संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ४| भाग २ अध्याय ४ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ अर्थशास्त्रम् अध्याय ०४ - भाग २ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २ Translation - भाषांतर २.०१संस्था.अध्यक्षः पण्य.संस्थायां पुराण.भाण्डानां स्व.करण.विशुद्धानाम् आधानं विक्रयं वा स्थापयेत् ॥२.०२तुला.मान.भाण्डानि च_अवेक्षेत पौतव.अपचारात् ॥२.०३परिमाणी.द्रोणयोर् अर्ध.पल.हीन.अतिरिक्तम् अदोषः ॥२.०४पल.हीन.अतिरिक्ते द्वादश.पणो दण्डः ॥२.०५तेन पल.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥२.०६तुलायाः कर्ष.हीन.अतिरिक्तम् अदोषः ॥२.०७द्वि.कर्ष.हीन.अतिरिक्ते षट्.पणो दण्डः ॥२.०८तेन कर्ष.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥२.०९आढकस्य_अर्ध.कर्ष.हीन.अतिरिक्तम् अदोषः ॥२.१०कर्ष.हीन.अतिरिक्ते त्रि.पणो दण्डः ॥२.११तेन कर्ष.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥२.१२तुला.मान.विशेषाणाम् अतो_अन्येषाम् अनुमानं कुर्यात् ॥२.१३तुला.मानाभ्याम् अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि.गुणा दण्डाः ॥२.१४गण्य.पण्येष्व् अष्ट.भागं पण्य.मूल्येष्व् अपहरतः षण्.णवतिर् दण्डः ॥२.१५काष्ठ.लोह.मणि.मयं रज्जु.चर्म.मृण्.मयं सूत्र.वल्क.रोम.मयं वा जात्यम् इत्य् अजात्यं विक्रय.आधानं नयतो मूल्य.अष्ट.गुणो दण्डः ॥२.१६सार.भाण्डम् इत्य् असार.भाण्डं तज्.जातम् इत्य् अतज्.जातं राधा.युक्तम् इत्य् उपधियुक्तं समुद्ग.परिवर्तिमं वा विक्रय.आधानं नयतो हीन.मूल्यं चतुष्पञ्चाशत्.पणो दण्डः, पण.मूल्यं द्वि.गुणो, द्वि.पण.मूल्यं द्वि.शतः ॥२.१७तेन_अर्घ.वृद्धौ दण्ड.वृद्धिर् व्याख्याता ॥२.१८कारु.शिल्पिनां कर्म.गुण.अपकर्षम् आजीवं विक्रय.क्रय.उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ॥२.१९वैदेहकानां वा सम्भूय पण्यम् अवरुन्धताम् अनर्घेण विक्रीणतां वा सहस्रं दण्डः ॥२.२०तुला.मान.अन्तरम् अर्घ.वर्ण.अन्तरं वा - धरकस्य मायकस्य वा पण.मूल्याद् अष्ट.भागं हस्त.दोषेण_आचरतो द्वि.शतो दण्डः ॥२.२१तेन द्वि.शत.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥२.२२धान्य.स्नेह.क्षार.लवण.गन्ध.भैषज्य.द्रव्याणां सम.वर्ण.उपधाने द्वादश.पणो दण्डः ॥२.२३यन्.निषृष्टम् उपजीवेयुस् तद् एषां दिवस.संजातं संख्याय वणिक् स्थापयेत् ॥२.२४क्रेतृ.विक्रेत्रोर् अन्तर.पतितम् आदायाद् अन्यद् भवति ॥२.२५तेन धान्य.पण्य.निचयांश् च_अनुज्ञाताः कुर्युः ॥२.२६अन्यथा.निचितम् एषां पण्य.अध्यक्षो गृह्णीयात् ॥२.२७तेन धान्य.पण्य.विक्रये व्यवहरेत_अनुग्रहेण प्रजानाम् ॥२.२८अनुज्ञात.क्रयाद् उपरि च_एषां स्व.देशीयानां पण्यानां पञ्चकं शतम् आजीवं स्थापयेत्, पर.देशीयानां दशकम् ॥२.२९ततः परम् अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण.शते पञ्च.पणाद् द्वि.शतो दण्डः ॥२.३०तेन_अर्घ.वृद्धौ दण्ड.वृद्धिर् व्याख्याता ॥२.३१सम्भूय.क्रये च_एषाम् अविक्रीते न_अन्यं सम्भूय.क्रयं दद्यात् ॥२.३२पण्य.उपघाते च_एषाम् अनुग्रहं कुर्यात् ॥२.३३पण्य.बाहुल्यात् पण्य.अध्यक्षः सर्व.पण्यान्य् एक.मुखानि विक्रीणीत ॥२.३४तेष्व् अविक्रीतेषु न_अन्ये विक्रीणीरन् ॥२.३५तानि दिवस.वेतनेन विक्रीणीरन्न् अनुग्रहेण प्रजानाम् ॥२.३६देश.काल.अन्तरितानां तु पण्यानां - प्रक्षेपं पण्य.निष्पत्तिं शुल्कं वृद्धिम् अवक्रयम् ।२.३६व्ययान् अन्यांश् च संख्याय स्थापयेद् अर्घम् अर्घवित् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP