संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित ५२१ - ५४० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित ५२१ - ५४० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ५२१ - ५४० Translation - भाषांतर १०. गर्भिणी आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थलीसव्यापारपरिश्लथे च नयनेऽनुत्साहमुग्धं वपुः ।श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितोजातान्यैव मनोहराकृतिरहो गर्भोदये सुभ्रुवः ॥५२१॥कालिदासनन्दिनः ।हारिद्रमम्बरमुपान्तनिबद्धचक्रम्एकं कुलस्थितिवशाद्दधती प्रियासौ ।तत्कालमङ्गलसमाचरणप्रयत्नव्यासिद्धकेलिरपि मङ्गमातनोति ॥५२२॥तस्यैव ।मृदासक्ता हृद्यं स्थगयति मुखं चुम्बति मयिस्तनौ पाण्डुश्यामौ मम करतलादाक्षिपति च ।कृते गर्भालापे विशदहसितं रक्षति रुषाप्रिया सर्वाकारं विशति हृदयं वल्लभतया ॥५२३॥कर्णाटदेवस्य ।अलसमधुरा स्निग्धा दृष्टिर्घनत्वमुपागताकिसलयरुचिर्निस्ताम्बूलस्वभावधरोधरः ।त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः प्रकृतिसुभगा गर्भेणासौ किमप्युपपादिता ॥५२४॥तस्यैव ।परिणतशरकाण्डा पाण्डुरा गण्डभित्तिः कुचकलसमुखश्रीः कालिमानं दधाति ।व्यपनतकृशभावं पीनतामेति मध्यंवपुरतिशयगौरं गर्भमाविष्करोति ॥५२५॥पशुपतिधरस्य ।११. कुलस्त्रीकुर्वीथाः श्वशुरस्य भक्तिमधिकां श्वश्र्वाश्च पादानतिंस्नेहं भृत्यजने प्रतीच्छ रभसाद्द्वारागतान्बान्धवान।भर्तारं सुखदुःखयोरविकृतप्रेमानुबन्धोदयागेहे वा विपिनेऽपि वा सहचरीवृत्तेन नित्यं भज ॥५२६॥कालिदासनन्दिनः ।न नयति बहुमानस्यास्पदं स्निग्धबन्धून्न च गुणिनि समृद्धेऽप्यादरं याति ताते ।न भजति धृतिमन्तर्नन्दनेऽप्यन्तरात्माभवति हि पतिनिष्ठं प्रेम साध्वीजनस्य ॥५२७॥उमापतिधरस्य ।अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रतातत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् ।सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामितिप्राच्यैः पुतिर्निवेदिताः कुलवधूसिद्धान्तधर्मा अमी ॥५२८॥राजशेखरस्य । (बा.रा. ४.४३)शिरो यदवगुण्ठितं सहजरूढलज्जानतंगतं च परिमन्थरं चरणकोटिलग्ने दृशौ ।वचः परिमितं च यन्मधुरमन्दमन्दाक्षरंनिजं तदियमङ्गना वदति नूनमुच्चैः कुलम् ॥५२९॥क्षेमीश्वरस्य ।शुश्रूषस्व गुरून्कुरु प्रियसखिवृत्तिं सपत्नीजनेभर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥५३०॥कालिदासस्य । (Sःअक्. ४.१८, सूक्तिमुक्तावलि ११८.१)१२. असतीसिकतिलतलाः सान्द्रच्छायास्तटान्तविलम्बिनः शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः ।अविनयवतीनिर्विच्छेदस्मरव्ययदायिनःकथय मुरले केनामी ते कृता निचुलद्रुमाः ॥५३१॥विद्यायाः । (सु.र. ८०९)पत्युः केलिभिरस्थिषु च्छिदुरता मर्मक्षतिर्नर्मणाशृङ्गारेण गुरुव्यथा समुदयत्युच्चाटनं चाटुभिः ।ध्यायन्त्याः सततोत्सुकेन मनसा नीरन्ध्रवानीरिणीर्आकौमारमुपास्यमानमुरलासीमाभुवः सुभ्रुवः ॥५३२॥उमापतिधरस्य ।यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाःसा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौरेवारोधसि वेतसीतरुतले चेतः समुत्कणंहते ॥५३३॥कस्यचित। (सु.र. ८१५; शा.प. ३७६८; सूक्तिमुक्तावलि ८७.९; Sद्१.२, पद्या. ३८२, CःCः २.१.५८, २.१३.१२१, ३.१.७८.)दावालीढकलेवरे विटपिनि प्राप्तोद्गमानङ्कुरान्अग्रे पल्लवितैर्मनोभिरचिराच्चेतोभुवा नर्तिताः ।सानन्दाश्रु विलोकयन्ति कलितस्वेदं स्पृशन्त्यादराद्उत्कम्पाङ्गुलि दर्शयन्ति मदनक्रीडामहस्मारिणः ॥५३४॥जलचन्द्रस्य ।तस्याः सम्प्रति वासरक्रमनमत्तोये तमालातटेसाकूतं निपतन्ति वेतसलताकुञ्जोदरे दृष्टयः ।सोत्कम्पस्खलितांशुकस्तनतटं सोल्लासकाञ्चीगुणग्रन्थिन्यस्तचलाङ्गुलीकिसलयं स्वेदार्द्रहस्ताम्बुजम् ॥५३५॥चण्डालचन्द्रस्य ।१३. कुलटोपदेशःवयं बाल्ये बालांस्तरुणिमनि यूनः परिणताव्अपीच्छामो वृद्धांस्तदिह कुलरक्षा समुचिता ।त्वयारब्धं जन्म क्षपयितुमनेनैकपतिनान नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत॥५३६॥विद्यायाः । (स.क.आ. ३.१६३, शा.प. ३७६१)उन्मीलद्यौवनासि प्रियसखि विषमाः श्रेणयो नागराणांतस्मात्कोऽपि त्वयाद्य प्रभृति न सहसा संमुखं वीक्षणीयः ।यावच्चन्द्रार्कमेकः पतिरतिशयितश्रद्धया सेवितव्यःकर्तव्या रूपरक्षा वचसि न हृदयं देयमस्मद्विधानाम् ॥५३७॥शरणस्य ।आराध्यः पतिरेव तस्य च पदद्वन्द्वानुवृत्तिर्व्रतंकेनैताः सखि शिक्षितासि विपथप्रस्थानदुर्वासनाः ।किं रूपेण न यत्र मज्जति मनो यूनां किमाचार्यकैर्गूढानङ्गरहस्ययुक्तिषु फलं येषां न दीर्घं यशः ॥५३८॥तस्यैव ।अस्माकं व्रतमेतदेव यदयं कुञ्जोदरे जागरःशुश्रूषा मदनस्य वक्त्रमधुभिः सन्तर्पणीयोऽतिथिः ।निस्त्रिंशाः शतशः पतन्तु शिरसश्छेदोऽथवा जायताम्आत्मीयं कुलवर्त्म पुत्रि न मनागुल्लङ्घनीयं त्वया ॥५३९॥वैद्यगदाधरस्य ।कुलोत्कर्षात्स्नेहात्कमितुरथवा पातकभयात्सखि श्रद्धा ते स्याद्यदि विनयमालम्बितुमपि ।किमेभिर्दातव्यं परिकलयं शिप्रातटरुहांकरञ्जानां कुञ्जैरविनयवतीनर्मनिपुणैः ॥५४०॥डिम्बोकस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP