संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय ६ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय ६ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय ६ Translation - भाषांतर रसशास्त्राणि सर्वाणि समालोच्य यथाक्रमम् ।साधकानां हितार्थाय प्रकटीक्रियतेऽधुना ॥१॥न क्रमेण विना शास्त्रं न शास्त्रेण विना क्रमः ।शास्त्रं क्रमयुतं ज्ञात्वा यः करोति स सिद्धिभाक् ॥२॥आचार्यो ज्ञानवान्दक्षो रसशास्त्रविशारदः ।मन्त्रसिद्धो महावीरो निश्चलशिववत्सलः ॥३॥देवीभक्तः सदा धीरो देवतायागतत्परः ।सर्वाम्नायविशेषज्ञः कुशलो रसकर्मणि ।एवं लक्षणसंयुक्तो रसविद्यागुरुर् भवेत् ॥४॥गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः ।निरालस्याः स्वधर्मज्ञाः सदाज्ञापरिपालकाः ॥५॥दम्भमात्सर्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः ।अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः ।इत्येवं लक्षणैर्युक्ताः शिष्याः स्युः सूतसिद्धये ॥६॥सहायाः सोद्यमास्तत्र यथा शिष्यास्ततोऽधिकाः ।कुलीनाः स्वामिभक्ताश्च कर्तव्या रसकर्मणि ॥७॥नास्तिका ये दुराचाराश्चुम्बका गुरुतोऽपरात् ।विद्यां ग्रहीतुमिच्छति चौर्यच्छद्मखलोत्सवात् ॥८॥न तेषां सिध्यते किंचिन् मणिमन्त्रौषधादिकम् ।कुर्वन्ति यदि मोहेन नाशयन्ति स्वकं धनम् ।इह लोके सुखं नास्ति परलोके तथैव च ॥९॥तस्माद् भक्तिबलादेव संतुष्यति यदा गुरुः ।तदा शिष्येण सा ग्राह्या रसविद्यात्मसिद्धये ।हस्तमस्तकयोगेन वरं लब्ध्वा सुसाधयेत् ॥१०॥आतङ्करहिते देशे धर्मराज्ये मनोरमे ।उमामहेश्वरोपेते समृद्धे नगरे शुभे ॥११॥कर्तव्यं साधनं तत्र रसराजस्य धीमता ।अत्यन्तोपवने रम्ये चतुर्द्वारोपशोभिते ॥१२॥तत्र शाला प्रकर्तव्या सुविस्तीर्णा मनोरमा ।सम्यग्वातायनोपेता दिव्यचित्रैर् विचित्रिता ॥१३॥तत्समीपे समे दीप्ते कर्तव्यं रसमण्डपम् ।अतिगुप्तं सुविस्तीर्णं कपाटार्गलशोभितम् ॥१४॥ध्वजछत्त्रवितानाढ्यं पुष्पमालाविलम्बितम् ।भेरीकाहलघण्टादिशृङ्गीनादावनादितम् ॥१५॥भूः समा तत्र कर्तव्या सुदृढा दर्पणोपमा ।तन्मध्ये वेदिका रम्या कर्तव्या लक्षणान्विता ॥१६॥निष्कत्रयं हेमपत्त्रं रसेन्द्रं नवनिष्ककम् ।अम्लेन मर्दयेद् यामं तेन लिङ्गं तु कारयेत् ॥१७॥दोलायन्त्रे सारनाले जम्बीरस्थं दिनं पचेत् ।तल्लिङ्गं पूजयेत्तत्र सुशुभैरुपचारकैः ॥१८॥लिङ्गकोटिसहस्रस्य यत्फलं सम्यगर्चनात् ।तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥१९॥ब्रह्महत्यासहस्राणि गोहत्याश्चायुतानि हि ।तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् ॥२०॥स्पर्शनात्प्राप्यते मुक्तिरिति सत्यं शिवोदितम् ।आग्नेय्यां श्रीघोरेण मन्त्रराजेन चार्चयेत् ॥२१॥अष्टादशभुजं शुभ्रं पञ्चवक्त्रं त्रिलोचनम् ।प्रेतारूढं नीलकण्ठं रसलिङ्गं विचिन्तयेत् ॥२२॥तस्योत्सङ्गे महादेवीमेकवक्त्रां चतुर्भुजाम् ।अक्षमालाङ्कुशं दक्षे वामे पाशाभयं शुभम् ।दधतीं तप्तहेमाभां पीतवस्त्रां विभावयेत् ॥२३॥वाङ्मयी श्रीः कामराजशक्तिबीजं रसाङ्कुशायै नमो द्वादशार्णैषा ज्ञेया विद्या रसाङ्कुशा ॥२४॥अनया पूजयेद्देवीं गन्धपुष्पाक्षतादिभिः ।नन्दीभृङ्गीमहाकालकुलीरान् पूर्वदिक्क्रमात् ।पूजयेन् नाममन्त्रैश् च प्रणवादिनमोऽन्तकैः ॥२५॥एव नित्यार्चनं तत्र कर्तव्यं रससिद्धये ॥२६॥रसविद्या शिवेनोक्ता दातव्या साधकाय वै ।यथोक्तेन विधानेन गुरुणा मुदितात्मना ॥२७॥सुमुहूर्ते सुनक्षत्रे चन्द्रताराबलान्विते ।कलशं तोयसम्पूर्णं हेमरत्नफलैर्युतम् ॥२८॥स्थापयेद् रसलिङ्गाग्रे दिव्यवस्त्रेण वेष्टितम् ।गन्धपुष्पाक्षतैर् धूपैर् नैवेद्यैश्च सुपूजयेत् ॥२९॥पूजान्ते हवनं कुर्याद्योनिकुण्डे सुलक्षणे ।तिलाज्यैः पायसैः पुष्पैः शतपुष्पादिकैः पृथक् ॥३०॥अघोरेण रसाङ्कुश्या होमान्ते शिष्यमाह्वयेत् ।कालिनीशक्तिसंयुक्तं रससिद्धिपरायणम् ॥३१॥यस्यास्तु कुञ्चिताः केशाः श्यामा या पद्मलोचना ।सुरूपा तरुणी भिन्ना विस्तीर्णजघना शुभा ॥३२॥संकीर्णहृदया पीनस्तनभारेण नम्रिता ।चुम्बनालिङ्गस्पर्शकोमला मृदुभाषिणी ॥३३॥अश्वत्थपत्त्रसदृशयोनिदेशसुशोभिता ।कृष्णपक्षे पुष्पवती सा नारी कालिनी स्मृता ।रसबन्धे प्रयोगे च उत्तमा सा रसायने ॥३४॥तदभावे सुरूपा तु या काचित् तरुणाङ्गना ।तस्या देयं त्रिसप्ताहं गन्धकं घृतसंयुतम् ।कर्षैकैकं प्रभाते तु सा भवेत्कालिनीसमा ॥३५॥एवं शक्तियुतो योऽसौ दीक्षयेत् तं गुरूत्तमः ।सुस्नातम् अभिषिञ्चेत मन्त्रेण कलशोदकैः ॥३६॥अघोरामङ्कुशीं विद्यां दध्याच्छिष्याय सद्गुरुः ।यथाशक्त्या सुशिष्येण दातव्या गुरुदक्षिणा ॥३७॥अथाज्ञया गुरोर्मन्त्रं लक्षं लक्षं पृथग्जपेत् ।ओं ह्रां ह्रीं ह्रूं अद्योरतर प्रस्फुट २ प्रकट २ कह २ शमय २ जात २ दह २ पातय २ ओं ह्रीं ह्रैं ह्रौं ह्रूं अघोराय फट् इमम् अघोरमन्त्रं तु औं कामराजशक्तिबीजरसाङ्कुशायै आज्ञया विद्यां रसाङ्कुशाम् ।अनया पूजयेद्देवीं शक्तिम् अङ्कुशविद्यया ॥३८॥दशांशं जुहुयात्कुण्डे त्रिकोणे हस्तमात्रके ।जातिपुष्पं त्रिमध्वक्तं पूर्णान्ते कन्यकार्चनम् ॥३९॥कृत्वाथ प्रविशेच्छालां शुद्धां लिप्तां सवेदिकाम् ।षट्कोणं मण्डलं तत्र सिन्दूरेण द्विहस्तकम् ॥४०॥वेदिकायां लिखेत्सम्यक् तद्बहिश् चाष्टपत्त्रकम् ।कमलं चतुरस्रं च चतुर्द्वारैः सुशोभितम् ॥४१॥कर्णिकायां न्यसेत् खल्लं लोहजं स्वर्णलेखितम् ।तन्मध्ये रसराजं तु पलानां शतमात्रकम् ।पञ्चाशत्पञ्चविंशद् वा पूजयेद् रसलिङ्गवत् ॥४२॥वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् ।भूनागः शक्तयश्चैताः षट्कोणे पूजयेत् क्रमात् ॥४३॥उपरसगन्धतालककासीसशिलाकङ्कुष्ठभूषणम् ।राजावर्तो गैरिकं च ख्याता उपरसा अमी ।पूज्या अष्टदलेष्वेते पूर्वादीशानगं क्रमात् ॥४४॥महारसरसकं विमला ताप्यं चपला तुत्थम् अञ्जनम् ।हिङ्गुलं सस्यकं चैव ख्याता एते महारसाः ।पूर्वादीशानपर्यन्तं पत्त्राग्रेषु प्रपूजयेत् ॥४५॥पूर्वद्वारे स्वर्णरौप्ये दक्षिणे ताम्रसीसके ।पश्चिमे वङ्गकान्तौ च उत्तरे मुण्डतीक्ष्णके ।सर्वमेतद् अघोरेण पूजयेद् अङ्कुशान्वितम् ॥४६॥विडं काञ्जिकयन्त्राणि क्षारमृल्लवणानि च ।कोष्ठी मूषा वङ्कनालतुषाङ्गारवनोपलाः ॥४७॥भस्त्रिका दण्डिकानेका शिला खल्वान्युलूखलम् ।स्वर्णकारोपकरणं समस्ततुलनानि च ॥४८॥मृत्काष्ठताम्रलोहोत्थपात्राणि विविधानि च ।दिव्यौषधीनां वर्गाश्च रञ्जकस्नेहनानि च ।एतानि द्वारबाह्ये तु मूलमन्त्रेण पूजयेत् ॥४९॥वाङ्माया ह्रीं ततः क्षें च क्ष्मश्च पञ्चाक्षरो मनुः ।अनेन मन्त्रेण भैरवं तत्र पूजयेत् ।सर्वेषां रससिद्धानां नाम संकीर्तयेत् तदा ॥५०॥व्यालाचार्यश् चन्द्रसेनः सुबुद्धिर्नरवाहनः ।नागार्जुनो रत्नघोषः सुरानन्दो यशोधनः ॥५१॥इन्द्रश्च माण्डव्यश्चर्पटी शूरसेनकः ।आगमो नागबुद्धिश् च खण्डः कापालिको मतः ॥५२॥कामारिस् तान्त्रिकः शम्भुर् लङ्कालम्पटशारदौ ।बाणासुरो मुनिश्रेष्ठो गोविन्दः कपिलो बलिः ॥५३॥एते सर्वे तु सूतेन्द्रा रससिद्धा महाबलाः ।चरन्ति सर्वलोकेषु नित्या भोगपरायणाः ॥५४॥सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ।वैद्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसार्चनम् ॥५५॥हर्षयन्द्विजदेवानां तर्पयेदिष्टदेवताः ।कुमारीयोगिनीयोगीश्वरान्मेलकसाधकान् ।तर्पयेत् पूजयेद् भक्त्या यथाशक्त्यनुसारतः ॥५६॥इत्येवं सर्वसम्भारयुक्तं कुर्याद्रसोत्सवम् ।सर्वविघ्नप्रशान्त्यर्थं सर्वेप्सितफलप्रदम् ॥५७॥अन्यथा यो विमूढात्मा मन्त्रदीक्षाक्रमाद्विना ।कर्तुमिच्छति सूतस्य साधनं गुरुवर्जितः ॥५८॥नासौ सिद्धिमवाप्नोति यत्नकोटिशतैरपि ।तस्मात्सर्वप्रयत्नेन शास्त्रोक्तां कारयेत्क्रियाम् ॥५९॥सम्यक्साधनसोद्यमा गुरुयुता राजाज्ञयालंकृता नानाकर्मपराङ्मुखा रसपराश् चाढ्या जनैश्चार्थिताः ।मात्रायन्त्रसुपाककर्मकुशलाः सर्वौषधे कोविदाः तेषां सिध्यति नान्यथा विधिबलाच्छ्रीपारदः पारदः ॥६०॥रसशास्त्रं प्रदातव्यं विप्राणां धर्महेतवे ।राज्ञे वैश्याय वृद्ध्यर्थं दास्यार्थम् इतरस्य च ॥६१॥गुरौ तुष्टे शिवस्तुष्येच्छिवे तुष्टे रसस्तथा ।रसे तुष्टे क्रियाः सर्वाः सिध्यन्त्येव न संशयः ॥६२॥रसविद्या दृढं गोप्या मातुर्गुह्यमिव ध्रुवम् ।भवेद् वीर्यवती गुप्ता निर्वीर्या च प्रकाशनात् ॥६३॥न रोगिविदितं कार्यं बहुभिर्विदितं तथा ।रोगिणां बहुभिर्ज्ञातं भवेन्निर्वीर्यम् औषधम् ॥६४॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP