संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ४| भाग ३ अध्याय ४ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ अर्थशास्त्रम् अध्याय ०४ - भाग ३ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ३ Translation - भाषांतर ३.०१दैवान्य् अष्टौ महा.भयानि - अग्निर् उदकं व्याधिर् दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसि_इति ॥३.०२तेभ्यो जन.पदं रक्षेत् ॥३.०३ग्रीष्मे बहिर्.अधिश्रयणं ग्रामाः कुर्युः, दश.मूली.संग्रहेण_अधिष्ठिता वा ॥३.०४नागरिक.प्रणिधाव् अग्नि.प्रतिषेधो व्याख्यातः, निशान्त.प्रणिधौ राज.परिग्रहे च ॥३.०५बलि.होम.स्वस्ति.वाचनैः पर्वसु च_अग्नि.पूजाः कारयेत् ॥३.०६वर्षा.रात्रम् आनूप.ग्रामाः पूर.वेलाम् उत्सृज्य वसेयुः ॥३.०७काष्ठ.वेणु.नावश् च_उपगृह्णीयुः ॥३.०८उह्यमानम् अलाबु.दृति.प्लव.गण्डिका.वेणिकाभिस् तारयेयुः ॥३.०९अनभिसरतां द्वादश.पणो दण्डः, अन्यत्र प्लव.हीनेभ्यः ॥३.१०पर्वसु च नदी.पूजाः कारयेत् ॥३.११माया.योगविदो वेदविदो वा वर्षम् अभिचरेयुः ॥३.१२वर्ष.अवग्रहे शची.नाथ.गङ्गा.पर्वत.महा.कच्छ.पूजाः कारयेत् ॥३.१३व्याधि.भयम् औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश् चिकित्सकाः शान्ति.प्रायश्चित्तैर् वा सिद्ध.तापसाः ॥३.१४तेन मरको व्याख्यातः ॥३.१५तीर्थ.अभिषेचनं महा.कच्छ.वर्धनं गवां श्मशान.अवदोहनं कबन्ध.दहनं देव.रात्रिं च कारयेत् ॥३.१६पशु.व्याधि.मरके स्थान.अर्थ.नीराजनं स्व.दैवत.पूजनं च कारयेत् ॥३.१७दुर्भिक्षे राजा बीज.भक्त.उपग्रहं कृत्वा_अनुग्रहं कुर्यात्, दुर्ग.सेतु.कर्म वा भक्त.अनुग्रहेण, भक्त.संविभागं वा, देश.निक्षेपं वा ॥३.१८मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात् ॥३.१९निष्पन्न.सस्यम् अन्य.विषयं वा सजन.पदो यायात्, समुद्र.सरस्.तटाकानि वा संश्रयेत ॥३.२०धान्य.शाक.मूल.फल.आवापान् वा सेतुषु कुर्वीत, मृग.पशु.पक्षि.व्याल.मत्स्य.आरम्भान् वा ॥३.२१मूषिक.भये मार्जार.नकुल.उत्सर्गः ॥३.२२तेषां ग्रहण.हिंसायां द्वादश.पणो दण्डः, शुनाम् अनिग्रहे च_अन्यत्र_अरण्य.चरेभ्यः ॥३.२३स्नुहि.क्षीर.लिप्तानि धान्यानि विसृजेद्, उपनिषद्.योग.युक्तानि वा ॥३.२४मूषिक.करं वा प्रयुञ्जीत ॥३.२५शान्तिं वा सिद्ध.तापसाः कुर्युः ॥३.२६पर्वसु च मूषिक.पूजाः कारयेत् ॥३.२७तेन शलभ.पक्षि.क्रिमि.भय.प्रतीकारा व्याख्याताः ॥३.२८व्याल.भये मदन.रस.युक्तानि पशु.शवानि प्रसृजेत्, मदन.कोद्रव.पूर्णान्य् औदर्याणि वा ॥३.२९लुब्धकाः श्व.गणिनो वा कूट.पञ्जर.अवपातैश् चरेयुः ॥३.३०आवरणिनः शस्त्र.पाणयो व्यालान् अभिहन्युः ॥३.३१अनभिसर्तुर् द्वादश.पणो दण्डः ॥३.३२स एव लाभो व्याल.घातिनः ॥३.३३पर्वसु च पर्वत.पूजाः कारयेत् ॥३.३४तेन मृग.पशु.पक्षि.संघ.ग्राह.प्रतीकारा व्याख्याताः ॥३.३५सर्प.भये मन्त्रैर् ओषधिभिश् च जाङ्गुलीविदश् चरेयुः ॥३.३६सम्भूय वा_अपि सर्पान् हन्युः ॥३.३७अथर्व.वेदविदो वा_अभिचरेयुः ॥३.३८पर्वसु च नाग.पूजाः कारयेत् ॥३.३९तेन_उदक.प्राणि.भय.प्रतीकारा व्याख्याताः ॥३.४०रक्षो.भये रक्षो.घ्नान्य् अथर्व.वेदविदो माया.योगविदो वा कर्माणि कुर्युः ॥३.४१पर्वसु च वितर्दिच्.छत्र.उल्लोपिका.हस्त.पताकाच्.छाग.उपहारैश् चैत्य.पूजाः कारयेत् ॥३.४२"चरुं वश् चरामः" इत्य् एवं सर्व.भयेष्व् अहो.रात्रं चरेयुः ॥३.४३सर्वत्र च_उपहतान् पिता_इव_अनुगृह्णीयात् ॥३.४४माया.योगविदस् तस्माद् विषये सिद्ध.तापसाः ।३.४४वसेयुः पूजिता राज्ञा दैव.आपत्.प्रतिकारिणः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP