अर्थशास्त्रम् अध्याय ०४ - भाग १३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१३.०१
ब्राह्मणम् अपेयम् अभक्ष्यं वा ग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहस.दण्डः, शूद्रं चतुष्.पञ्चाशत्.पणो दण्डः ॥

१३.०२
स्वयं ग्रसितारो निर्विषयाः कार्याः ॥

१३.०३
पर.गृह.अभिगमने दिवा पूर्वः साहस.दण्डः, रात्रौ मध्यमः ॥

१३.०४
दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ॥

१३.०५
भिक्षुक.वैदेहकौ मत्त.उन्मत्तौ बलाद् आपदि च_अतिसंनिकृष्टाः प्रवृत्त.प्रवेशाश् च_अदण्ड्याः, अन्यत्र प्रतिषेधात् ॥

१३.०६
स्व.वेश्मनो विरात्राद् ऊर्ध्वं परिवारम् आरोहतः पूर्वः साहस.दण्डः, पर.वेश्मनो मध्यमः, ग्राम.आराम.वाट.भेदिनश् च ॥

१३.०७
ग्रामेष्व् अन्तः सार्थिका ज्ञात.सारा वसेयुः ॥

१३.०८
मुषितं प्रवासितं च_एषाम् अनिर्गतं रात्रौ ग्राम.स्वामी दद्यात् ॥

१३.०९
ग्राम.अन्तरेषु वा मुषितं प्रवासितं विवीत.अध्यक्षो दद्यात् ॥

१३.१०
अविवीतानां चोर.रज्जुकः ॥

१३.११
तथा_अप्य् अगुप्तानां सीम.अवरोधेन विचयं दद्युः ॥

१३.१२
असीम.अवरोधे पञ्च.ग्रामी दश.ग्रामी वा ॥

१३.१३
दुर्बलं वेश्म शकटम् अनुत्तब्धम् ऊर्ध.स्तंभं शस्त्रम् अनपाश्रयम् अप्रतिच्छन्नं श्वभ्रं कूपं कूट.अवपातं वा कृत्वा हिंसायां दण्ड.पारुष्यं विद्यात् ॥

१३.१४
वृक्षच्.छेदने दंय.रश्मि.हरणे चतुष्पदानाम् अदान्त.सेवने वाहने वा काष्ठ.लोष्ट.पाषाण.दण्ड.बाण.बाहु.विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्न् अदण्ड्यः ॥

१३.१५
हस्तिना रोषितेन हतो द्रोण.अन्नं मद्य.कुंभं माल्य.अनुलेपनं दन्त.प्रमार्जनं च पटं दद्यात् ॥

१३.१६
अश्व.मेध.अवभृथ.स्नानेन तुल्यो हस्तिना वध इति पाद.प्रक्षालनम् ॥

१३.१७
उदासीन.वधे यातुर् उत्तमो दण्डः ॥

१३.१८
शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानम् अमोक्षयतः स्वामिनः पूर्वः साहस.दण्डः, प्रतिक्रुष्टस्य द्वि.गुणः ॥

१३.१९
शृङ्गि.दंष्ट्रिभ्याम् अन्योन्यं घातयतस् तच् च तावच् च दण्डः ॥

१३.२०
देव.पशुम् ऋषभम् उक्षाणं गो.कुमारीं वा वाहयतः पञ्च.शतो दण्डः, प्रवासयत उत्तमः ॥

१३.२१
लोम.दोह.वाहन.प्रजनन.उपकारिणां क्षुद्र.पशूनाम् अदाने तच् च तावच् च दण्डः, प्रवासने च, अन्यत्र देव.पितृ.कार्येभ्यः ॥

१३.२२
छिन्न.नस्यं भग्न.युगं तिर्यक्.प्रतिमुख.आगतं प्रत्यासरद् वा चक्र.युक्तं याता पशु.मनुष्य.संबाधे वा हिंसायाम् अदण्ड्यः ॥

१३.२३
अन्यथा यथा.उक्तं मानुष.प्राणि.हिंसायां दण्डम् अभ्यावहेत् ॥

१३.२४
अमानुष.प्राणि.वधे प्राणि.दानं च ॥

१३.२५
बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्त.व्यवहारो वा याता ॥

१३.२६
बाल.अधिष्ठितम् अपुरुषं वा यानं राजा हरेत् ॥

१३.२७
कृत्य.अभिचाराभ्यां यत्.परम् आपादयेत् तद्.आपादयितव्यः ॥

१३.२८
कामं भार्यायाम् अनिच्छन्त्यां कन्यायां वा दार.अर्थिनो भर्तरि भार्याया वा संवदन.करणम् ॥

१३.२९
अन्यथा.हिंसायां मध्यमः साहस.दण्डः ॥

१३.३०
माता.पित्रोर् भगिनीं मातुलानीम् आचार्याणीं स्नुषां दुहितरं भगिनीं वा_अधिचरतस् त्रि.लिङ्गच्.छेदनं वधश् च ॥

१३.३१
सकामा तद् एव लभेत, दास.परिचारक.आहितक.भुक्ता च ॥

१३.३२
ब्राह्मण्याम् अगुप्तायां क्षत्रियस्य_उत्तमः, सर्व.स्वं वैश्यस्य, शूद्रः कट.अग्निना दह्येत ॥

१३.३३
सर्वत्र राज.भार्या.गमने कुंभी.पाकः ॥

१३.३४
श्व.पाकी.गमने कृत.कबन्ध.अङ्कः पर.विषयं गच्छेत्, श्व.पाकत्वं वा शूद्रः ॥

१३.३५
श्व.पाकस्य_आर्या.गमने वधः, स्त्रियाः कर्ण.नास.आच्छेदनम् ॥

१३.३६
प्रव्रजिता.गमने चतुर्.विंशति.पणो दण्डः ॥

१३.३७
सकामा तद् एव लभेत ॥

१३.३८
रूप.आजीवायाः प्रसह्य.उपभोगे द्वादश.पणो दण्डः ॥

१३.३९
बहूनाम् एकाम् अधिचरतां पृथक् चतुर्.विंशति.पणो दण्डः ॥

१३.४०
स्त्रियम् अयोनौ गच्छतः पूर्वः साहस.दण्डः, पुरुषम् अधिमेहतश् च ॥

१३.४१
मैथुने द्वादश.पणस् तिर्यग्.योनिष्व् अनात्मनः ।

१३.४१
दैवत.प्रतिमानां च गमने द्वि.गुणः स्मृतः ॥

१३.४२
अदण्ड्य.दण्डने राज्ञो दण्डस् त्रिंशद्.गुणो_अंभसि ।

१३.४२
वरुणाय प्रदातव्यो ब्राह्मणेभ्यस् ततः परम् ॥

१३.४३
तेन तत् पूयते पापं राज्ञो दण्ड.अपचारजम् ।

१३.४३
शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP