संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय ४ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय ४ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय ४ Translation - भाषांतर मणयःमणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः ॥१॥वैक्रान्तः सूर्यकान्तश्च हीरकं मौक्तिकं मणिः ॥२॥चन्द्रकान्तस्तथा चैव राजावर्तश्च सप्तमः ।गरुडोद्गारकश्चैव ज्ञातव्या मणयस्त्वमी ॥३॥पुष्परागं महानीलं पद्मरागं प्रवालकम् ।वैडूर्यं च तथा नीलमेते च मणयो मताः ।यत्नतः संग्रहीतव्या रसबन्धस्य कारणात् ॥४॥पञ्चरत्न पद्मरागेन्द्रनीलाख्यौ तथा मरकतोत्तमः ।पुष्परागः सवज्राख्यः पञ्च रत्नवराः स्मृताः ॥५॥नवग्रहमाणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् ।गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥६॥ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् ।नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै ॥७॥रसे रसायने दाने धारणे देवतार्चने ।सुरक्ष्याणि सुजातीनि रत्नान्युक्तानि सिद्धये ॥८॥माणिक्यमाणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ॥९॥माणिक्य-परीक्षाकुशेशयदलच्छायं स्वच्छं स्निग्धं महत्स्फुटम् ।वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठमुच्यते ॥१०॥माणिक्य-नीलगन्धिनीलं गङ्गाम्बुसम्भूतं नीलगर्भारुणच्छवि ।पूर्वमाणिक्यवच्छ्रेष्ठमाणिक्यं नीलगन्धि तत् ॥११॥माणिक्य-परीक्षारन्ध्रकार्कश्यमालिन्यरौक्ष्यावैशद्यसंयुतम् ।चिपिटं लघु वक्रं च माणिक्यं दुष्टमष्टधा ॥१२॥माणिक्य-आयुर्वेदीय गुणमाणिक्यं दीपनं वृष्यं कफवातक्षयार्तिनुत् ।भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ॥१३॥मौक्तिक-परीक्षाह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् ।ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥१४॥मौक्तिक-आयुर्वेदीय गुणमुक्ताफलं लघु हिमं मधुरं च कान्तिदृष्ट्यग्निपुष्टिकरणं विषहारि भेदि ।वीर्यप्रदं जलनिधेर्जनिता च शुक्तिर्दीप्ता च पक्तिरुजमाशु हरेदवश्यम् ॥१५॥मौक्तिक-परीक्षारूक्षाङ्गं निर्जलं श्यावं ताम्राभं लवणोपमम् ।अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत् ॥१६॥मौक्तिक-आयुर्वेदीय गुणकफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् ।पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥१७॥प्रवाल-परीक्षापक्वबिम्बफलच्छायं वृत्तायतमवक्रकम् ।स्निग्धमव्रणकं स्थूलं प्रवालं सप्तधा शुभम् ॥१८॥प्रवाल-परीक्षापाण्डुरं धूसरं सूक्ष्मं सव्रणं कण्डरान्वितम् ।निर्भारं शुल्बवर्णं च प्रवालं नेष्यतेऽष्टधा ॥१९॥प्रवाल-आयुर्वेदीय गुणक्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु ।विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ॥२०॥तार्क्ष्य-परीक्षाहरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् ।मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम् ॥२१॥तार्क्ष्य-परीक्षाकपिलं कर्कशं नीलं पाण्डु कृष्णं च लाघवम् ।चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते ॥२२॥तार्क्ष्य-आयुर्वेदीय गुणज्वरच्छर्दिविषश्वाससंनिपाताग्निमान्द्यनुत् ।दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम् ॥२३॥पुष्पराग-परीक्षापुष्परागं गुरु स्वच्छं स्निग्धं स्थूलं समं मृदु ।कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा ॥२४॥पुष्पराग-परीक्षानिष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् ।कपिशं कपिलं पाण्डु पुष्परागं परित्यजेत् ॥२५॥पुष्पराग-आयुर्वेदीय गुणपुष्परागं विषच्छर्दिकफवाताग्निमान्द्यनुत् ।दाहकुष्ठास्रशमनं दीपनं पाचनं लघु ॥२६॥वज्रवज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् ।पूर्वं पूर्वमिह श्रेष्ठं रसवीर्यविपाकतः ॥२७॥पुंवज्रअष्टास्रं वाष्टफलकं षट्कोणमतिभासुरम् ।अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते ॥२८॥स्त्रीवज्रतदेव चिपिटाकारं स्त्रीवज्रं वर्तुलायतम् ।नपुंसकवर्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम् ॥२९॥स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके ।व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित् ॥३०॥वज्रश्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् ।ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥३१॥उत्तमोत्तमवर्णं हि नीचवर्णफलप्रदम् ।न्यायोऽयं भैरवेणोक्तः पदार्थेष्वखिलेष्वपि ॥३२॥वज्र-आयुर्वेदीय गुणआयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनम् सकलामयघ्नम् ।सूतेन्द्रबन्धवधसद्गुणकृत्प्रदीपनं मृत्युंजयं तदमृतोपममेव वज्रम् ॥३३॥दोषस्गौरत्रासश्च बिन्दुश्च रेखा च जलगर्भता ।सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः ।क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति ते ॥३४॥वज्र-शोधनकुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा ।एकयामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ॥३५॥वज्र-मारणवज्रं मत्कुणरक्तेन चतुर्वारं विभावितम् ।सुगन्धिमूषिकामांसैर्वर्तितैर्मर्द्य वेष्टयेत् ॥३६॥पुटेत्पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् ।ध्मात्वा ध्मात्वा शतं वारान्कुलत्थक्वाथके क्षिपेत् ।अन्यैरुक्तः शतं वारान्कर्तव्योऽयं विधिक्रमः ॥३७॥वज्र-मारणकुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया ।शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च ॥३८॥अष्टवारं पुटेत्सम्यग्विशुष्कैश्च वनोत्पलैः ।शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे ।निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ॥३९॥सत्यवाक् सोमसेनानीर् एतद्वज्रस्य मारणम् ।दृष्टप्रत्ययसंयुक्तमुक्तवान्रसकौतुकी ॥४०॥वज्र-मारणविलिप्तं मत्कुणस्यास्रे सप्तवारं विशोषितम् ।कासमर्दरसापूर्णे लोहपात्रे निवेशितम् ॥४१॥सप्तवारं परिध्मातं वज्रभस्म भवेत्खलु ।ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः ॥४२॥वज्र-मारणनीलज्योतिर्लताकन्दे घृष्टं घर्मे विशोषितम् ।वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना ॥४३॥वज्र-मारणमदनस्य फलोद्भूतरसेन क्षोणिनागकैः ।कृतकल्केन संलिप्य पुटेद्विंशतिवारकम् ।वज्रचूर्णं भवेद्वर्यं योजयेच्च रसादिषु ॥४४॥वज्र-मारणतद्वज्रं चूर्णयित्वाथ किंचिट् टङ्कणसंयुतम् ।खरभूनागसत्त्वेन विंशेनावर्तते ध्रुवम् ।तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु ॥४५॥त्रिगुणेन रसेनैव संमर्द्य गुटिकीकृतम् ।मुखे धृतं करोत्याशु चलद्दन्तविबन्धनम् ॥४६॥त्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं सितामृतवरं रुद्रांशकं चाभ्रकम् ।पादांशं खलु ताप्यकं वसुगुणं वैक्रान्तकं षड्गुणं भागोऽप्युक्तरसै रसोऽयमुदितः षाड्गुण्यसंसिद्धये ॥४७॥नीलजलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् ॥४८॥जलनील-गुणश्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम् ।इन्द्रनील-गुणकार्ष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम् ॥४९॥नील-परीक्षाएकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् ।मृदु मध्ये लसज्ज्योतिः सप्तधा नीलमुत्तमम् ॥५०॥जलनील-परीक्षाकोमलं विहितं रूक्षं निर्भारं रक्तगन्धि च ।चिपिटाभं ससूक्ष्मं च जलनीलं च सप्तधा ॥५१॥नील-आयुर्वेदीय गुणश्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् ।विषमज्वरदुर्नामपापघ्नं नीलमीरितम् ॥५२॥गोमेदगोमेदःसमरागत्वाद्गोमेदं रत्नमुच्यते ॥५३॥गोमेद-परीक्षासुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु ।निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा ॥५४॥गोमेद-परीक्षाविच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् ।निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥५५॥गोमेद-आयुर्वेदीय गुणगोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् ।दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥५६॥वैडूर्य-परीक्षावैदूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् ।भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥५७॥वैडूर्य-परीक्षाश्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् ।रक्तगर्भोत्तरीयं च वैदूर्यं नैव शस्यते ॥५८॥वैडूर्य-आयुर्वेदीय गुणवैदूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् ।पित्तप्रधानरोगघ्नं दीपनं मलमोचनम् ॥५९॥रत्न-शोधनशुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धकैस्तथा ॥६०॥पुष्परागं च संधानैः कुलत्थक्वाथसंपुटैः ।तण्डुलीयजलैर् वज्रं नीलं नीलीरसेन च ।रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ॥६१॥रत्न-मारणलकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥६२॥रत्न-द्रावणरामठं पञ्चलवणं क्षाराणां त्रितयं तथा ।मांसद्रवोऽम्लवेतश्च चूलिकालवणं तथा ॥६३॥स्थूलं कुम्भीफलं पक्वं तथा ज्वालामुखी शुभा ।द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ॥६४॥दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्य यत्नतः ।गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम् ॥६५॥गुणवन्नवरत्नानि जातिमन्ति शुभानि च ।भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥६६॥पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च ।सर्वाम्लयुक्तसंधानपरिपूर्णघटोदरे ॥६७॥अहोरात्रत्रयं यावत् स्वेदयेत् तीव्रवह्निना ।तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत् ।रत्नतुल्यप्रभा लघ्वी देहलोहकरी शुभा ॥६८॥द्रावणमुक्ताचूर्णं तु सप्ताहं वेतसाम्लेन मर्दितम् ।जम्बीरोदरमध्ये तु धान्यराशौ विनिक्षिपेत् ।सप्ताहादुद्धृतं चैव पुटे धृत्वा द्रुतिर्भवेत् ॥६९॥वज्र-द्रावणवज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरोधयेत् ।अम्लभाण्डगतं स्वेद्यं सप्ताहाद् द्रवताम् व्रजेत् ॥७०॥वैक्रान्त-द्रावणश्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् ।सप्ताहान्नात्र संदेहः खरघर्मे द्रवत्यसौ ॥७१॥वैक्रान्त-द्रावणकेतकीस्वरसं ग्राह्यं सैन्धवं स्वर्णपुष्पिका ।इन्द्रगोपकसंयुक्तं सर्वं भाण्डे विनिक्षिपेत् ।सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ॥७२॥रत्न-द्रावणलोहाष्टके तथा वज्रवापनात् स्वेदनाद् द्रुतिः ।जायते नात्र संदेहो योगस्यास्य प्रभावतः ॥७३॥कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ॥७४॥द्रुतीनां दीर्घकालरक्षणोपायःकुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् ।तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥७५॥रत्नसूर्यादिग्रहनिग्रहापहरणं दीर्घायुरारोग्यदं ।सौभाग्योदयभाग्यवश्यविभवोत्साहप्रदं धैर्यकृत् ॥७६॥ दुश्छायाचलधूलिसंगतिभवालक्ष्मीहरं सर्वदा ।रत्नानां परिधारणं निगदितं भूतादिनिर्नाशनम् ॥७७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP