं कपोलस्थले ।तत्तत्कोपविचेष्टिते कुसुमितं पादानते तु प्रियेमानिन्यां फलितं तु मानतरुणा पर्यन्तबन्ध्यायितम् ॥७२२॥राजशेखरस्य । (सु.र. ६७९)एकस्मिन्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥७२३॥अमरोः (अमरु १९, स्व२११२, शा.प. ३७१५, सूक्तिमुक्तावलि ८१.८, सु.र. ६६७)दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितंसंश्लिष्यत्यरुणं गृहीतवसने किञ्चिन्नतभ्रूलतम् ।मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणंचक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥७२४॥तस्यैव । (अमरु ४४, सूक्तिमुक्तावलि ५५.३, सु.र. ६४१)सुतनु जहिहि कोपं पश्य पादानतं मांन खलु तव कदाचित्कोप एवं विधोऽभूत।इति निगदति नाथे तिर्यगामीलिताक्ष्यानयनजलमनल्पं मुक्तमुक्तं न किञ्चित॥७२५॥तस्यैव (अमरु ३५, स्व१६००, शा.प. ३५७७, सूक्तिमुक्तावलि ५७.३३, सु.र. ६७८)५१. प्रवसद्भर्तृकादृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठःपूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥७२६॥कस्यचित। (अमरु ८१, स.क.आ.ं ७२६, शा.प. ३३८६, सूक्तिमुक्तावलि ३७.६)संरुद्धाः कथमप्यमङ्गलभयात्पक्ष्मान्तरव्यापिनोऽप्युत्तानीकृतलोचनं निपुणया बास्पाम्भसां बिन्दवः ।न्यस्यन्त्याः सहकारपल्लवमथ व्यानम्य पत्युः पुरोधारावाहिभिरेव लोचनजलैर्यात्राघटः पूरितः ॥७२७॥धोयीकस्य ।मुग्धे प्रेषय यामि यान्ति पथिकाः कालोऽवधिः कथ्यताम्उद्विग्ना किमकाण्ड एव भवती तूष्णीं किमेवं स्थिता ।पूर्वोक्त्योपरतां प्रियेण दयितामाश्लिष्य तत्तत्कृतंदत्तो येन समस्तपान्थनिवहप्राणान्तिको डिण्डिमः ॥७२८॥कस्यचित। (स्व१०६२)आपृष्टासि विनिर्गतोऽध्वगजनस्तन्वङ्गि गच्छाम्यहं स्वल्पैरेव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः ।इत्याकर्ण्य वचः प्रियस्य सहसा तन्मुग्धया चेष्टितं येनाकाण्डसमाप्ततीव्रविरहक्लेशः कृतो वल्लभः ॥७२९॥कस्यचित। (स्व१०५४)भ्रातर्बाष्प मुहुर्विमुञ्च नयनं यावत्तिरोधीयतेनायं निष्करुणः पुरा निरवधिर्भावी तथैवोदयः ।इत्याकर्ण्य वियोगमुग्धमनसः स्वप्नोपनीतं वचः संजाता दयितस्य योजनशतं शय्योपकण्ठस्थली ॥७३०॥जलचन्द्रस्य ।५२. यात्राक्षेपःकान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौस्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः ।आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥७३१॥ वीरस्य । (अमरु २५)गन्तुं वाञ्छसि गच्छ पिच्छिलममी यावन्न कुर्वन्ति तेपन्थानं मृदुमर्दलध्वनिमुचो धाराभिरम्भोधराः ।एतस्यास्तव तानि ### रहसि प्रेमाक्षराणि ध्रुवं ध्यायन्त्यास्तु विपद्विनोदनसखी मुर्च्छैव सम्पत्स्यते ॥७३२॥कस्यचित।यास्यामीति गिरः श्रुता अवधिरप्यालम्बितश्चेतसागेहे यत्नवती भविष्यसि सदेत्येतत्समाकर्णितम् ।मुग्धे मा शुच इत्युदीरितवतः पत्युर्निरीक्ष्याननंनिःश्वस्य स्तनपायिनि स्वतनये दृष्टिश्चिरं पातिता ॥७३३॥भदन्तधीरनागस्य । (स्व१०६४)आयास्यस्यवधावपर्यवसिते गत्वेति संभाव्यते संप्राप्ते त्वयि यानि तान्यपि सुखान्यद्यापरोक्षाणि नः ।किं त्वज्ञातवियोगवेदनमिदं सद्यस्त्वयि प्रस्थिते चेतः किं नु करीष्यतीत्यविदितं सम्यङ्न निश्चीयते ॥७३४॥कस्यचित। (स्व१०६१)लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर्अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य तेयत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥७३५॥कस्यचित। (अमरु ६१; स्व१०६०, शा.प. ३३९५, सूक्तिमुक्तावलि ३७.१२)५३. प्रोषितभर्तृकामध्ये वेश्म समुद्गता तदनु च द्वारान्तरालं गतानिर्याताथ कथञ्चिदङ्गणभुवं प्रेयांस्तु नालोकितः ।हंहो वायस राजहंस शुक हे हे सारिके कथ्यतांका वार्तेति मृगीदृशो विजयते बाष्पाम्बुगर्भं वचः ॥७३६॥महोदधेः । (सु.र. ७१८)अस्तव्यस्तसमीरकम्पिततया दृष्टेस्तिरस्कारिणीं हस्तेनालकवल्लरीमकुटिलामानीय कर्णान्तिकम् ।उद्वीक्ष्य प्रियमार्गमध्वगवधूरस्तं गते भास्वति छिन्नाशा स्वनिवेशमेति शनकैः स्वप्नेक्षणाशंसिनी ॥७३७॥कस्यचित।अभ्यासस्थितचूतषण्डगहनस्थानादितो गेहिनी ग्रामं कंचिदवृक्षकं विरहिणी तूर्णं वधूर्नीयताम् ।अत्रायान्त्यचिरेण कोकिलकुलव्याहारझंकारिणः पन्थस्त्रीजनजीवितैकहरणप्रौढाः पुरो वासराः ॥७३८॥कस्यचित।सौख्ये गते प्रवसता दयितेन सार्धंनेत्रद्वये दयितमार्गगमान्निवृत्ते ।व्रीडावती बत कृता हतजीवितेननिर्याय यन्न पद्मात्रमपि प्रयातम् ॥७३९॥कस्यचित।वत्से माधवि मुग्धिकासि बलवद्वन्यौकसो देवताःपान्तु त्वामयमस्तमञ्चति रविर्यातोऽवधिस्ते पितुः ।शान्तं पापममङ्गलं परमतः शान्त्या न कल्याणि मेकल्यन्नव्यमधुव्रताय तुय्मधून्युद्दिश्य मे दास्यसि ॥७४०॥कस्यचित। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP