संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय ३ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय ३ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय ३ Translation - भाषांतर गन्धाश्मगैरिकासीसकाङ्क्षीतालशिलाञ्जनम् ।कङ्कुष्ठं चेत्युपरसाश्चाष्टौ पारदकर्मणि ॥१॥पार्वत्युवाच ।गन्धकस्य तु माहात्म्यं तद्गुह्यं वद मे प्रभो ॥२॥ईश्वर उवाच ।मिथकीय उत्पत्तिश्वेतद्वीपे पुरा देवि सर्वरत्नविभूषिते ।सर्वकाममये रम्ये तीरे क्षीरपयोनिधेः ॥३॥विद्याधरादिमुख्याभिरङ्गनाभिश्च योगिनाम् ।सिद्धाङ्गनाभिः श्रेष्ठाभिस्तथैवाप्सरसां गणैः ॥४॥देवाङ्गनाभी रम्याभिः क्रीडिताभिर्मनोहरैः ।गीतैर्नृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ॥५॥एवं संक्रीडमानायाः प्राभवत् प्रसृतं रजः ।तद्रजोऽतीव सुश्रोणि सुगन्धि सुमनोहरम् ॥६॥रजसश्चातिबाहुल्याद्वासस्ते रक्ततां ययौ ।तत्र त्यक्त्वा तु तद्वस्त्रं सुस्नाता क्षीरसागरे ॥७॥वृता देवाङ्गनाभिस्त्वं कैलासं पुनरागता ।ऊर्मिभिस्तद्रजोवस्त्रं नीतं मध्ये पयोनिधेः ॥८॥एवं ते शोणितं भद्रे प्रविष्टं क्षीरसागरे ।क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ॥९॥निजगन्धेन तान्सर्वान्हर्षयन्सर्वदानवान् ।ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥१०॥रसस्य बन्धनार्थाय जारणाय भवत्वयम् ।ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ॥११॥इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि ।तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ॥१२॥गन्धकभेदाः - १स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः ।मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥१३॥गन्धकभेदाः - २चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।श्वेतोऽत्र खटिकाप्रोक्तो लेपने लोहमारणे ॥१४॥तथा चामलसारः स्याद्यो भवेत्पीतवर्णवान् ।शुकपिच्छः स एव स्याच्छ्रेष्ठो रसरसायने ॥१५॥रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः ।दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥१६॥गन्धकगुणाःगन्धाश्मातिरसायनः सुमधुरः पाके कटूष्णो मतः कण्डूकुष्ठविसर्पदद्रुदलनो दीप्तानलः पाचनः ।आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा कृमिहरः सत्यात्मकः सूतजित् ॥१७॥बलिना सेवितः पूर्वं प्रभूतबलहेतवे ॥१८॥वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता ।वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ॥१९॥गन्धकत्वं च सम्प्राप्ता गन्धोऽभूत्सविषः स्मृतः ।तस्माद् बलिवसेत्युक्तो गन्धकोऽतिमनोहरः ॥२०॥गन्धकशोधनपयःस्विन्नो घटीमात्रं वारिधौतो हि गन्धकः ।गव्याज्यविद्रुतो वस्त्राद्गालितः शुद्धिमृच्छति ॥२१॥एवं संशोधितः सोऽयं पाषाणान् अम्बरे त्यजेत् ।घृते विषं तुषाकारं स्वयं पिण्डत्वमेव च ॥२२॥इति शुद्धो हि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् ।अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा ॥२३॥शोधनगन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति ।तद्रसैः सप्तधा भिन्नो गन्धकः परिशुध्यति ॥२४॥गन्धकशोधन - ३स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निबध्य च ।गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृति ॥२५॥छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ।ज्वालयेत्खर्परस्योर्ध्वं वनछाणैस् तथोपलैः ॥२६॥दुग्धे निपतितो गन्धो गलितः परिशुध्यति ।शतवारं कृतं चैव निर्गन्धो जायते ध्रुवम् ॥२७॥शुद्धगन्धकप्रयोगइत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः ।गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः ॥२८॥गन्धतैलकलांशव्योषसंयुक्तं गन्धकं श्लक्ष्णचूर्णितम् ।अरत्निमात्रे वस्त्रे तद् विप्रकीर्य विवेष्ट्य तत् ॥२९॥सूत्रेण वेष्टयित्वाथ यामं तैले निमज्जयेत् ।धृत्वा संदंशतो वर्तिमध्यं प्रज्वालयेच्च तम् ।द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने ॥३०॥गन्धतैलतां द्रुतिं प्रक्षिपेत् पत्त्रे नागवल्ल्यास् त्रिबिन्दुकाम् ।वल्लेन प्रमितं स्वच्छं सूतेन्द्रं च विमर्दयेत् ॥३१॥अङ्गुल्याथ सपत्त्रां तां द्रुतिं सूतं च भक्षयेत् ।करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् ॥३२॥कासं श्वासं च शूलार्तिग्रहणीम् अतिदुर्धराम् ।आमं विनाशयत्याशु लघुत्वं प्रकरोति च ॥३३॥गन्धतैलघृताक्ते लोहपात्रे तु विद्रुतं शुद्धगन्धकम् ।घृताक्तदर्विकाक्षिप्तं द्विनिष्कप्रमितं भजेत् ।हन्ति क्षयमुखान् रोगान् कुष्ठरोगं विशेषतः ॥३४॥क्षाराम्लतैलसौवीरविदाहि द्विदलं तथा ।शुद्धगन्धकसेवायां त्यजेद्योगयुतेन हि ॥३५॥गन्धकस्तुल्यमरिचः षड्गुणत्रिफलान्वितः ।घृष्टः शम्याकमूलेन पीतश्चाखिलकुष्ठहा ॥३६॥तन्मूलं सलिले पिष्टं लेपयेत्प्रत्यहम् तनौ ।दृष्टप्रत्यययोगोऽयं सर्वत्र प्रतिवीर्यवान् ।श्रीमता सोमदेवेन सम्यगत्र प्रकीर्तितः ॥३७॥द्विनिष्कप्रमितं गन्धं पिष्ट्वा तैलेन संयुतम् ।अथापामार्गतोयेन सतैलमरिचेन हि ॥३८॥विलिप्य सकलं देहं तिष्ठेद्घर्मे ततः परम् ।तक्रभक्तं च भुञ्जीत तृतीये प्रहरे खलु ॥३९॥भजेद्रात्रौ तथा वह्निं समुत्थाय तथा प्रगे ।महिषीछगणम् लिप्त्वा स्नायाच्छीतेन वारिणा ॥४०॥ततोऽभ्यज्य घृतैर्देहं स्नायादिष्टोष्णवारिणा ।अमुना क्रमयोगेन विनश्यत्यतिवेगतः ।दुर्जया बहुकालीना पामा कण्डुः सुनिश्चितम् ॥४१॥गन्धकस्य प्रयोगाणां शतं तन्न प्रकीर्तितम् ।ग्रन्थविस्तारभीतेन सोमदेवेन भूभुजा ॥४२॥गन्धतैलअथवार्कस्नुहीक्षीरैर् वस्त्रं लेप्यं तु सप्तधा ।गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेद्घनम् ॥४३॥तद्वर्तिं ज्वलितां दंशे धृतां कुर्याद् अधोमुखीम् ।तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥४४॥शुद्ध-आयुर्वेदीय गुणशुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् ।अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥४५॥गैरिकपाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् ॥४६॥पाषाणगैरिक-गुणपाषाणगैरिकं प्रोक्तं कठिनम् ताम्रवर्णकम् ।स्वर्णगैरिक-गुणअत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम् ॥४७॥स्वर्णगैरिक-आयुर्वेदीय गुणस्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ।हिध्मावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।पाषाणगैरिक-आयुर्वेदीय गुणपाषाणगैरिकं चान्यत्पूर्वस्मादल्पकं गुणैः ॥४८॥गैरिक-शोधनगैरिकं तु गवां दुग्धैर्भावितं शुद्धिम् ऋच्छति ॥४९॥गैरिक-सत्त्वगैरिकं सत्त्वरूपं हि नन्दिना परिकीर्तितम् ॥५०॥कैर् अप्युक्तं पतेत्सत्त्वं क्षाराम्लक्लिन्नगैरिकात् ।उपतिष्ठति सूतेन्द्रमेकत्वं गुणवत्तरम् ॥५१॥कासीसकासीसं वालुकाद्येकं पुष्पपूर्वम् अथापरम् ॥५२॥कासीस-आयुर्वेदीय गुणक्षाराम्लागरुधूमाभं सोष्णवीर्यं विषापहम् ।वालुकापुष्पकासीसं श्वित्रघ्नं केशरञ्जनम् ॥५३॥पुष्पकासीस-आयुर्वेदीय गुणपुष्पादिकासीसमतिप्रशस्तं सोष्णं कषायाम्लम् अतीव नेत्र्यम् ।विषानिलश्लेष्मगदव्रणघ्नं श्वित्रक्षयघ्नं कचरञ्जनं च ॥५४॥कासीस-शोधनसकृद्भृङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् ॥५५॥कासीस-सत्त्वपातनतुवरीसत्त्ववत्सत्त्वमेतस्यापि समाहरेत् ॥५६॥कासीस-शोधनकासीसं शुद्धिमाप्नोति पित्तैश्च रजसा स्त्रियाः ॥५७॥बलिना हतकासीसं क्रान्तं कासीसमारितम् ।उभयं समभागं हि त्रिफलावेल्लसंयुतम् ॥५८॥विषमांशघृतक्षौद्रप्लुतं शाणमितं प्रगे ।सेवितं हन्ति वेगेन श्वित्रं पाण्डुक्षयामयम् ॥५९॥गुल्मप्लीहगदं शूलं मूलरोगं विशेषतः ।रसायनविधानेन सेवितं वत्सरावधि ॥६०॥आमसंशोषणं श्रेष्ठं मन्दाग्निपरिदीपनम् ।पलितं वलिभिः सार्धं विनाशयति निश्चितम् ॥६१॥तुवरीसौराष्ट्राश्मनि सम्भूता सा तुवरी मता ।वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी ॥६२॥तुवरीफटकी फुल्लिका चेति द्वितीया परिकीर्तिता ॥६३॥फटकी-आयुर्वेदीय गुणईषत्पीता गुरुः स्निग्धा पीतिका विषनाशनी ।व्रणकुष्ठहरा सर्वकुष्ठघ्नी च विशेषतः ॥६४॥फुल्लिका-आयुर्वेदीय गुणनिर्भारा शुभ्रवर्णा च स्निग्धा साम्लापरा मता ।सा फुल्लतुवरी प्रोक्ता लेपात्ताम्रं चरेदयः ॥६५॥काङ्क्षी कषाया कटुकाम्लकण्ठ्या केश्या व्रणघ्नी विषनाशनी च ।श्वित्रापहा नेत्रहिता त्रिदोषशान्तिप्रदा पारदजारणी च ॥६६॥तुवरी-शोधनतुवरी काञ्जिके क्षिप्त्वा त्रिदिनाच्छुद्धिमृच्छति ॥६७॥तुवरी-सत्त्वपातनक्षाराम्लैर् मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम् ॥६८॥तुवरी-सत्त्वपातनगोपित्तेन शतं वारान् सौराष्ट्रां भावयेत्ततः ।धमित्वा पातयेत्सत्त्वं क्रामणं चातिगुह्यकम् ॥६९॥हरितालहरितालं द्विधा प्रोक्तं पत्त्राद्यं पिण्डसंज्ञकम् ॥७०॥पत्त्रतालकस्वर्णवर्णं गुरु स्निग्धं तनुपत्त्रं च भासुरम् ।तत् पत्त्रतालकं प्रोक्तं बहुपत्त्रं रसायनम् ॥७१॥पिण्डतालकनिष्पत्त्रं पिण्डसदृशम् स्वल्पसत्त्वं तथागुरु ।स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् ॥७२॥हरिताल-आयुर्वेदीय गुणश्लेष्मरक्तविषवातभूतनुत्केवलं च खलु पुष्पहृत्स्त्रियः ।स्निग्धमुष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते ॥७३॥हरिताल-शोधनस्निग्धं कूष्माण्डतोये वा तिलक्षारजले अपि वा ।तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति ॥७४॥हरिताल-अशुद्ध-आयुर्वेदीय गुणअशुद्धं तालमायुघ्नं कफमारुतमेहकृत् ।तापस्फोटाङ्गसंकोचं कुरुते तेन शोधयेत् ॥७५॥हरिताल-शोधनतालकं कणशः कृत्वा दशांशेन च टङ्कणम् ।जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्ततः ॥७६॥वस्त्रे चतुर्गुणे बद्ध्वा दोलायन्त्रे दिनं पचेत् ।सचूर्णेनारनालेन दिनं कूष्माण्डजे रसे ।स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात् ॥७७॥हरिताल-शोधनमधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे ।त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥७८॥उपलैर्दशभिर्देयं पुटं रुद्ध्वाथ पेषयेत् ।एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥७९॥हरिताल-सत्त्वपातनकुलित्थक्वाथसौभाग्यमहिष्याज्यमधुप्लुतम् ।स्थाल्यां क्षिप्त्वा विदध्याच्च त्व् अम्लेन छिद्रयोगिना ॥८०॥सम्यङ्निरुध्य शिखिनं ज्वालयेत्क्रमवर्धितम् ।एकप्रहरमात्रं हि रन्ध्रमाच्छाद्य गोमयैः ॥८१॥यामान्ते छिद्रमुद्घाट्य दृष्टे धूमे च पाण्डुरे ।शीतां स्थालीं समुत्तार्य सत्त्वमुत्कृष्य चाहरेत् ॥८२॥सर्वपाषाणसत्त्वानां प्रकाराः सन्ति कोटिशः ।ग्रन्थविस्तारभीत्यातो लिखिता न मया खलु ॥८३॥हरिताल-सत्त्वपातनपलालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् ।क्षिप्त्वा षोडशिकातैले मिश्रयित्वा ततः पचेत् ॥८४॥अनावृतप्रदेशे च सप्तयामावधि ध्रुवम् ।स्वाङ्गशीतमधस्थं च सत्त्वं श्वेतं समाहरेत् ॥८५॥हरिताल-सत्त्वपातनछागलस्याथ बालस्य बलिना च समन्वितम् ।तालकं दिवसद्वंद्वं मर्दयित्वातियत्नतः ॥८६॥युक्तं द्रावणवर्गेण काचकुप्यां विनिक्षिपेत् ।त्रिधा तां च मृदा लिप्त्वा परिशोष्य खरातपे ॥८७॥ततः खर्परकच्छिद्रे तामर्धां चैव कूपिकाम् ।प्रवेश्य ज्वालयेदग्निं द्वादशप्रहरावधि ।कूपिकण्ठस्थितं शीतं शुद्धं सत्त्वं समाहरेत् ॥८८॥हरिताल-सत्त्वपातनपलार्धप्रमितं तालं बद्ध्वा वस्त्रे सिते दृढे ।बलिनालिप्य यत्नेन त्रिवारं परिशोष्य च ॥८९॥द्राविते त्रिफले ताम्रे क्षिपेत्तालकपोटलीम् ।भस्मना छादयेच्छीघ्रं ताम्रेणावेष्टितं सितम् ।मृदुलं सत्त्वमादद्यात्प्रोक्तं रसरसायने ॥९०॥मनःशिलामनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका ।खण्डाख्या चेति तद्रूपं विविच्य परिकथ्यते ॥९१॥मनःशिला-श्यामाङ्गीश्यामा रक्ता सगौरा च भाराढ्या श्यामिका मता ।मनःशिला-कणवीरकतेजस्विनी च निर्गौरा ताम्राभा कणवीरका ॥९२॥मनःशिला-खण्डचूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ।उत्तरोक्तगुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ॥९३॥मनःशिलागुणाःमनःशिला सर्वरसायनाग्र्या तिक्ता कटूष्णा कफवातहन्त्री ।सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकासक्षयहारिणी च ॥९४॥मनःशिला-अशुद्ध-आयुर्वेदीय गुणअश्मरीं मूत्रकृच्छ्रं च अशुद्धा कुरुते शिला ।मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ॥९५॥मनःशिलाशोधनम्अगस्त्यपत्त्रतोयेन भाविता सप्तवारकम् ।शृङ्गवेररसैर् वापि विशुध्यति मनःशिला ॥९६॥मनःशिला-शोधनजयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिलाम् ।दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः ।क्षालयेदारनालेन सर्वरोगेषु योजयेत् ॥९७॥मनःशिलासत्त्वपातन - १अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा ।कोष्ठ्यां रुद्ध्वा दृढं ध्माता सत्त्वं मुञ्चेन्मनःशिला ॥९८॥मनःशिलासत्त्वपातन - २भूनागधौतसौभाग्यमदनैश्च विमर्दितैः ।कारवल्लीदलाम्भोभिर्मूषां कृत्वात्र निक्षिपेत् ॥९९॥शिलां क्षाराम्लनिष्पिष्टां प्रधमेत्तदनन्तरम् ।कोकिलाद्वयमात्रं हि ध्मानात्सत्त्वं त्यजत्यसौ ॥१००॥अञ्जनसौवीरमञ्जनं प्रोक्तं रसाञ्जनमतः परम् ।स्रोतोञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च ।नीलाञ्जनं च तेषां हि स्वरूपमिह वर्ण्यते ॥१०१॥सौवीरसौवीरमञ्जनं धूम्रं रक्तपित्तहरं हिमम् ।विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ॥१०२॥रसाञ्जनरसाञ्जनं च पीताभं विषवक्त्रगदापहम् ।श्वासहिध्मापहं वर्ण्यं वातपित्तास्रनाशनम् ॥१०३॥स्रोतोञ्जनस्रोतोञ्जनं हिमं स्निग्धं कषायं स्वादु लेखनम् ।नेत्र्यं हिध्माविषछर्दिकफपित्तास्ररोगनुत् ॥१०४॥पुष्पाञ्जनपुष्पाञ्जनं सितं स्निग्धं हिमं सर्वाक्षिरोगनुत् ।अतिदुर्धरहिध्माघ्नं विषज्वरगदापहम् ॥१०५॥नीलाञ्जननीलाञ्जनं गुरु स्निग्धं नेत्र्यं दोषत्रयापहम् ।रसायनं सुवर्णघ्नं लोहमार्दवकारकम् ॥१०६॥अञ्जन-शोधनअञ्जनानि विशुध्यन्ति भृङ्गराजनिजद्रवैः ॥१०७॥अञ्जन-सत्त्वपातनमनोह्वासत्त्ववत् सत्त्वम् अञ्जनानां समाहरेत् ॥१०८॥स्रोतोञ्जन-गुणवल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।घृष्टं तु गैरिकच्छायं स्रोतोजं लक्षयेद्बुधः ॥१०९॥स्रोतोञ्जन-रसबन्धनगोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च ।भावितं बहुशस्तच्च शीघ्रं बध्नाति सूतकम् ॥११०॥रसाञ्जन-शोधनसूर्यावर्तादियोगेन शुद्धिमेति रसाञ्जनम् ॥१११॥स्रोतोञ्जन-सत्त्वपातनराजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोञ्जनादपि ॥११२॥कङ्कुष्ठहिमवत्पादशिखरे कङ्कुष्ठमुपजायते ।कङ्कुष्ठतत्रैकं नालिकाख्यं हि तदन्यद्रेणुकं मतम् ॥११३॥नालिकपीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् ।रेणुकश्यामपीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम् ॥११४॥कङ्कुष्ठ-ओरिगिन् fरोम् दिff. अनिमल्स्केचिद्वदन्ति कङ्कुष्ठं सद्योजातस्य दन्तिनः ।वर्चश्च श्यामपीताभं रेचनं परिकथ्यते ॥११५॥कतिचित् तेजिवाहानां नालं कङ्कुष्ठसंज्ञकम् ।वदन्ति श्वेतपीताभं तदतीव विरेचनम् ॥११६॥रसे रसायनं श्रेष्ठं निःसत्त्वं बहुवैकृतम् ॥११७॥कङ्कुष्ठ-आयुर्वेदीय गुणकङ्कुष्ठं तिक्तकटुकं वीर्योष्णं चातिरेचनम् ।व्रणोदावर्तशूलार्तिगुल्मप्लीहगुदार्तिनुत् ॥११८॥महारस, उपरस-शोधन, सत्त्वपातनसूर्यावर्तककदली वन्ध्या कोशातकी च सुरदाली ।शिग्रुश्च वज्रकन्दो निरङ्कणा काकमाची च ॥११९॥आसामेकरसेन तु लवणक्षाराम्लभावितं बहुशः ।शुध्यन्ति रसोपरसा ध्माता मुञ्चन्ति सत्त्वानि ॥१२०॥कङ्कुष्ठ-शोधनकङ्कुष्ठं शुद्धिमायाति त्रिधा शुण्ठ्यम्बुभावितम् ॥१२१॥कङ्कुष्ठ-सत्त्वपातनसत्त्वाकर्षोऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत् ॥१२२॥भजेदेनं विरेकार्थं ग्राहिभिर्यवमात्रया ।नाशयेदामपूर्तिं च विरेच्य क्षणमात्रतः ॥१२३॥भक्षितः सह ताम्बूलैर्विरिच्यासून्विनाशयेत् ॥१२४॥बर्बुरीमूलिकाक्वाथजीरसौभाग्यकं समम् ।कङ्कुष्ठं विषनाशाय भूयो भूयः पिबेन्नरः ॥१२५॥साधारणरसाःकम्पिल्लश्चपलो गौरीपाषाणो नवसारकः ।कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुलौ ॥१२६॥मोदारशृङ्गम् इत्यष्टौ साधारणरसाः स्मृताः ।रससिद्धकराः प्रोक्ता नागार्जुनपुरःसरैः ॥१२७॥कम्पिल्लकःइष्टिकाचूर्णसंकाशश्चन्द्रिकाढ्योऽतिरेचनः ।सौराष्ट्रदेशे चोत्पन्नः स हि कम्पिल्लकः स्मृतः ॥१२८॥कम्पिल्ल-आयुर्वेदीय गुणपित्तव्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्तिकृमिगुल्मवैरी ।मूलामशोफज्वरशूलहारी कम्पिल्लको रेच्यगदापहारी ॥१२९॥गौरीपाषाणकःगौरीपाषाणकः पीतो विकटो हतचूर्णकः ।स्फटिकाभश्च शङ्खाभो हरिद्राभस् त्रयः स्मृताः ॥१३०॥गौरीपाषाण-शोधनपूर्वं पूर्वं गुणैः श्रेष्ठः कारवल्लीफले क्षिपेत् ।स्वेदयेद्धण्डिकामध्ये शुद्धो भवति मूषकः ॥१३१॥गौरीपाषाण-सत्त्वपातनतालवद्ग्राहयेत्सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् ॥१३२॥गौरीपाषाण-आयुर्वेदीय गुणरसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥१३३॥नवसारकरीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः ।क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः ॥१३४॥इष्टिकादहने जातं पाण्डुरं लवणं लघु ।तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ॥१३५॥नवसार-गुणरसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ।नवसार-आयुर्वेदीय गुणगुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ।विडाख्यं च त्रिदोषघ्नं चूलिकालवणम् मतम् ॥१३६॥वराटिकापीताभा ग्रन्थिका पृष्ठे दीर्घवृत्ता वराटिका ।रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका ॥१३७॥वराटिकसार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ।पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥१३८॥वराटिका-आयुर्वेदीय गुणपरिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी ।कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ।वराटिका-गुणरसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥१३९॥वराटिका-आयुर्वेदीय गुण तदन्ये तु वराटाः स्युर् गुरवः श्लेष्मपित्तलाः ॥१४०॥वराटिका-शोधनवराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥१४१॥अग्निजारसमुद्रेणाग्निनक्रस्य जरायुर् बहिरुज्झितः ।संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥१४२॥अग्निजार-आयुर्वेदीय गुणअग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् ।वर्धनो रसवीर्यस्य दीपनो जारणस्तथा ॥१४३॥अग्निजार-शोधनतद् अब्धिक्षारसंशुद्धं तस्माच्छुद्धिर्न हीष्यते ॥१४४॥गिरिसिन्दूरमहागिरिषु चाल्पीयःपाषाणान्तःस्थितो रसः ।शुष्कशोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया ॥१४५॥गिरिसिन्दूर-आयुर्वेदीय गुणत्रिदोषशमनम् भेदि रसबन्धनमग्रिमम् ।देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥१४६॥हिङ्गुलहिङ्गुलः शुकतुण्डाख्यो हंसपाकस्तथापरः ॥१४७॥हिङ्गुल-शुकतुण्डप्रथमोऽल्पगुणस्तत्र चर्मारः स निगद्यते ॥१४८॥हिङ्गुल-हंसपाकश्वेतरेखः प्रवालाभो हंसपाकः स ईरितः ॥१४९॥हिङ्गुल-आयुर्वेदीय गुणहिङ्गुलः सर्वदोषघ्नो दीपनोऽतिरसायनः ।सर्वरोगहरो वृष्यो जारणायातिशस्यते ॥१५०॥हिङ्गुलाकृष्टएतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः ॥१५१॥हिङ्गुलाकृष्ट-शोधनसप्तकृत्वार्द्रकद्रावैर्लकुचस्याम्बुनापि वा ।शोषितो भावयित्वा च निर्दोषो जायते खलु ॥१५२॥हिङ्गुलकिमत्र चित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽम्लवर्गैः ।एवं सुवर्णं बहुघर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥१५३॥हिङ्गुल-सत्त्वपातनदरदः पातनायन्त्रे पातितश्च जलाश्रये ।तत्सत्त्वं सूतसंकाशं पातयेन्नात्र संशयः ॥१५४॥मृद्दारशृङ्गकसदलं पीतवर्णं च भवेद्गुर्जरमण्डले ।अर्बुदस्य गिरेः पार्श्वे जातं मृद्दारशृङ्गकम् ॥१५५॥मृद्दारशृङ्ग-आयुर्वेदीय गुणसीससत्त्वं गुरु श्लेष्मशमनं पुंगदापहम् ।रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥१५६॥साधारणरस-शोधनसाधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना ।त्रिरात्रं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥१५७॥यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः ।ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम् ॥१५८॥इति करवालभैरवः ।राजावर्तराजावर्तोऽल्परक्तोरुनीलिकामिश्रितप्रभः ।गुरुत्वमसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ॥१५९॥राजावर्त-आयुर्वेदीय गुणप्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ।दीपनः पाचनो वृष्यो राजावर्तो रसायनः ॥१६०॥राजावर्त-शोधननिम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ।द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः ॥१६१॥राजावर्त-शोधनशिरीषपुष्पार्द्ररसै राजावर्तं विशोधयेत् ॥१६२॥राजावर्त-मारणलुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः ।पुटनात्सप्तवारेण राजावर्तो मृतो भवेत् ॥१६३॥राजावर्त-सत्त्वपातनराजावर्तस्य चूर्णं तु कुनटीघृतमिश्रितम् ।विपचेदायसे पात्रे महिषीक्षीरसंयुतम् ॥१६४॥सौभाग्यपञ्चगव्येन पिण्डीबद्धं तु जारयेत् ।ध्मापितं खदिराङ्गारैः सत्त्वं मुञ्चति शोभनम् ॥१६५॥गैरिक-शोधनअनेन क्रमयोगेन गैरिकं विमलं भवेत् ।गैरिक-सत्त्वपातनक्रमात् पीतं च रक्तं च सत्त्वं पतति शोभनम् ॥१६६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP