संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ४| भाग १२ अध्याय ४ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ अर्थशास्त्रम् अध्याय ०४ - भाग १२ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १२ Translation - भाषांतर १२.०१सवर्णाम् अप्राप्त.फलां प्रकुर्वतो हस्त.वधः, चतुः.शतो वा दण्डः ॥१२.०२मृतायां वधः ॥१२.०३प्राप्त.फलां प्रकुर्वतो मध्यमा.प्रदेशिनी.वधो, द्वि.शतो वा दण्डः ॥१२.०४पितुश् च_अवहीनं दद्यात् ॥१२.०५न च प्राकाम्यम् अकामायां लब्भेत ॥१२.०६सकामायां चतुष्.पञ्चाशत्.पणो दण्डः, स्त्रियास् त्व् अर्ध.दण्डः ॥१२.०७पर.शुल्क.अवरुद्धायां हस्त.वधः, चतुः.शतो वा दण्डः, शुल्क.दानं च ॥१२.०८सप्त.आर्तव.प्रजातां वरणाद् ऊर्ध्वम् अलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुर् अवहीनं दद्यात् ॥१२.०९ऋतु.प्रतिरोधिभिः स्वाम्याद् अपक्रामति ॥१२.१०त्रि.वर्ष.प्रजात.आर्तवायास् तुल्यो गन्तुम् अदोषः, ततः परम् अतुल्यो_अप्य् अनलंकृतायाः ॥१२.११पितृ.द्रव्य.आदाने स्तेयं भजेत ॥१२.१२परम् उद्दिश्य_अन्यस्य विन्दतो द्वि.शतो दण्डः ॥१२.१३न च प्राकांयम् अकामायां लभेत ॥१२.१४कन्याम् अन्यां दर्शयित्वा_अन्यां प्रयच्छतः शत्यो दण्डस् तुल्यायाम्, हीनायां द्वि.गुणः ॥१२.१५प्रकर्मण्य् अकुमार्याश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्क.व्यय.कर्मणी च प्रतिदद्यात् ॥१२.१६अवस्थाय तज्.जातं पश्चात्.कृता द्वि.गुणं दद्यात् ॥१२.१७अन्य.शोणित.उपधाने द्विशतो दण्डः, मिथ्या.अभिशंसिनश् च पुंसः ॥१२.१८शुल्क.व्यय.कर्मणी च जीयेत ॥१२.१९न च प्राकांयम् अकामायां लभेत ॥१२.२०स्त्री.प्रकृता सकामा समाना द्वादश.पणं दण्डं दद्यात्, प्रकर्त्री द्वि.गुणम् ॥१२.२१अकामायाः शत्यो दण्ड आत्म.राग.अर्थम्, शुल्क.दानं च ॥१२.२२स्वयं प्रकृता राज.दास्यं गच्छेत् ॥१२.२३बहिर्.ग्रामस्य प्रकृतायां मिथ्या.अभिशंसने च द्वि.गुणो दण्डः ॥१२.२४प्रसह्य कन्याम् अपहरतो द्वि.शतः, स-सुवर्णाम् उत्तमः ॥१२.२५बहूनां कन्या.अपहारिणां पृथग् यथा.उक्ता दण्डाः ॥१२.२६गणिका.दुहितरं प्रकुर्वतश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्कं मातुर् भोगः षोडश.गुणः ॥०४.१२.२७दासस्य दास्या वा दुहितरम् अदासीं प्रकुर्वतश् चतुर्.विंशति.पणो दण्डः शुल्क.आबन्ध्य.दानं च ॥१२.२८निष्क्रय.अनुरूपां दासीं प्रकुर्वतो द्वादश.पणो दण्डो वस्त्र.आबन्ध्य.दानं च ॥१२.२९साचिव्य.अवकाश.दाने कर्तृ.समो दण्डः ॥१२.३०प्रोषित.पतिकाम् अपचरन्तीं पति.बन्धुस् तत्.पुरुषो वा संगृह्णीयात् ॥१२.३१संगृहीता पतिम् आकाङ्क्षेत ॥१२.३२पतिश् चेत् क्षमेत विसृज्येत_उभयम् ॥१२.३३अक्षमायां स्त्रियाः कर्ण.नास.आच्छेदनम्, वधं जारश् च प्राप्नुयात् ॥१२.३४जारं चोर इत्य् अभिहरतः पञ्च.शतो दण्डः, हिरण्येन मुञ्चतस् तद्.अष्ट.गुणः ॥१२.३५केशाकेशिकं संग्रहणम्, उपलिङ्गनाद् वा शरीर.उपभोगानाम्, तज्.जातेभ्यः(तज्.ज्ञातेभ्यः? च्f.ण्१२.६०)), स्त्री.वचनाद् वा ॥१२.३६पर.चक्र.अटवी.हृताम् ओघ.प्रव्यूढाम् अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत.भाव.उत्सृष्टां वा पर.स्त्रियं निस्तारयित्वा यथा.संभाषितं समुपभुञ्जीत ॥१२.३७जाति.विशिष्टाम् अकामाम् अपत्यवतीं निष्क्रयेण दद्यात् ॥१२.३८चोर.हस्तान् नदी.वेगाद् दुर्भिक्षाद् देश.विभ्रमात् ।१२.३८निस्तारयित्वा कान्तारान् नष्टां त्यक्तां मृता_इति वा ॥१२.३९भुञ्जीत स्त्रियम् अन्येषां यथा.संभाषितं नरः ।१२.३९न तु राज.प्रतापेन प्रमुक्तां स्वजनेन वा ॥१२.४०न च_उत्तमां न च_अकामां पूर्व.अपत्यवतीं न च ।१२.४०ईदृशीं त्व् अनुरूपेण निष्क्रयेण_अपवाहयेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP