संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित ९०१ - ९२० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित ९०१ - ९२० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ९०१ - ९२० Translation - भाषांतर ८६. प्रोषितःदेशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशंतामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥९०१॥[अमरु ९३ (७२); सु.र. ७६५, स.क.आ.ं ९०१, शा.प. ३४४५]हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।इदानीमावयोर्मध्ये सरित्सागरभूधराः ॥९०२॥धर्मपालस्य । (स्व११९२, शा.प. ३४२९)भद्रात्र ग्रामके त्वं वससि परिचयस्तेन जानासि वार्ताम्अस्मिन्नध्वन्ययोषित्तरुणिमवयसि ध्याय काचिद्विपन्ना ।इत्थं पान्थः प्रवासावधिदिनगणनापायशङ्की प्रियायाः पृच्छन्वार्तां समीपस्थितनिजभवनं व्याकुलो नोपयाति ॥९०३॥कस्यचित। (शा.प. ३८९५)वसन्ताग्नौ मग्ना चिरविरहरुग्णा सहचरीयदि प्राणान्मुञ्चेत्तदिह वधभागी भवतु कः ।वयो वा स्नेहो वा कुसुमसमयो वेति विमृशंस्स्तुहीति प्रव्यक्तं पिकनिकरझंकारमशृणोत॥९०४॥पिकनिकरस्य ।सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवःसर्वं नैतदिहास्ति तत्कथमसौ पान्थस्तपस्वी मृतः ।आ ज्ञातं मधुलम्पटैर्मधुकरैरारब्धकोलाहलेनूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥९०५॥राजशेखरस्य । (सु.र. ७६०, शा.प. ३८२२)८७. पथिकःसुप्ते ग्रामे नदति जलदे शान्तसंपातरम्यंपान्थेनात्मव्यसनकरुणोदस्रु गीतं निशीथे ।स्फीतोत्कण्ठापरिगतधिया प्रोषितस्त्रीजनेनध्यानावेशस्तिमितनयनं श्रूयते रुद्यते च ॥९०६॥कस्यचित।मागाः पान्थ पथामुना यदि तव भ्रातः प्रियं जीवितंयच्चूताकृतिरत्र तिष्ठति महारौद्रः पुरो राक्षसः ।येनोद्यन्मकरन्दमुग्धमधुपव्याहारझङ्कारिणापान्थानामधुनैव निर्घृणधिया सार्थो हतः श्रूयते ॥९०७॥कस्यापि ।उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरिहेक्ष्यताम् ।इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥९०८॥कस्यचित।कस्मात्त्वं क्व नु दृश्यते सुखमुखं क्वास्तेऽन्धकारः परं क्व स्त्रीषु स्मरधूमकेतुरुदितो दृष्टा युवानः क्व ते ।गन्ता क्व क्व च पञ्चमः क्व णसकृत्क्वात्संकुरो निद्गतः क्वानन्दैकरसोदयः क्व नु सती कैवाध्वगस्तत्कथा ॥९०९॥कस्यचित।ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नैवाधुना दीयतेपश्यात्रैव विहारमण्डपतले प्रसुप्तो युवा ।तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रिया तत्कृतंयेनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥९१०॥कस्यचित। (शा.प. ३८९३, सु.र. १६६१)८८. वर्षापथिकःतावद्वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावन्निक्षिप्तौ तावदङ्घ्री पथि पथिकजनैर्लक्षितास्तावदाशाः ।नृत्यद्धाराकदम्बस्तव कवलयिता यावदेते न दृष्टानिर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विन्ध्यपादाः ॥९११॥योगेश्वरस्य । (सु.र. २६३)लीलाम्भोजतमालकज्जलजलश्रीक्ण्ठकण्ठद्युतेभ्रातर्मघ महेन्द्रचापरुचिरं व्यासस्य कण्ठे गुणम् ।स्वैरं गर्ज मुहूर्तकं कुरु दयां सा बाष्पपूर्णेक्षणा बाला बालमृणालकोमलतनुस्तन्वी न सोढुं क्षमा ॥९१२॥कस्यचित।जलधरमुदितं विलोक्य दूराद्अहह पदात्पदमेष न याति ।अविरतनयनाम्बुदीर्घमुष्णंश्वसिति कथं हतजीवितोध्वनीनः ॥९१३॥कविचक्रवर्तिनः ।निशीथे लीनानां झटिति तडितां वीक्ष्य विषमंघनानामाभोगं रसिकपथिकेनोन्मुखदृशा ।न गीतं सोत्कण्ठं न च रुदितमुत्कम्पतरलंन मुक्ता निःश्वासाः स्फुटदनुमतं किन्तु हृदयम् ॥९१४॥वाह्लीकस्य । (शा.प. ३८९२)धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिंदीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितंग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥९१५॥[अमरु ११]८९. प्रोषितप्रियास्मरणम्विवेकादस्माभिः प्रमपुरुषाभ्यासरसिकैःकथञ्चिन्नीयन्ते रतिरमणबाणैरपि हतैः ।प्रियाया बालत्वादभिनववियोगात्तव तनोर्न जानीमस्तस्या बत कथममी यान्ति दिवसाः ॥९१६॥कस्यचित। (सु.र. ७८०)आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकांकेयूरीभवदल्पशेषवलया बाला समस्तं दिनम् ।सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मेपन्थानं विवृताश्रुणा वदनकेनालोक्य किं वक्ष्यति ॥९१७॥कस्यचित।अनारब्धाक्षेपं परमकृतबाष्पव्यतिकरं निगूढान्तस्तापं हृदयविनिपीतं व्यवसितम् ।कृशाङ्ग्या यत्पापे व्रजति मयि नैराश्यपिशुनं श्लथैरङ्गैरुक्तं हृदयमिदमुन्मूलयति तत॥९१८॥कस्यचित। (स्व१३३३)उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता निःश्वासा अपि निःश्वसन्त्यनिभृतं बाष्पोऽपि बाष्पायते ।कान्तां संस्मरतो विदेशवसतेर्नक्तं दिवं कामिनः प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात॥९१९॥कस्यचित। (स्व११५२)निरस्तालङ्कारां नयनजलसिक्ताधरपूटां रवावस्तं याते द्विगुणतरखेदालसमुखीम् ।अहो दूरस्थां तां करकमलविन्यस्तवदनांप्रियां पश्यामीव स्मृतिशरèअकुड्ये विलिखिताम् ॥९२०॥कस्यचित। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP