संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ४| भाग ४ अध्याय ४ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ अर्थशास्त्रम् अध्याय ०४ - भाग ४ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ४ Translation - भाषांतर ४.०१समाहर्तृ.प्रणिधौ जन.पद.रक्षणम् उक्तम् ॥४.०२तस्य कण्टक.शोधनं वक्ष्यामः ॥४.०३समाहर्ता जन.पदे सिद्ध.तापस.प्रव्रजित.चक्र.चर.चारण.कुहक.प्रच्छन्दक.कार्तान्तिक.नैमित्तिक.मौहूर्तिक.चिकित्सक.उन्मत्त.मूक.बधिर.जड.अन्ध.वैदेहक.कारु.शिल्पि.कुशीलव.वेश.शौण्डिक.आपूपिक.पाक्व.मांसिक.औदनिक.व्यञ्जनान् प्रणिदध्यात् ॥४.०४ते ग्रामाणाम् अध्यक्षाणां च शौच.आशौचं विद्युः ॥४.०५यं च_अत्र गूढ.आजीविनं शङ्केत तं सत्त्रिणा_अपसर्पयेत् ॥४.०६धर्मस्थं विश्वास.उपगतं सत्त्री ब्रूयात् - "असौ मे बन्धुर् अभियुक्तः, तस्य_अयम् अनर्थः प्रतिक्रियताम्, अयं च_अर्थः प्रतिगृह्यताम्" इति ॥४.०७स चेत् तथा कुर्याद् उपदा.ग्राहक इति प्रवास्येत ॥४.०८तेन प्रदेष्टारो व्याख्याताः ॥४.०९ग्राम.कूटम् अध्यक्षं वा सत्त्री ब्रूयात् - "असौ जाल्मः प्रभूत.द्रव्यः, तस्य_अयम् अनर्थः, तेन_एनम् आहारयस्व" इति ॥४.१०स चेत् तथा कुर्याद् उत्कोचक इति प्रवास्येत ॥४.११कृतक.अभियुक्तो वा कूट.साक्षिणो_अभिज्ञात.अनर्थ.वैपुल्येन_आरभेत ॥४.१२ते चेत् तथा कुर्युः कूट.साक्षिण इति प्रवास्येरन् ॥४.१३तेन कूट.श्रावण.कारका व्याख्याताः ॥४.१४यं वा मन्त्र.योग.मूल.कर्मभिः श्माशानिकैर् वा संवदन.करकं मन्येत तं सत्त्री ब्रूयात् - "अमुष्य भार्यां स्नुषां दुहितरं वा कामये, सा मां प्रतिकामयताम्, अयं च_अर्थः प्रतिगृह्यताम्" इति ॥४.१५स चेत् तथा कुर्यात् संवदन.कारक इति प्रवास्येत ॥४.१६तेन कृत्य.अभिचार.शीलौ व्याख्यातौ ॥४.१७यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य.आहार.व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् - "असौ मे शत्रुः, तस्य_उपघातः क्रियताम्, अयं च_अर्थः प्रतिगृह्यताम्" इति ॥४.१८स चेत् तथा कुर्याद् रसद इति प्रवास्येत ॥४.१९तेन मदन.योग.व्यवहारी व्याख्यातः ॥४.२०यं वा नाना.लोह.क्षाराणाम् अङ्गार.भस्म.असंदंश.मुष्टिक.अधिकरणी.बिम्ब.टङ्क.मूषाणाम् अभीक्ष्ण.क्रेतारं मषी.भस्म.धूम.दिग्ध.हस्त.वस्त्र.लिङ्गं कर्मार.उपकरण.संसर्गं कूट.रूप.कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण च_अनुप्रविश्य प्रज्ञापयेत् ॥४.२१प्रज्ञातः कूट.रूप.कारक इति प्रवास्येत ॥४.२२तेन रागस्य_अपहर्ता कूट.सुवर्ण.व्यवहारी च व्याख्यातः ॥४.२३आरब्धारस् तु हिंसायां गूढ.आजीवास् त्रयोदश ।४.२३प्रवास्या निष्क्रय.अर्थं वा दद्युर् दोष.विशेषतः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP