संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय ११ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय ११ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय ११ Translation - भाषांतर षट् त्रुट्यश् चैकलिक्षा स्यात् षड् लिक्षा यूकम् उच्यते ।षड्यूकास्तु रजःसंज्ञं कथितं तव सुव्रते ॥१॥षड्रजः सर्षपः साक्षात्सिद्धार्थः स च कीर्तितः ।षट्सिद्धार्थेन देवेशि यवस्त्वेकः प्रकीर्तितः ॥२॥षड्यवैर् एकगुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते ।षड्भिरेव तु गुञ्जाभिर्माष एकः प्रकीर्तितः ।माषा द्वादश तोलः स्यादष्टौ तोलाः पलं भवेत् ॥३॥त्रुटिः स्यादणुभिः षड्भिस्तैर्लिक्षा षड्भिरीरिता ।ताभिः षड्भिर्भवेद् यूका षड्यूकास् तद् रजः स्मृतम् ॥४॥षड्रजः सर्षपः प्रोक्तस्तैः षड्भिर्यव ईरितः ।एका गुञ्जा यवैः षड्भिर्निष्पावस्तु द्विगुञ्जकः ॥५॥स्याद्गुञ्जात्रितयं वल्लो द्वौ वल्लौ माष उच्यते ।द्वौ माषौ धरणं ते द्वे शाणनिष्ककलाः स्मृताः ॥६॥निष्कद्वयं तु वटकः स च कोल इतीरितः ।स्यात्कोलत्रितयं तोलः कर्षो निष्कचतुष्टयम् ॥७॥कर्षउदुम्बरं पाणितलं सुवर्णं कवलग्रहः ।अक्षं बिडालपदकं शुक्तिः पाणितलद्वयम् ॥८॥शुक्तिद्वयं पलं केचिदन्ये शुक्तित्रयं विदुः ।पलतदेव कथितं मुष्टिः प्रकुञ्चो बिल्वमित्यपि ॥९॥पलद्वयं तु प्रसृतं तद्द्वयं कुडवोऽञ्जलिः ।कुडवौ मानिका तौ स्यात्प्रस्थो द्वे मानिके स्मृतः ॥१०॥प्रस्थद्वयं शुभं तौ द्वौ पात्रकं द्वयमाढकम् ।तैश् चतुर्भिर् घटोन्माननल्वनार्मणशूर्पकाः ॥११॥द्रोणस्य शब्दाः पर्यायाः पलानां शतकं तुला ।चत्वारिंशत्पलशततुला भारः प्रकीर्तितः ॥१२॥रसार्णवादिशास्त्राणि निरीक्ष्य कथितं मया ।रसोपयोगि यत् किंचिद् दिङ्मात्रं तत्प्रदर्शितम् ॥१३॥अधुना रसराजस्य संस्कारान् सम्प्रचक्ष्महे ॥१४॥१८ संस्कारस्स्यात्स्वेदनं तदनु मर्दनमूर्छने च उत्थापनं पतनरोधनियामनानि ।संदीपनं गगनभक्षणमानमत्र संचारणा तदनु गर्भगता द्रुतिश्च ॥१५॥बाह्या द्रुतिः सूतकजारणा स्याद् ग्रासस्तथा सारणकर्म पश्चात् ।संक्रामणं वेधविधिः शरीरे योगस् तथाष्टादशधात्र कर्म ॥१६॥न योज्यो मर्मणि छिन्ने न च क्षाराग्निदग्धयोः ॥१७॥संस्कारस्शुद्धः स मृद्वग्निसहो मूर्छितो व्याधिनाशनः ॥१८॥निष्कम्पवेगस् तीव्राग्नाव् आयुरारोग्यदो मृतः ॥१९॥त्रिदोषविषं वह्निर्मलश्चेति दोषा नैसर्गिकास्त्रयः ।रसे मरणसंतापमूर्छानां हेतवः क्रमात् ॥२०॥यौगिकदोषाःयोगिकौ नागवङ्गौ द्वौ तौ जाड्याध्मानकुष्ठदौ ॥२१॥औपाधिकाः -कञ्चुकाःऔपाधिकाः पुनश्चान्ये कीर्तिताः सप्तकञ्चुकाः ।भूमिजा गिरिजा वार्जास् ते च द्वे नागवङ्गजौ ॥२२॥द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः ॥२३॥सप्तकञ्चुकनामानिपर्पटी पाटनी भेदी द्रावी मलकरी तथा ।अन्धकारी तथा ध्वाङ्क्षी विज्ञेयाः सप्त कञ्चुकाः ॥२४॥कञ्चुकस्-आयुर्वेदीय स्य्म्प्तोम्स्भूमिजाः कुर्वते कुष्ठं गिरिजा जाड्यमेव च ।वारिजा वातसंघातं दोषाढ्यं नागवङ्गयोः ॥२५॥तस्मात् सूतविधानार्थं सहायैर्निपुणैर्युतः ।सर्वोपस्करमादाय रसकर्म समारभेत् ॥२६॥संस्कारस्-द्वे सहस्रे पलानां तु सहस्रं शतमेव वा ।अष्टाविंशत् पलान्येव दश पञ्चैकमेव वा ॥२७॥पलार्धेनैव कर्तव्यः संस्कारः सूतकस्य च ।सुदिने शुभनक्षत्रे रसशोधनमारभेत् ॥२८॥१. स्वेदनत्र्यूषणं लवणासूर्यौ चित्रकार्द्रकमूलकम् ।क्षिप्त्वा सूतो मुहुः स्वेद्यः काञ्जिकेन दिनत्रयम् ॥२९॥२. मर्दनगृहधूमेष्टिकाचूर्णं तथा दधि गुडान्वितम् ।लवणासुरीसंयुक्तं क्षिप्त्वा सूतं विमर्दयेत् ॥३०॥षोडशांशं तु तद् द्रव्यं सूतमानान् नियोजयेत् ।सूतं क्षिप्त्वा समं तेन दिनानि त्रीणि मर्दयेत् ॥३१॥जीर्णाभ्रकं तथा बीजं जीर्णसूतं तथैव च ।नैर्मल्यार्थं हि सूतस्य खल्ले धृत्वा विमर्दयेत् ॥३२॥गृह्णाति निर्मलो रागान् ग्रासे ग्रासे विमर्दितः ।मर्दनाख्यं हि यत्कर्म तत्सूतगुणकृद् भवेत् ॥३३॥३. मूर्छनगृहकन्या मलं हन्यात्त्रिफला वह्निनाशिनी ।चित्रमूलं विषं हन्ति तस्माद् एभिः प्रयत्नतः ॥३४॥मिश्रितं सूतकं द्रव्यैः सप्तवाराणि मूर्छयेत् ।इत्थं संमूर्छितः सूतो दोषशून्यः प्रजायते ॥३५॥संस्कार-उत्थापनअस्माद्विरेकात् संशुद्धो रसः पात्यस्ततः परम् ।उद्धृतः काञ्जिकक्वाथात् पूतिदोषनिवृत्तये ॥३६॥संस्कार-पातनताम्रेण पिष्टिकां कृत्वा पातयेदूर्ध्वभाजने ।वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥३७॥संस्कार-ऊर्ध्व-, अधःपातनशुल्वेन पातयेत् पिष्टीं त्रिधोर्ध्वं सप्तधा त्व् अधः ॥३८॥संस्कार-अधःपातनत्रिफलाशिग्रुशिखिभिर् लवणासुरीसंयुतैः ।नष्टपिष्टं रसं कृत्वा लेपयेच्चोर्ध्वभाजने ।ततो दीप्तैरधः पातमुत्पलैस्तत्र कारयेत् ॥३९॥संस्कार-पातनहरिद्राङ्कोलशम्पाककुमारीत्रिफलाग्निभिः ।तण्डुलीयकवर्षाभूहिङ्गुसैन्धवमाक्षिकैः ॥४०॥पिष्टं रसं सलवणैः सर्पाक्ष्यादिभिरेव वा ।पातयेद् अथवा देवि व्रणघ्नो यक्षलोचनैः ॥४१॥इत्थं ह्य् अधऊर्ध्वपातेन पातितोऽसौ यदा भवेत् ।तदा रसायने योग्यो भवेद् द्रव्यविशेषतः ॥४२॥संस्कार-अधःपातनअथवा दीपकयन्त्रे निपातितः सर्वदोषनिर्मुक्तः ॥४३॥संस्कार-तिर्यक्पातनतिर्यक्पातनविधिना निपातितः सूतराजस्तु ।श्लक्ष्णीकृतम् अभ्रदलं रसेन्द्रयुक्तं तथारनालेन ॥४४॥खल्ले दत्त्वा मृदितं यावत् तन् नष्टपिष्टताम् एति ।कुर्यात् तिर्यक्पातनपातितसूतं क्रमेण दृढवह्निम् ॥४५॥संस्वेद्यः पात्योऽसौ न पतति यावद् दृढश् चाग्नौ ।तदासौ शुध्यते सूतः कर्मकारी भवेद्ध्रुवम् ॥४६॥मर्दनैर् मूर्छनैः पातैर् मन्दः शान्तो भवेद् रसः ॥४७॥संस्कार-निरोधनसृष्ट्यम्बुजैर् निरोधेन ततो मुखकरो रसः ।स्वेदनादिवशात्सूतो वीर्यं प्राप्नोत्यनुत्तमम् ॥४८॥संस्कार-नियमननियम्योऽसौ ततः सम्यक् चपलत्वनिवृत्तये ।कर्कोटीफणिनेत्राभ्यां वृश्चिकाम्बुजमार्कवैः ।समं कृत्वारनालेन स्वेदयेच्च दिनत्रयम् ॥४९॥संस्कार-नियमनमरिचैर् भूखगयुक्तैर् लवणासुरीशिग्रुटङ्कणोपेतैः ।काञ्जिकयुक्तैस्त्रिदिनं ग्रासार्थी जायते स्वेदात् ॥५०॥संस्कार-दीपनत्रिक्षारसिन्धुखगभूशिखिशिग्रुराजीतीक्ष्णाम्लवेतसमुखैर् लवणोषणाम्लैः ।नेपालताम्रदलशोषितमारनाले साम्लासवाम्लपुटितं रसदीपनं तत् ॥५१॥संस्कार-दीपनस्वेदयेदासवाम्लेन वीर्यतेजःप्रवृद्धये ।यथोपयोगं स्वेद्यः स्यान् मूलिकानां रसेषु च ॥५२॥रसमूलिकास्सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शङ्खपुष्पिका ।काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुकर्णिका ॥५३॥वर्षाभूः कम्बुकी दूर्वा सैर्यकोत्पलशिम्बिकाः ।शतावरी वज्रलता वज्रकन्दाग्निकर्णिका ॥५४॥श्वेतार्कशिग्रुधत्तूरमृगदूर्वारसाङ्कुशाः ।रम्भा रक्ताभनिर्गुण्डी लज्जालुः सुरदालिका ॥५५॥मण्डूकपर्णी पाताली चित्रकं ग्रीष्मसुन्दरा ।काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका ॥५६॥जाती जयन्ती श्रीदेवी भूकदम्बः कुसुम्भकः ।कोशातकी नीरं कणा लाङ्गली कटुतुम्बिका ॥५७॥चक्रमर्दोऽमृता कन्दः सूर्यावर्तेषु पुङ्खिका ।वाराही हस्तिशुण्डी च प्रायेण रसमूलिकाः ॥५८॥रसस्य भावने स्वेदे मूषालेपे च पूजिताः ।इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।कार्यास्ते प्रथमं शेषा नोक्ता द्रव्योपयोगिनः ॥५९॥मेर्चुर्य्-बन्धन-इन्त्रोद्.पञ्चविंशतिसंख्याकान् रसबन्धान् प्रचक्ष्महे ।येन येन हि चाञ्चल्यं दुर्ग्रहत्वं च नश्यति ।रसराजस्य सम्प्रोक्तो बन्धनार्थो हि वार्त्तिकैः ॥६०॥बन्धन-हठारोटौ तथाभासः क्रियाहीनश्च पिष्टिका ।क्षारः खोटश्च पोटश्च कल्कबन्धश्च कज्जलिः ॥६१॥सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः ।शृङ्खलाद्रुतिबन्धौ च बालकश्च कुमारकः ॥६२॥तरुणश् च तथा वृद्धो मूर्तिबद्धस् तथापरः ।जलबन्धोऽग्निबन्धश्च सुसंस्कृतकृताभिधः ।महाबन्धाभिधश्चेति पञ्चविंशतिर् ईरिताः ॥६३॥केचिद्वदन्ति षड्विंशो जलूकाबन्धसंज्ञकः ।स तावन्नेष्यते देहे स्त्रीणां द्रावेऽतिशस्यते ॥६४॥बन्धन-हठहठो रसः स विज्ञेयः सम्यक् शुद्धिविवर्जितः ।स सेवितो नृणां कुर्यान् मृत्युं वा व्याधिमुद्धतम् ॥६५॥बन्धन-आरोटसुशोधितो रसः सम्यगारोट इति कथ्यते ।स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः ॥६६॥आभासबन्धपुटितो यो रसो याति योगं मुक्त्वा स्वभावताम् ।भावितो धातुमूलाद्यैर् आभासो गुणवैकृतेः ॥६७॥क्रियाहीनअसंशोधितलोहाद्यैः साधितो यो रसोत्तमः ।क्रियाहीनः स विज्ञेयो विक्रियां यात्यपथ्यतः ॥६८॥पिष्टिकाबन्धतीव्रातपे गाढतरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा ।स रसः पिष्टिकाबन्धो दीपनः पाचनस्तराम् ॥६९॥क्षारबन्धशङ्खशुक्तिवराटाद्यैर् योऽसौ संसाधितो रसः ।क्षारबन्धः परं दीप्तिपुष्टिकृच्छूलनाशनः ॥७०॥खोटबन्धबन्धो यः खोटतां याति ध्मातो ध्मातः क्षयं व्रजेत् ।खोटबन्धः स विज्ञेयः शीघ्रं सर्वगदापहः ॥७१॥पोटबन्धद्रुतकज्जलिका मोचापत्त्रके चिपिटीकृता ।स पोटः पर्पटी सैव बालाद्यखिलरोगनुत् ॥७२॥कल्कबन्धस्वेदाद्यैः साधितः सूतः पङ्कत्वं समुपागतः ।कल्कबद्धः स विज्ञेयो योगोक्तफलदायकः ॥७३॥कज्जलीबन्धकज्जली रसगन्धोत्था सुश्लक्ष्णा कज्जलोपमा ।तत्तद्योगेन संयुक्ता कज्जलीबन्ध उच्यते ॥७४॥सजीवभस्मीकृतो गच्छति वह्नियोगाद् रसः सजीवः स खलु प्रदिष्टः ।संसेवितोऽसौ न करोति भस्मकार्यं जवाद् रोगविनाशनं च ॥७५॥निर्जीवजीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्चाखिललोहमौलिः ।निर्जीवनामा हि स भस्मसूतो निःशेषरोगान् विनिहन्ति सद्यः ॥७६॥निर्बीजरसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामा सकलामयघ्नः ॥७७॥सबीजबन्धनपिष्टीकृतैर् अभ्रकसत्त्वहेमतारार्ककान्तैः परिजारितो यः ।हतस्ततः षड्गुणगन्धकेन सबीजबद्धो विपुलप्रभावः ॥७८॥शृङ्खलाबन्धवज्रादिनिहतः सूतो हतः सूतः समोऽपरः ।शृङ्खलाबद्धसूतस्तु देहलोहविधायकः ।चित्रप्रभावां वेगेन व्याप्तिं जानाति शंकरः ॥७९॥द्रुतिबन्धयुक्तोऽपि बाह्यद्रुतिभिश्च सूतो बन्धंगतो वा भसितस्वरूपः ।स राजिकापादमितो निहन्ति दुःसाध्यरोगान् द्रुतिबद्धनामा ॥८०॥बालबन्धसमाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन ।रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति ॥८१॥कुमारबन्धहरोद्भवो यो द्विगुणाभ्रजीर्णः स स्यात्कुमारो मिततण्डुलोऽसौ ।त्रिः सप्तरात्रैः खलु पापरोगसंघातघाती च रसायनं च ॥८२॥तरुणबन्धचतुर्गुणव्योमकृताशनोऽसौ रसायनाग्र्यस् तरुणाभिधानः ।स सप्तरात्रात् सकलामयघ्नो रसायनो वीर्यबलप्रदाता ॥८३॥वृद्धबन्धयस्याभ्रकः षड्गुणितो हि जीर्णः प्राप्ताग्निसख्यः स हि वृद्धनामा ।देहे च लोहे च नियोजनीयः शिवादृते कोऽस्य गुणान् प्रवक्ति ॥८४॥मूर्तिबन्धयो दिव्यमूलिकाभिश्च कृतोऽत्यग्निसहो रसः ।विनाभ्रजारणात्स स्यान्मूर्तिबन्धो महारसः ॥८५॥अयं हि जार्यमाणस्तु नाग्निना क्षीयते रसः ।योजितः सर्वयोगेषु निरौपम्यफलप्रदः ॥८६॥जलबन्धशिलातोयमुखैस्तोयैर् बद्धोऽसौ जलबन्धवान् ।स जरारोगमृत्युघ्नः कल्पोक्तफलदायकः ॥८७॥अग्निबन्धकेवलो योगेषु वा ध्मातः स्याद्गुटिकाकृतिः ।अक्षीणश्चाग्निबद्धोऽसौ खेचरत्वादिकृत् स हि ॥८८॥मूर्छनविष्णुक्रान्ताशशिलताकुम्भीकनकमूलकैः ।विशालानागिनीकन्दव्याघ्रपादीकुरुण्टकैः ॥८९॥वृश्चिकालीभशुण्डीभ्यां हंसपादा सहासुरैः ।अप्रसूतगवां मूत्रैः पिष्टं वा कुलके पचेत् ॥९०॥पक्वमेवं मृतैर् लोहैर्मर्दितं विपचेद् रसम् ।यन्त्रेषु मूर्छा सूतानामेष कल्पः समासतः ॥९१॥महाबन्धहेम्ना वा रजतेन वा सहचरो ध्मातो व्रजत्येकताम् अक्षीणो निबिडो गुरुश्च गुटिकाकारोऽतिदीर्घोज्ज्वलः ।चूर्णत्वं पटुवत् प्रयाति निहतो घृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात् स हि महाबन्धाभिधानो रसः ॥९२॥जलूकाबन्धसूते गर्भनियोजितार्धकनके पादांशनागेऽथवा पञ्चाङ्गुष्ठकशाल्मलीकृतमदाश्लेष्मातबीजैस् तथा ।तद्वत् तेजिनीकोलकाख्यफलजैश् चूर्णं तिलं पत्त्रकं तप्ते खल्लतले निधाय मृदिते जाता जलूका वरा ॥९३॥जलूकाबन्धसैषा स्यात्कपिकच्छूरोमपटले चन्द्रावतीतैलके चन्द्रे टङ्कणकामपिप्पलीजले स्विन्ना भवेत् तेजिनी ।तप्ते खल्लतले विमर्द्य विधिवद्यत्नाद्वटी या कृता सा स्त्रीणां मददर्पनाशनकरी ख्याता जलूका वरा ॥९४॥बाल्ये चाष्टाङ्गुला योज्या यौवने च दशाङ्गुला ।द्वादशैव प्रगल्भानां जलौका त्रिविधा मता ॥९५॥धृत्वा सूतमुखे पात्रं मेषीक्षीरं प्रदापयेत् ।स्थापयेदातपे तीव्रे वासराण्येकविंशतिः ॥९६॥द्वितीयात्र मया प्रोक्ता जलौका द्रावणे हिता ।पुरुषाणां स्थिता मूर्ध्नि द्रावयेद्बीजम् अद्भुतम् ॥९७॥जलूकाबन्धमुनिपत्त्ररसं चैव शाल्मलीवृन्तवारि च ।जातीमूलस्य तोयं च शिंशपातोयसंयुतम् ॥९८॥श्लेष्मातकफलं चैव त्रिफलाचूर्णम् एव च ।कोकिलाक्षस्य चूर्णं च पारदं मर्दयेद् बुधः ॥९९॥जलूका जायते दिव्या रामाजनमनोहरा ।सा योज्या कामकाले तु कामयेत्कामिनी स्वयम् ॥१००॥जलूकाबन्धत्रिफलाभृङ्गमहौषधमधुसर्पिश्छागदुग्धगोमूत्रे ।नागं सप्तनिषिक्तं समरसजारितं जलूका स्यात् ॥१०१॥जलूकाबन्धभानुस्वरदिनसंख्याप्रमाणसूतं गृहीतदीनारम् ।अङ्कोलराजवृक्षककन्यारसतश्च शोधनं कुर्यात् ॥१०२॥शशिरेखावरवर्णिनीसकोकिलाक्षापामार्गकनकानाम् ।चूर्णैः सहैकविंशतिदिनानि संमर्दयेत् सम्यक् ॥१०३॥निशायाः काञ्जिकं यूषं दत्त्वा योनौ प्रवेशयेत् ।बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् ।नीरसानामपि नॄणां योषा स्यात्संगमोत्सुका ॥१०४॥जलूकबन्धरसभागं चतुष्कं च वङ्गभागं च पञ्चमम् ।सुरसारसमं युक्तं टङ्कणेन समन्वितम् ॥१०५॥त्रिदिनं मर्दयित्वा च गोलकं तं रसोद्भवम् ।लिङ्गाग्रे योनिनिक्षिप्तं यावद् आयुर्वशंकरम् ॥१०६॥जलूकबन्धकर्पूरसूरणसुभृङ्गसुमेघनादैर् नागं निषिच्य तु मिथो वलयेद् रसेन ।लिङ्गस्थितेन वलयेन नितम्बिनीनां स्वामी भवत्यनुदिनं स तु जीवहेतुः ॥१०७॥जलूकबन्धटङ्कणपिप्पलिकाभिः सूरणकर्पूरमातुलुङ्गरसैः ।कृत्वा स्वलिङ्गलेपं योनिं विद्रावयेत् स्त्रीणाम् ॥१०८॥मदनवलयअग्न्यावर्तितनागे हरबीजं निक्षिपेत्ततो द्विगुणम् ।मुनिकनकनागसर्पैर् दन्त्याथ सिञ्च्याच्च तन्मध्यम् ॥१०९॥तक्रेण मर्दयित्वा गणेन मदनवलयं कुर्यात् ।रतिसमये वनितानां रतिगर्वविनाशनं कुरुते ॥११०॥मदनवलयव्याघ्रीबृहतीफलरससूरणकन्दं च चणकपत्त्राम्लम् ।कपिकच्छुवज्रवल्लीपिप्पलिकाम्लिकाचूर्णम् ॥१११॥अग्न्यावर्तितनागं नववारं मर्दयेद्धिमैर्द्रव्यैः ।स्मरवलयं कृत्वैतद्वनितानां द्रावणं कुरुते ॥११२॥मेर्चुर्य्-मारणपलाशबीजकं रक्तजम्बीराम्लेन सूतकम् ।सजीवं मर्दितं यन्त्रे पाचितं म्रियते ध्रुवम् ॥११३॥मेर्चुर्य्-मारणखरमञ्जरि बीजान्वितपुष्करबीजैः सुचूर्णितैः कल्कम् ।कृत्वा सूतं पुटयेद् दृढमूषायां भवेद्भस्म ॥११४॥मेर्चुर्य्-मारणकाकोदुम्बरिकाया दुग्धेन सुभावितो हिङ्गुः ।मर्दनपुटनविधानात्सूतं भस्मीकरोत्येव ॥११५॥मेर्चुर्य्-मारणदेवदालीं हरिक्रान्तामारनालेन पेषयेत् ।तद्द्रवैः सप्तधा सूतं कुर्यान्मर्दितमूर्छितम् ॥११६॥तत्सूतं खर्परे दद्याद्दत्त्वा दत्त्वा तु तद्द्रवम् ।चुल्ल्योपरि पचेच् चाह्नि भस्म स्याल्लवणोपमम् ॥११७॥मेर्चुर्य्-मारणअपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।तच्चूर्णं पारदे देयं मूषायाम् अधरोत्तरम् ।रुद्ध्वा लघुपुटैः पच्याच् चतुर्भिर् भस्मतां नयेत् ॥११८॥मेर्चुर्य्-मारणकटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःप्लुते ।सप्तधा स्वेदितः सूतो म्रियते गोमयाग्निना ॥११९॥मेर्चुर्य्-मारणअङ्कोलस्य शिफावारिपिष्टं खल्ले विमर्दयेत् ।सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् ।पुटयेद्भूधरे यन्त्रे दिनान्ते स मृतो भवेत् ॥१२०॥मेर्चुर्य्-मारणवटक्षीरेण सूताभ्रौ मर्दयेत्प्रहरत्रयम् ।पाचयेत्तेन काष्ठेन भस्मीभवति तद्रसः ॥१२१॥रस-भस्म-सेवनअथातुरो रसाचार्यं साक्षाद्देवं महेश्वरम् ।साधितं च रसं शृङ्गदन्तवेण्वादिधारितम् ॥१२२॥अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि ।पर्णखण्डे धृतं सूतं जग्ध्वा स्यादनुपानतः ॥१२३॥घृतसैन्धवधान्यकजीरकार्द्रकसंस्कृतम् ।तण्डुलीयकधान्यकपटोलालम्बुषादिकम् ॥१२४॥गोजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि ।हंसोदकं मुद्गरसः पथ्यवर्गः समासतः ॥१२५॥बृहती बिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् ।माषं मसूरं निष्पावं कुलत्थं सर्षपं तिलम् ॥१२६॥लङ्घनोद्वर्तनस्नानताम्रसुरासवान् ।आनूपमांसं धान्याम्लं भोजनं कदलीदले ।कांस्ये च गुरुविष्टम्भि तीक्ष्णोष्णं च भृशं त्यजेत् ॥१२७॥ककारादिगणकण्टारीफलकाञ्जिकं च कमठस् तैलं तथा राजिकाम् ।निम्बूकं कतकं कलिङ्गकफलं कूष्माण्डकं कर्कटी ।कारी कुक्कुटकारवेल्लकफलं कर्कोटिकायाः फलम् ।वृन्ताकं च कपित्थकं खलु गणः प्रोक्तः ककारादिकः ॥१२८॥देवीशास्त्रोदितः सोऽयं ककारादिगणो मतः ।ककारादिगणशास्त्रान्तरविनिर्दिष्टः कथ्यतेऽन्यप्रकारतः ॥१२९॥कङ्गुः कन्दुककोलकुक्कुटकलक्रोडाः कुलत्थास्तथा ।कण्टारी कटुतैलकृष्णगलकः कूर्मः कलायः कणा ।कर्कारुश्च कठिल्लकं च कतकं कर्कोटकं कर्कटी काली काञ्जिकमेषकादिकगणः श्रीकृष्णदेवोदितः ॥१३०॥यस्मिन्रसे च कण्ठोक्त्या ककारादिर्निषेधितः ।तत्र तत्र निषेद्धव्यं तदौचित्यमतोऽन्यतः ॥१३१॥उद्गारे सति दध्यन्नं कृष्णमीनं सजीरकम् ।अभ्यङ्गम् अनिलक्षोभे तैलैर् नारायणादिभिः ॥१३२॥अरतौ शीततोयेन मस्तकोपरि सेचनम् ।तृष्णायां नारिकेलाम्बु मुद्गं सशर्करम् ॥१३३॥द्राक्षादाडिमखर्जूरकदलीनां फलं भजेत् ।रसवीर्यविवृद्ध्यर्थं दधिक्षीरेक्षुशर्कराः ।शीतोपचारम् अन्यं च रसत्यागविधौ पुनः ॥१३४॥भक्षयेद् बृहतीं बिल्वं सकृत्साधारणो विधिः ॥१३५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP