संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ४| भाग १० अध्याय ४ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ अर्थशास्त्रम् अध्याय ०४ - भाग १० अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १० Translation - भाषांतर १०.०१तीर्थ.घात.ग्रन्थि.भेद.ऊर्ध्व.कराणां प्रथमे_अपराधे संदेशच्.छेदनं चतुष्.पञ्चाशत्.पणो वा दण्डः, द्वितीये छेदनं पणस्य शत्यो वा दण्डः, तृतीये दक्षिण.हस्त.वधश् चतुः.शतो वा दण्डः, चतुर्थे यथा.कामी वधः ॥१०.०२पञ्च.विंशति.पण.अवरेषु कुक्कुट.नकुल.मार्जार.श्व.सूकर.स्तेयेषु हिंसायां वा चतुष्.पञ्चाशत्.पणो दण्डः, नास.अग्रच्.छेदनं वा_ चण्डाल.अरण्य.चराणाम् अर्ध.दण्डाः ॥१०.०३पाश.जाल.कूट.अवपातेषु बद्धानां मृग.पशु.पक्षि.व्याल.मत्स्यानाम् आदाने तच् च तावच् च दण्डः ॥१०.०४मृग.द्रव्य.वनान् मृग.द्रव्य.अपहारे शात्यो दण्डः ॥१०.०५बिंब.विहार.मृग.पक्षि.स्तेये हिंसायां वा द्वि.गुणो दण्डः ॥१०.०६कारु.शिल्पि.कुशीलव.तपस्विनां क्षुद्रक.द्रव्य.अपहारे शत्यो दण्डः, स्थूलक.द्रव्य.अपहारे द्वि.शतः, कृषि.द्रव्य.अपहारे च ॥१०.०७दुर्गम् अकृत.प्रवेशस्य प्रविशतः प्राकारच्.छिद्राद् वा निक्षेपं गृहीत्वा_अपसरतः काण्डरा.वधो, द्वि.शातो वा दण्डः ॥१०.०८चक्र.युक्तं नावं क्षुद्र.पशुं वा_अपहरत एक.पाद.वधः, त्रि.शतो वा दण्डः ॥१०.०९कूट.काकण्य्.अक्ष.अराला.शलाका.हस्त.विषम.कारिण एक.हस्त.वधः, चतुः.शतो वा दण्डः ॥१०.१०स्तेन.पारदारिकयोः साचिव्य.कर्मणि स्त्रियाः संगृहीतायाश् च कर्ण.नासाच्.छेदनम्, पञ्च.शतो वा दण्डः, पुंषो द्वि.गुणः ॥१०.११महा.पशुम् एकं दासं दासीं वा_अपहरतः प्रेत.भाण्डं वा विक्रीणानस्य द्वि.पाद.वधः, षट्.छतो वा दण्डः ॥१०.१२वर्ण.उत्तमानां गुरूणां च हस्त.पाद.लङ्घने राज.यान.वाहन.आद्य्.आरोहणे च_एक.हस्त.पाद.वधः, सप्त.शतो वा दण्डः ॥१०.१३शूद्रस्य ब्राह्मण.वादिनो देव.द्रव्यम् अवस्तृणतो राज.द्विष्टम् आदिशतो द्वि.नेत्र.भेदिनश् च योग.अञ्जनेन_अन्धत्वम्, अष्ट.शतो वा दण्डः ॥१०.१४चोरं पारदारिकं वा मोक्षयतो राज.शासनम् ऊनम् अतिरिक्तं वा लिखतः कन्यां दासीं वा स-हिरण्यम् अपरहतः कूट.व्यवहारिणो विमांस.विक्रयिणश् च वाम.हस्त.द्वि.पाद.वधो, नव.शतो वा दण्डः ॥१०.१५मानुष.मांस.विक्रये वधः ॥१०.१६देव.पशु.प्रतिमा.मनुष्य.क्षेत्र.गृह.हिरण्य.सुवर्ण.रत्न.सस्य.अपहारिण उत्तमो दण्डः, शुद्ध.वधो वा ॥१०.१७पुरुषं च_अपराधं च कारणं गुरु.लाघवम् ।१०.१७अनुबन्धं तदात्वं च देश.कालौ समीक्ष्य च ॥१०.१८उत्तम.अवर.मध्यत्वं प्रदेष्टा दण्ड.कर्मणि ।१०.१८राज्ञश् च प्रकृतीनां च कल्पयेद् अन्तरा स्थितः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP