संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ४| भाग ५ अध्याय ४ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ अर्थशास्त्रम् अध्याय ०४ - भाग ५ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ५ Translation - भाषांतर ५.०१सत्त्रि.प्रयोगाद् ऊर्ध्वं सिद्ध.व्यञ्जना माणवान् माणव.विद्याभिः प्रलोभयेयुः, प्रस्वापन.अन्तर्.धान.द्वार.अपोह.मन्त्रेण प्रतिरोधकान्, संवदन.मन्त्रेण पारतल्पिकान् ॥५.०२तेषां कृत.उत्साहानां महान्तं संघम् आदाय रात्राव् अन्यं ग्रामम् उद्दिश्य_अन्यं ग्रामं कृतक.स्त्री.पुरुषं गत्वा ब्रूयुः - "इह_एव विद्या.प्रभावो दृश्यतां, कृच्छ्रः पर.ग्रामो गन्तुम्" इति ॥५.०३ततो द्वार.अपोह.मन्त्रेण द्वाराण्य् अपोह्य "प्रविश्यताम्" इति ब्रूयुः ॥५.०४अन्तर्.धान.मन्त्रेण जाग्रताम् आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः ॥५.०५प्रस्वापन.मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर् माणवैः संचारयेयुः ॥५.०६संवदन.मन्त्रेण भार्या.व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ॥५.०७उपलब्ध.विद्या.प्रभावाणां पुरश्चरणा.आद्य् आदिशेयुर् अभिज्ञान.अर्थम् ॥५.०८कृत.लक्षण.द्रव्येषु वा वेश्मसु कर्म कारयेयुः ॥५.०९अनुप्रविष्टा वा_एकत्र ग्राहयेयुः ॥५.१०कृत.लक्षण.द्रव्य.क्रय.विक्रय.आधानेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥५.११गृहीतान् पूर्व.अपदान.सहायान् अनुयुञ्जीत ॥५.१२पुराण.चोर.व्यञ्जना वा चोरान् अनुप्रविष्टास् तथा_एव कर्म कारयेयुर् ग्राहयेयुश् च ॥५.१३गृहीतान् समाहर्ता पौर.जानपदानां दर्शयेत् - "चोर.ग्रहणीं विद्याम् अधीते राजा, तस्य_उपदेशाद् इमे चोरा गृहीताः, भूयश् च ग्रहीष्यामि, वारयितव्यो वः स्व.जनः पाप.आचारह्_" इति ॥५.१४यं च_अत्र_अपसर्प.उपदेशेन शम्या.प्रतोद.आदीनाम् अपहर्तारं जानीयात् तम् एषां प्रत्यादिशेत् "एष राज्ञः प्रभावः" इति ॥५.१५पुराण.चोर.गो.पालक.व्याध.श्व.गणिनश् च वन.चोर.आटविकान् अनुप्रविष्टाः प्रभूत.कूट.हिरण्य.कुप्य.भाण्डेषु सार्थ.व्रज.ग्रामेष्व् एनान् अभियोजयेयुः ॥५.१६अभियोगे गूढ.बलैर् घातयेयुः, मदन.रस.युक्तेन वा पथ्य्.अदनेन ॥५.१७गृहीत.लोप्त्र.भारान् आयत.गत.परिश्रान्तान् प्रस्वपतः प्रहवणेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥५.१८पूर्ववच् च गृहीत्वा_एनान् समाहर्ता प्ररूपयेत् ।५.१८सर्वज्ञ.ख्यापनं राज्ञः कारयन् राष्ट्र.वासिषु ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP