संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय १५ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय १५ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय १५ Translation - भाषांतर अथार्शःगुदस्य बहिरन्तर्वा जायन्ते चर्मकीलकाः ।सर्वरोगकराः पुंसामर्शांसीति हि विश्रुताः ॥१॥रुधिरस्राविणस्तेषां पित्तजाः परिकीर्तिताः ॥२॥वातजा निःसहोत्थाना उदावर्तं प्रकुर्वते ॥३॥श्वयथुं श्लेष्मजाः कुर्युः सर्वं कुर्युस्त्रिदोषजाः ॥४॥अर्शःकुठाररसःशुद्धसूतं पलैकं तु द्विपलं शुद्धगन्धकम् ।मृतं ताम्रं मृतं लोहं प्रत्येकं तु पलत्रयम् ॥५॥त्र्यूषणं लाङ्गली दन्ती पिरुकं चित्रकं तथा ।प्रत्येकं द्विपलं योज्यं यवक्षारं च टङ्कणम् ॥६॥उभौ पञ्चपलौ योज्यौ सैन्धवं पलपञ्चकम् ।द्वात्रिंशत्पलगोमूत्रं स्नुहीक्षीरं च तत्समम् ॥७॥मृद्वग्निना पचेत्स्थाल्यां सर्वं यावत्सुपिण्डितम् ।माषद्वयं सदा खादेद् रसो ह्यर्शःकुठारकः ।तक्रेण दाडिमाम्भोभिः पक्वकन्देन वाथ तत् ॥८॥मृतसूतार्कहेमाभ्रतीक्ष्णमुण्डं सगन्धकम् ।मण्डूरं माक्षिकं तुल्यं मर्द्यं कन्याद्रवैर्दिनम् ॥९॥अन्धमूषागतं पाच्यं त्रिदिनं तुषवह्निना ।चूर्णितं सितया माषं खादेत्पित्तार्शसां जयेत् ॥१०॥सर्वलोकाश्रयरसःशुद्धं सूतं पलं गन्धं गन्धार्धं तालताप्यकम् ।अमृतं रसकं चैव तालकार्धविभागिकम् ॥११॥एतेषां कज्जलीं कुर्याद् दृढं संमर्द्य वासरम् ।त्रिदिनं मर्दयेच्चाथ दत्त्वा निम्बुजलं खलु ॥१२॥वटीकृत्य विशोष्याथ काचकुप्यां निधापयेत् ।निष्कतुल्यार्कपत्रेण पिधायास्यं प्रयत्नतः ॥१३॥सार्धांगुलमितोत्सेधं मृत्स्नया तां विलेप्य च ।नतो भाण्डतृतीयांशे सिकतापरिपूरिते ॥१४॥निधाय सिकतामूर्ध्नि सिकताभिः प्रपूरयेत् ।रुद्ध्वास्यं तदधो वह्निं ज्वालयेत्सार्धवासरम् ॥१५॥स्वांगशीतलितं काचघटादाकृष्य तं रसम् ।पटचूर्णं विधायाथ ताम्रमभ्रं पलद्वयम् ॥१६॥पलार्धममृतं चैव मरिचं च चतुष्पलम् ।एकीकृत्य क्षिपेत्सर्वं नारिकेलकरण्डके ॥१७॥साज्यो गुञ्जाद्विमानो हरति रसवरः सर्वलोकाश्रयोऽयं वातश्लेष्मोत्थरोगान्गुदजनितगदं शोषपाण्ड्वामयं च ।यक्ष्माणं वातशूलं ज्वरमपि निखिलं वह्निमान्द्यं च गुल्मं तत्तद्रोगघ्नयोगैः सकलगदचयं दीपनं तत्क्षणेन ॥१८॥अर्शोघ्नवटकअर्शोघ्नं वटकं वक्ष्ये पुत्रकं शृणु भद्रक ।पिप्पली पिप्पलीमूलवनसूरणचित्रकम् ॥१९॥मारिचं कण्टकारी च रक्तपुष्पी समांशका ।पलमेकं पृथक् सर्वं श्लक्ष्णं दृषदि पेषयेत् ॥२०॥गजाजपशुमूत्रेषु शुभे भाण्डे विनिक्षिपेत् ।मृद्वग्निना पचेत्सर्वं चूर्णशेषं यथा भवेत् ॥२१॥लोणत्रयं च तत्रैव पलमेकं तु निक्षिपेत् ।अक्षप्रमाणवटकान्कुर्यादेवं पृथक्पृथक् ॥२२॥त्रिंशद्दिनानि मतिमानर्शोघ्नं दीपनं परम् ।घृततक्रसमायुक्तं भोजनं संप्रदापयेत् ॥२३॥अर्शोघ्नी वटिकागन्धकं तारताम्रं च कृत्वा चैकत्र पिष्टिकाम् ।तत्समं चाभ्रकं तीक्ष्णं गन्धकात्पञ्चमांशकम् ॥२४॥विषं च षोडशांशेन द्वौ भागौ सूतकस्य च ।एकीकृत्य प्रयत्नेन जम्बीरद्रवमर्दितम् ॥२५॥भाजने मृण्मये स्थाप्य वराक्वाथेन भावयेत् ।दशमूलशतावर्योः क्वाथे पाच्यः क्रमेण हि ॥२६॥अथोत्तार्य प्रयत्नेन वटिकां कारयेद् बुधः ।गुञ्जात्रयप्रमाणेन हन्ति शूलं गुदाङ्कुरम् ॥२७॥मूलकुठाररसःवरनागं तथा व्योमसत्त्वं शुल्बं च तीक्ष्णकम् ।सर्वमेकत्र विद्राव्य क्षिप्त्वालं चाल्पमल्पकम् ॥२८॥चालयेदनिशं यावत्तालकं त्रिगुणं खलु ।ततस्तेन विमर्द्याथ पिष्टीं कुर्याद्रसेन तु ॥२९॥ततो भल्लातकीवृक्षमूलान्तस्थां खनेच्च ताम् ।मासादाकृष्य तां पिष्टीं गव्यदुग्धे विनिक्षिपेत् ॥३०॥ततो भल्लातकीतैलं हृतं पातालयन्त्रतः ।आयसे भाजने स्निग्धे पिष्टिकां तां निवेश्य च ॥३१॥प्रस्थमात्रं हि तत्तैलं जारयेद् अतियत्नतः ।तत्तैलभावितैर्गन्धैः पुटित्वा भस्मतां व्रजेत् ॥३२॥ततः कार्तिकमासोत्थकोरंटदलजै रसैः ।रसं संमर्द्य संमर्द्य घर्मे संस्थाप्य मारयेत् ॥३३॥तद्भस्म मेलयेत्पूर्वभस्मना समभागिकम् ।वनसूरणनिर्गुण्डीमहाराष्ट्रीभकण्टिका ॥३४॥वज्रवल्ली शिखी चैषां रसैः पिष्ट्वा विशोषयेत् ।त्रिवारं मार्कवद्रावैर्द्रावयित्वा विशोषयेत् ।चूर्णीकृत्य प्रयत्नेन क्षिपेत्काचकरण्डके ॥३५॥सोऽयं मूलकुठारको रसवरो दीप्याग्निवेल्लोत्तमासंयुक्तः सघृतश्च वल्लतुलितः संसेवितो नाशयेत् ।अर्शांस्यानननासिकाक्षिगुदजान्यत्युग्रपीडानि च प्लीहानं ग्रहणीं च गुल्मयकृतौ मान्द्यं च कुष्ठामयान् ॥३६॥रसग्रस्तसमुद्गीर्णगन्धकस्य पलत्रयम् ।मृतसूताभ्रताम्रायः कर्षं कर्षं पृथक् पृथक् ॥३७॥पलं हिङ्गुलचूर्णस्य माक्षिकस्य पलत्रयम् ।पलं कम्पिल्लकस्यापि विषस्यार्धपलं तथा ॥३८॥सप्ताहं मर्दयेत्सर्वं दत्त्वा चूर्णोदकं मुहुः ।ततस्तद्गोलकं कृत्वा सप्ताहं चातपे क्षिपेत् ॥३९॥गुडचूर्णं शिलाचूर्णं लिम्पेदङ्गुलिकाघनम् ।त्रिपलं गन्धकं दत्त्वा क्रौञ्च्याम् अथ च गोलकम् ॥४०॥गोलकस्योपरिष्टाच्च क्षिपेत्तालपलत्रयम् ।संरुध्यातिप्रयत्नेन दद्याद्गजपुटं खलु ॥४१॥स्वाङ्गशीतलमाहृत्य गोलकं लेपनैः सह ।विचूर्ण्य सप्तवारं हि विषतिन्दुफलोद्भवैः ॥४२॥द्रवैरथातपे शुष्कं क्षिपेद्रम्ये करण्डके ।त्रिंशदंशेन वैक्रान्तभस्म तस्मिन्विनिक्षिपेत् ॥४३॥अयं हि नन्दीश्वरसम्प्रदिष्टो रसो विशिष्टः खलु रोगहन्ता ।निःशेषरोगेष्वहतप्रतापो महोदयप्रत्ययसारनामा ॥४४॥हन्यात्सर्वगुदामयान्क्षयगदं कुष्ठं च मन्दाग्नितां शूलाध्मानगदं कफं श्वसनताम् उन्मादकापस्मृती ।सर्वा वातरुजो महाज्वरगदान् नानाप्रकारांस्तथा वातश्लेष्मभवं महामयचयं दुष्टग्रहण्यामयम् ॥४५॥कनकसुन्दररसःस्याद्रसं धौतमाक्षीकं कान्ताभ्रं नागहाटकम् ।पृथ्वीभटेन संतुल्यं सर्वतुल्यं च गन्धकम् ॥४६॥दत्त्वा विद्याधरे यन्त्रे पुटेदारण्यकोत्पलैः ।स्वाङ्गशीतलम् उद्धृत्य त्र्यूषणेन विमिश्रयेत् ॥४७॥अर्शोव्याधौ कटीशूले चक्षुःशूले च दारुणे ।सन्निपाते क्षये कासे श्वासे मन्दानले ज्वरे ॥४८॥कर्णशूले शिरःशूले दन्तशूले प्रयोजयेत् ।पीनसे प्लीह्नि हृच्छूले ग्रन्थिवाते च दारुणे ॥४९॥एकाङ्गे वा धनुर्वाते कम्पवाते च मूर्छिते ।ज्वरांश्च विषमान् सर्वान्हन्ति रोगाननेकधा ॥५०॥सेवितः पथ्ययोगेन रसः कनकसुन्दरः ।गुञ्जामात्रं ददीतास्य यथायुक्तानुपानतः ॥५१॥घृतेन संयुतो वाते मधुना पैत्तिके ज्वरे ।पिप्पल्या श्लैष्मिके देयः पित्तोद्भूते सचन्दनः ॥५२॥तक्रेण श्लेष्मवातोत्थे वातपित्ते घृतान्वितः ।श्लेष्मपित्ते चार्द्रकेण निर्गुण्ड्या सान्निपातिके ॥५३॥फलत्रयेण शूलेषु विषमेषु ज्वरेष्वपि ।आर्द्रकेणाथ वा दद्याद्वह्निमान्द्ये विशेषतः ॥५४॥अभिष्यन्दे शिरःशूले गायत्रीबोलसंयुतम् ।पक्षिमांससमायुक्तं कफवाते च मूर्छिते ॥५५॥एकाङ्गे च धनुर्वाते क्षीरयुक्तं च पीनसे ।पाण्डुरोगे क्षये कासे मरिचाज्यैश्च कामले ॥५६॥अजमोदाविडङ्गैश्च नाभिशूलेऽग्निमान्द्यजित् ।रूक्षज्वरेऽरुचौ देयः कदलीफलसंयुतः ।बोलेनार्धकटीशूले भाषितं नागबोधिना ॥५७॥अर्केशःनागं पारदगन्धकं त्रिलवणं वायर्कजं मेलयेद् एकैकं च पलं पलं त्रयमतः पञ्च क्रमान्मर्दयेत् ।सर्वं तद्दिवसत्रयं तदनु तद्दत्त्वा पुटं भावनाः कुर्यात्सत्रिफलाग्निवेतसरसैः पञ्चाधिका विंशतिः ॥५८॥पञ्चैतत् क्रमशस्ततो गुडभवैर् दत्तोऽस्य वल्लो जलैर् हन्त्यर्शांस्यखिलानि सूरणघृतैस्तस्यान्नम् अस्मिन्हितम् ।अर्केशः परिवर्ज्यतामिति मुनिः श्रीवासुदेवोऽवदत् कूष्माण्डीफलमाषपायसम् अतिव्यायामम् अर्कातपम् ॥५९॥तीक्ष्णमुखरसःरसेन्द्रहेमार्कबिडालगोलसुरायसलोहमलाभ्रगन्धाः ।ताप्यं च कन्यारसमर्दितोऽयं पक्वः पुटे तीक्ष्णमुखोऽर्शसां स्यात् ॥६०॥अर्शःकुठाररसःश्रेष्ठा दन्त्यग्नियुग्मत्रिकटुकहलिनीपीलुकुम्भं विपक्वं प्रस्थे मूत्रस्य सस्नुक्पयसि रसपलं द्वे पले गन्धकस्य ।लोहस्य त्रीणि ताम्रात्कुडवमथ रजःक्षारयोश्चापि पञ्च क्षिप्त्वा स्थाल्यां पचेत्तु ज्वलति दहनतश्चूर्णम् अर्शःकुठारः ॥६१॥त्रैलोक्यतिलकरसःवज्रकृष्णाभ्रजं सत्त्वं शोधितं काचटङ्कणम् ।रेतयित्वा रजःकृत्वा भर्जयित्वा घृतेन तत् ॥६२॥अष्टांशसस्यकोपेतं पुटेद्वारत्रयं ततः ।त्रिवारं नृपवर्तेन लुङ्गस्वरसयोगिना ॥६३॥चतुर्वारं च वर्षाभूवासामत्स्याक्षिकारसैः ।गुग्गुलुत्रिफलाक्वाथैस्त्रिंशद्वाराणि यत्नतः ॥६४॥तुल्यांशरसगन्धोत्थकज्जल्याष्टांशभागया ।पुटेत्पञ्चाशतं वारान्मर्दयेच्च पुटे पुटे ॥६५॥शोधितं रेतितं कान्तसत्वं च घृतमर्दितम् ।पुटेदष्टांशदरदैः संयुक्तं लकुचाम्बुना ॥६६॥दशवारं तथा सम्यक् तारं शुद्धं मनोह्वया ।तथा विंशतिवाराणि बलिना मीनदृग्रसैः ॥६७॥दशवाराणि ताप्येन कृष्णगोघृतयोगिना ।उभयं समभागं तत् पुटेन्निर्गुंडिकारसैः ॥६८॥रसगन्धोत्थकज्जल्या दशवारं पुटेत्पुनः ।तस्मिन्नष्टांशभागेन क्षिपेद्वैक्रान्तभस्मकम् ॥६९॥राजावर्तकलांशेन समभागेन पर्पटी ।तत्सर्वं परिमर्द्याथ भावयित्वार्द्रकाम्बुना ॥७०॥गुडूच्याः स्वरसेनापि भूकदम्बरसेन वा ।भृङ्गराजरसेनापि चित्रमूलरसेन च ॥७१॥व्योषगञ्जाकिनीकन्दैर् भूयोऽप्यार्द्रद्रवेण च ।पटचूर्णमतः कृत्वा क्षिपेच्छुद्धकरण्डके ॥७२॥त्रैलोक्यतिलकः सोऽयं ख्यातः सर्वरसोत्तमः ।सर्वव्याधिहरः श्रीमाञ्छम्भुना परिकीर्तितः ॥७३॥उदावर्तं च विड्बन्धं व्यथां च जठरोद्भवाम् ।लोहलं मन्दबुद्धित्वं शूलित्वमपि वन्ध्यताम् ॥७४॥सूतिरोगान् अशेषांश्च शूलं नानाविधं तथा ।परिणामाख्यशूलं च तथा भिन्द्यात् समुत्कटम् ॥७५॥रक्तगुल्मं च नारीणां रजःशूलं च दुःसहम् ।अनुपानं च पथ्यं च तत्तद्रोगानुरूपतः ॥७६॥सामान्योपचारःवचाहिङ्गुविडङ्गानि सैन्धवं जीरनागरम् ।मरिचं पिप्पली कुष्ठं पथ्या वह्न्यजमोदकम् ॥७७॥क्रमोत्तरगुणं चूर्णं सर्वेषां द्विगुणं गुडम् ।कर्षं चोष्णजलेनानुपिबेद्वातार्शसां जये ॥७८॥मृतं लोहं चेन्द्रयवं शुण्ठीभल्लातचित्रकम् ।बिल्वमज्जाविडङ्गानि पथ्या तुल्यं विचूर्णयेत् ॥७९॥सर्वतुल्यं गुडं योज्यं कर्षं भुक्त्वार्शसां जयेत् ।श्लेष्मार्शसां प्रशान्त्यर्थं देयमानन्दभैरवम् ।मृतताम्रेण सन्तुल्यं देयं गुञ्जात्रयं हि तत् ॥८०॥कुसुम्भमृदुपत्राणि काञ्जिकेनैव पाचयेत् ।शाकवद्भक्षयेन्नित्यमर्शोरोगप्रशान्तये ॥८१॥सामान्यलेपःदेवदाल्याश्च बीजानि सैन्धवेन सुचूर्णितः ।आरनालेन लेपोऽयं मूलरोगनिकृन्तनः ॥८२॥काञ्चनीकुसुमं चूर्णं शङ्खचूर्णं मनःशिलाम् ।गजपिप्पलिकातोयैर्लेपो ह्यर्शःकुठारकः ॥८३॥देवदाल्याः कषायेण ह्यर्शोघ्नं शौचमाचरेत् ।गुदनिःसरणं चापि शान्तिमायाति नान्यथा ॥८४॥आरनालेन सम्पिष्टा सबीजा कटुतुम्बिका ।सगुडा हन्ति लेपेन दुर्नामानि समूलतः ॥८५॥पीलुतैलेन संलिप्ता वर्तिका गुदमध्यगा ।घातयत्यर्शसां शीघ्रं सकलां वेदनां तथा ॥८६॥अर्कक्षीरं स्नुहीकांडं कटुलावुपत्रकम् ।करंजं छागमूत्रेण लेपः स्राव्यर्शसां हितः ॥८७॥शिग्रुमूलार्कजैः पत्रैर्लेपनं हितमर्शसाम् ॥८८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP