अर्थशास्त्रम् अध्याय ०४ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१.०१
प्रदेष्टारस् त्रयस् त्रयो_अमात्याः कण्टक.शोधनं कुर्युः ॥

१.०२
अर्थ्य.प्रतीकाराः कारु.शासितारः संनिक्षेप्तारः स्व.वित्त.कारवः श्रेणी.प्रमाणा निक्षेपं गृह्णीयुः ॥

१.०३
विपत्तौ श्रेणी निक्षेपं भजेत ॥

१.०४
निर्दिष्ट.देश.काल.कार्यं च कर्म कुर्युः, अनिर्दिष्ट.देश.कालं कार्य.अपदेशम् ॥

१.०५
काल.अतिपातने पाद.हीनं वेतनं तद्.द्वि.गुणश् च दण्डः ॥

१.०६
अन्यत्र भ्रेष.उपनिपाताभ्यां नष्टं विनष्टं वा_अभ्यावहेयुः ॥

१.०७
कार्यस्य_अन्यथा.करणे वेतन.नाशस् तद्.द्वि.गुणश् च दण्डः ॥

१.०८
तन्तु.वाया दश.एकादशिकं सूत्रं वर्धयेयुः ॥

१.०९
वृद्धिच्.छेदे छेद.द्वि.गुणो दण्डः ॥

१.१०
सूत्र.मूल्यं वान.वेतनं, क्षौम.कौशेयानाम् अध्यर्ध.गुणं, पत्त्र.ऊर्णा.कम्बल.दुकूलानां द्वि.गुणम् ॥

१.११
मान.हीने हीन.अवहीनं वेतनं तद्.द्वि.गुणश् च दण्डः, तुला.हीने हीन.चतुर्.गुणो दण्डः, सूत्र.परिवर्तने मूल्य.द्वि.गुणः ॥

१.१२
तेन द्वि.पट.वानं व्याख्यातम् ॥

१.१३
ऊर्णा.तुलायाः पञ्च.पलिको विहननच्.छेदो रोमच्.छेदश् च ॥

१.१४
रजकाः काष्ठ.फलक.श्लक्ष्ण.शिलासु वस्त्राणि नेनिज्युः ॥

१.१५
अन्यत्र नेनिजतो वस्त्र.उपघातं षट्.पणं च दण्डं दद्युः ॥

१.१६
मुद्गर.अङ्काद् अन्यद् वासः परिदधानास् त्रि.पणं दण्डं दद्युः ॥

१.१७
पर.वस्त्र.विक्रय.अवक्रय.आधानेषु च द्वादश.पणो दण्डः, परिवर्तने मूल्य.द्वि.गुणो वस्त्र.दानं च ॥

१.१८
मुकुल.अवदातं शिला.पट्ट.शुद्धं धौत.सूत्र.वर्णं प्रमृष्ट.श्वेतं च_एक.रात्र.उत्तरं दद्युः ॥

१.१९
पञ्च.रात्रिकं तनु.रागं, षड्.रात्रिकं नीलं, पुष्प.लाक्षा.मञ्जिष्ठा.रक्तं गुरु.परिकर्म यत्न.उपचार्यं जात्यं वासः सप्त.रात्रिकम् ॥

१.२०
ततः परं वेतन.हानिं प्राप्नुयुः ॥

१.२१
श्रद्धेया राग.विवादेषु वेतनं कुशलाः कल्पयेयुः ॥

१.२२
परार्ध्यानां पणो वेतनं, मध्यमानाम् अर्ध.पणः, प्रत्यवराणां पादः, स्थूलकानां माषक.द्वि.माषकं, द्वि.गुणं रक्तकानाम् ॥

१.२३
प्रथम.नेजने चतुर्.भागः क्षयः, द्वितीये पञ्च.भागः ॥

१.२४
तेन_उत्तरं व्याख्यातम् ॥

१.२५
रजकैस् तुन्न.वाया व्याख्याताः ॥

१.२६
सुवर्ण.काराणाम् अशुचि.हस्ताद् रूप्यं सुवर्णम् अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्.विंशति.पणः, चोर.हस्ताद् अष्ट.चत्वारिंशत्.पणः ॥

१.२७
प्रच्छन्न.विरूप.मूल्य.हीन.क्रयेषु स्तेय.दण्डः, कृत.भाण्ड.उपधौ च ॥

१.२८
सुवर्णान् माषकम् अपहरतो द्वि.शतो दण्डः, रूप्य.धरणान् माषकम् अपहरतो द्वादश.पणः ॥

१.२९
तेन_उत्तरं व्याख्यातम् ॥

१.३०
वर्ण.उत्कर्षम् अपसारणं योगं वा साधयतः पञ्च.शतो दण्डः ॥

१.३१
तयोर् अपचरणे रागस्य_अपहारं विद्यात् ॥

१.३२
माषको वेतनं रूप्य.धरणस्य, सुवर्णस्य_अष्ट.भागः ॥

१.३३
शिक्षा.विशेषेण द्वि.गुणो वेतन.वृद्धिः ॥

१.३४
तेन_उत्तरं व्याख्यातम् ॥

१.३५
ताम्र.वृत्त.कंस.वैकृन्तक.आर.कूटकानां पञ्चकं शतं वेतनम् ॥

१.३६
ताम्र.पिण्डो दश.भाग.क्षयः ॥

१.३७
पल.हीने हीन.द्वि.गुणो दण्डः ॥

१.३८
तेन_उत्तरं व्याख्यातम् ॥

१.३९
सीस.त्रपु.पिण्डो विंशति.भाग.क्षयः ॥

१.४०
काकणी च_अस्य पल.वेतनम् ॥

१.४१
काल.आयस.पिण्डः पञ्च.भाग.क्षयः ॥

१.४२
काकणी.द्वयं च_अस्य पल.वेतनम् ॥

१.४३
तेन_उत्तरं व्याख्यातम् ॥

१.४४
रूप.दर्शकस्य स्थितां पण.यात्राम् अकोप्यां कोपयतः कोप्याम् अकोपयतो द्वादश.पणो दण्डः ॥

१.४५
व्याजी.परिशुद्धौ पण.यात्रा ॥

१.४६
पणान् माषकम् उपजीवतो द्वादश.पणो दण्डः ॥

१.४७
तेन_उत्तरं व्याख्यातम् ॥

१.४८
कूट.रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः ॥

१.४९
चरक.पांसु.धावकाः सार.त्रि.भागं, द्वौ राजा रत्नं च ॥

१.५०
रत्न.अपहार उत्तमो दण्डः ॥

१.५१
खनि.रत्न.निधि.निवेदनेषु षष्ठम् अंशं निवेत्ता लभेत, द्वादशम् अंशं भृतकः ॥

१.५२
शत.सहस्राद् ऊर्ध्वं राज.गामी निधिः ॥

१.५३
ऊने षष्ठम् अंशं दद्यात् ॥

१.५४
पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व.करणेन समग्रं लभेत ॥

१.५५
स्व.करण.अभावे पञ्च.शतो दण्डः, प्रच्छन्न.आदाने सहस्रम् ॥

१.५६
भिषजः प्राण.आबाधिकम् अनाख्याय_उपक्रममाणस्य विपत्तौ पूर्वः साहस.दण्डः, कर्म.अपराधेन विपत्तौ मध्यमः ॥

१.५७
मर्म.वध.वैगुण्य.करणे दण्ड.पारुष्यं विद्यात् ॥

१.५८
कुशीलवा वर्षा.रात्रम् एकस्था वसेयुः ॥

१.५९
काम.दानम् अतिमात्रम् एकस्य_अतिवादं च वर्जयेयुः ॥

१.६०
तस्य_अतिक्रमे द्वादश.पणो दण्डः ॥

१.६१
कामं देश.जाति.गोत्र.चरण.मैथुन.अवहासेन नर्मयेयुः ॥

१.६२
कुशीलवैश् चारणा भिक्षुकाश् च व्याख्याताः ॥

१.६३
तेषाम् अयः.शूलेन यावतः पणान् अभिवदेयुस् तावन्तः शिफा.प्रहारा दण्डाः ॥

१.६४
शेषाणां कर्मणां निष्पत्ति.वेतनं शिल्पिनां कल्पयेत् ॥

१.६५
एवं चोरान् अचोर.आख्यान् वणिक्.कारु.कुशीलवान् ।

१.६६
भिक्षुकान् कुहकांश् च_अन्यान् वारयेद् देश.पीडनात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP