संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय ९ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय ९ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय ९ Translation - भाषांतर अथ यन्त्राणि वक्ष्यन्ते रसतन्त्राण्यशेषतः ।समालोच्य समासेन सोमदेवेन साम्प्रतम् ॥१॥स्वेदादिकर्म निर्मातुं वार्त्तिकेन्द्रैः प्रयत्नतः ।यन्त्र-निरुक्तियन्त्र्यते पारदो यस्मात्तस्माद्यन्त्रमिति स्मृतम् ॥२॥दोलायन्त्रद्रवद्रव्येण भाण्डस्य पूरितार्धोदकस्य च ।मुखस्योभयतो द्वारद्वयं कृत्वा प्रयत्नतः ॥३॥तयोस्तु निक्षिपेद् दण्डं तन्मध्ये रसपोटलीम् ।बद्ध्वा तु स्वेदयेदेतद्दोलायन्त्रमिति स्मृतम् ॥४॥स्वेदनीयन्त्रसाम्बुस्थालीमुखे बद्धवस्त्रे पाक्यं निवेशयेत् ।पिधाय पच्यते यत्र स्वेदनीयन्त्रमुच्यते ॥५॥पातनायन्त्रअष्टाङ्गुलपरीणाहमानाहेन दशाङ्गुलम् ।चतुरङ्गुलकोत्सेधं तोयाधारं गलादधः ॥६॥अधोभाण्डे मुखं तस्य भाण्डस्योपरि वर्तिनः ।षोडशाङ्गुलविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ॥७॥पार्श्वयोर् महिषीक्षीरचूर्णमण्डूरफाणितैः ।लिप्त्वा विशोषयेत्संधिं जलाधारे जलं क्षिपेत् ।चुल्ल्याम् आरोपयेद् एतत् पातनायन्त्रमुच्यते ॥८॥अधःपातनयन्त्रअथोर्ध्वभाजने लिप्तस्थापितस्य जले सुधीः ।दीप्तैर् वनोपलैः कुर्यादधः पातं प्रयत्नतः ॥९॥कच्छपयन्त्रजलपूर्णपात्रमध्ये दत्त्वा घटखर्परं सुविस्तीर्णम् ।तदुपरि विडमध्यगतः स्थाप्यः सूतः कृतः कोष्ठ्याम् ॥१०॥लघुलोहकटोरिकया कृतषण्मृत्संधिलेपयाच्छाद्य ।पूर्वोक्तघटखर्परमध्येऽङ्गारैः खदिरकोलभवैः ॥११॥स्वेदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति ।अग्निबलेनैव ततो गर्भे द्रवन्ति सर्वसत्त्वानि ॥१२॥दीपिकायन्त्रकच्छपयन्त्रान्तर्गतमृन्मयपीठस्थदीपिकासंस्थः ।यस्मिन्निपतति सूतः प्रोक्तं तद्दीपिकायन्त्रम् ॥१३॥डेकीयन्त्रभाण्डकण्ठादधश् छिद्रे वेणुनालं विनिक्षिपेत् ।कांस्यपात्रद्वयं कृत्वा सम्पुटं जलगर्भितम् ॥१४॥नलिकास्यं तत्र योज्यं दृढं तच्चापि कारयेत् ।युक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः ॥१५॥अग्निना तापितो नालात्तोये तस्मिन्पतत्यधः ।यावदुष्णं भवेत् सर्वं भाजनं तावदेव हि ।जायते रससंधानं डेकीयन्त्रमितीरितम् ॥१६॥जारणायन्त्रलोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः ।ईषच्छिद्रान्वितामेकां तत्र गन्धकसंयुताम् ॥१७॥मूषायां रसयुक्तायाम् अन्यस्यां तां प्रवेशयेत् ।तोयं स्यात्सूतकस्याध ऊर्ध्वाधो वह्निदीपनम् ॥१८॥जारणायन्त्र (२)रसोनकरसं भद्रे यत्नतो वस्त्रगालितम् ।दापयेत्प्रचुरं यत्नादाप्लाव्य रसगन्धकौ ॥१९॥स्थालिकायां पिधायोर्ध्वं स्थालीमन्यां दृढां कुरु ।संधिं विलेपयेद्यत्नान्मृदा वस्त्रेण चैव हि ॥२०॥स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना सदा ।यन्त्रस्याधः करीषाग्निं दद्यात्तीव्राग्निमेव वा ॥२१॥एवं तु त्रिदिनं कुर्यात्ततो यन्त्रं विमोचयेत् ।तप्तोदके तप्तचुल्ल्यां न कुर्याच्छीतलां क्रियाम् ॥२२॥न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् ।अनेन च क्रमेणैव कुर्याद्गन्धकजारणम् ॥२३॥विद्याधरयन्त्रयन्त्रं विद्याधरं ज्ञेयं स्थालीद्वितयसम्पुटात् ।चुल्लीं चतुर्मुखीं कृत्वा यन्त्रभाण्डं निवेशयेत् ॥२४॥तत्रौषधं विनिक्षिप्य निरुन्ध्याद्भाण्डकाननम् ।यन्त्रं विद्याधरं नाम तन्त्रज्ञैः परिकीर्तितम् ॥२५॥सोमानलयन्त्रऊर्ध्वं वह्निरधश्चापो मध्ये तु रससंग्रहः ।सोमानलम् इदं प्रोक्तं जारयेद्गगनादिकम् ॥२६॥गर्भयन्त्रगर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारकम् ।चतुरङ्गुलदीर्घां च त्र्यङ्गुलोन्मितविस्तराम् ॥२७॥मृन्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखम् ।लोणस्य विंशतिर्भागा भाग एकस्तु गुग्गुलोः ॥२८॥सुश्लक्ष्णं पेषयित्वा तु वारं वारं पुनः पुनः ।मूषालेपं दृढं कृत्वा लवणार्धमृदम्बुभिः ॥२९॥कर्षेत् तुषाग्निना भूमौ स्वेदयेन्मृदु मानवित् ।अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥३०॥हंसपाकखर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् ।अपरं खर्परं तत्र शनैर् मृद्वग्निना पचेत् ॥३१॥पञ्चक्षारैस्तथा मूत्रैर् लवणं च विडं ततः ।हंसपाकं समाख्यातं यन्त्रं तद् वार्त्तिकोत्तमैः ॥३२॥वालुकायन्त्रसरसां गूढवक्त्रां मृद्वस्त्राङ्गुलघनावृताम् ।शोषितां काचकलशीं त्रिषु भागेषु पूरयेत् ॥३३॥भाण्डे वितस्तिगम्भीरे वालुकासुप्रतिष्ठिता ।तद्भाण्डं पूरयेत्त्रिभिरन्याभिरवगुण्ठयेत् ॥३४॥भाण्डवक्त्रं मणिकया संधिं लिम्पेन् मृदा पचेत् ।चुल्ल्यां तृणस्य चादाहान् मणिकापृष्ठवर्तिनः ।एतद्धि वालुकायन्त्रं तद्यन्त्रं लवणाश्रयम् ॥३५॥वालुकायन्त्र (२)पञ्चाढवालुकापूर्णभाण्डे निक्षिप्य यत्नतः ।पच्यते रसगोलाद्यं वालुकायन्त्रम् ईरितम् ॥३६॥लवणयन्त्र (१)एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् ॥३७॥लवणयन्त्र (२)अन्तःकृतरसालेपताम्रपात्रमुखस्य च ।लिप्त्वा मृल्लवणेनैव संधिं भाण्डतलस्य च ॥३८॥तद्भाण्डं पटुनापूर्य क्षारैर्वा पूर्ववत्पचेत् ।एवं लवणयन्त्रं स्याद् रसकर्मणि शस्यते ॥३९॥नालिकायन्त्रलोहनालगतं सूतं भाण्डे लवणपूरिते ।निरुद्धं विपचेत्प्राग्वन् नालिकायन्त्रम् ईरितम् ॥४०॥भूधरयन्त्रवालुकागूढसर्वाङ्गां गर्ते मूषां रसान्विताम् ।दीप्तोपलैः संवृणुयाद् यन्त्रं तद् भूधराह्वयम् ॥४१॥पुटयन्त्रशरावसम्पुटान्तस्थं करीषेष्व् अग्निमानवित् ।पचेच्चुल्ल्यां द्वियामं वा रसं तत् पुटयन्त्रकम् ॥४२॥कोष्ठीयन्त्रषोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं समम् ।धातुसत्त्वनिपातार्थं कोष्ठीयन्त्रम् इति स्मृतम् ॥४३॥वलभीयन्त्रयत्र लोहमये पात्रे पार्श्वयोर्वलयद्वयम् ।तादृक् स्वल्पतरं पात्रं वलयप्रोतकोष्ठकम् ॥४४॥पूर्वपात्रोपरि न्यस्य स्वल्पपात्रे परिक्षिपेत् ।रसं संमूर्छितं स्थूलपात्रम् आपूर्य काञ्जिकैः ॥४५॥द्वियामं स्वेदयेदेव रसोत्थापनहेतवे ।एतत्स्याद् वलभीयन्त्रं रसे षाड्गुण्यकारकम् ।सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः ॥४६॥तिर्यक्पातनयन्त्रक्षिपेद्रसं घटे दीर्घनताधोनालसंयुते ।तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ॥४७॥तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरथ ।अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम् ॥४८॥इतरस्मिन्घटे तोयं प्रक्षिपेत्स्वादु शीतलम् ।तिर्यक्पातनम् एतद्धि वार्त्तिकैर् अभिधीयते ॥४९॥पालिकायन्त्रचषकं वर्तुलं लौहं विनताग्रोर्ध्वदण्डकम् ।एतद्धि पालिकायन्त्रं बलिजारणहेतवे ॥५०॥घटयन्त्रचतुष्प्रस्थजलाधारश् चतुरङ्गुलिकाननः ।घटयन्त्रम् इदं प्रोक्तं तदाप्यायनकं स्मृतम् ॥५१॥इष्टिकायन्त्रविधाय वर्तुलं गर्तं मल्लमत्र निधाय च ।विनिधायेष्टकां तत्र मध्यगर्तवतीं शुभाम् ॥५२॥गर्तस्य परितः कुर्यात्पालिकाम् अङ्गुलोच्छ्रयाम् ।गर्ते सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् ॥५३॥निक्षिपेद्गन्धकं तत्र मल्लेनास्यं निरुध्य च ।मल्लपालिकयोर्मध्ये मृदा सम्यङ् निरुध्य च ॥५४॥वनोपलैः पुटं देयं कपोताख्यं न चाधिकम् ।इष्टिकायन्त्रम् एतत् स्याद् गन्धकं तेन जारयेत् ॥५५॥हिङ्गुलाकृष्टिविद्याधरयन्त्रस्थालिकोपरि विन्यस्य स्थालीं सम्यङ् निरुध्य च ।ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेद् अधः ।एतद् विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे ॥५६॥डमरुयन्त्रयन्त्रस्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुन्धयेत् ।यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम् ॥५७॥नाभियन्त्रमल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् ।गर्तस्य परितः कुड्यं प्रकुर्यादङ्गुलोच्छ्रितम् ॥५८॥ततश् चाच्छादयेत् सम्यग् गोस्तनाकारमूषया ।सम्यक् तोयमृदा रुद्ध्वा सम्यगत्रोच्यमानया ॥५९॥तोयमृद्लेहवत् कृतबब्बूलक्वाथेन परिमर्दितम् ।जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णसमन्वितम् ।इयं हि जलमृत् प्रोक्ता दुर्भेद्या सलिलैः खलु ॥६०॥वह्निमृद्खटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः ।वह्निमृत्स्ना भवेद् घोरवह्नितापसहा खलु ॥६१॥एतया मृत्स्नया रुद्धो न गन्तुं क्षमते रसः ।विदग्धवनिताप्रौढप्रेम्णा रुद्धः पुमानिव ॥६२॥नन्दी नागार्जुनश्चैव ब्रह्मज्योतिर् मुनीश्वरः ।वेत्ति श्रीसोमदेवश्च नापरः पृथिवीतले ॥६३॥नाभियन्त्रततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः ।नाभियन्त्रमिदं प्रोक्तं नन्दिना सर्ववेदिना ।अनेन जीर्यते सूतो निर्धूमः शुद्धगन्धकः ॥६४॥ग्रस्तयन्त्रमूषां मूषोदराविष्टाम् आद्यन्तःसमवर्तुलाम् ।चिपिटां च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः ।सूतेन्द्ररन्धनार्थं हि रसविद्भिर् उदीरितम् ॥६५॥स्थालीयन्त्रस्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च ।पच्यते स्थालिकाधस्तात् स्थालीयन्त्रम् इदं स्मृतम् ॥६६॥धूपयन्त्रविधायाष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलोच्छ्रयम् ।कण्ठाधो ह्य् अङ्गुले देशे गलाधारे हि तत्र च ॥६७॥तिर्यग्लोहशलाकाश्च तन्वीस्तिर्यग् विनिक्षिपेत् ।तनूनि स्वर्णपत्त्राणि तासामुपरि विन्यसेत् ॥६८॥पत्त्राधो निक्षिपेद् वक्ष्यमाणम् इहैव हि ।तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि ॥६९॥मृदा विलिप्य संधिं च वह्निं प्रज्वालयेद् अधः ।तेन पत्त्राणि कृत्स्नानि हतान्य् उक्तविधानतः ॥७०॥रसश्चरति वेगेन द्रुतं गर्भे द्रवन्ति च ।गन्धालकशिलानां हि कज्जल्या वा मृताहिना ॥७१॥धूपनं स्वर्णपत्त्राणां प्रथमं परिकीर्तितम् ।तारार्थं तारपत्त्राणि मृतवङ्गेन धूपयेत् ॥७२॥धूपयेच्च यथायोग्यैरन्यैरुपरसैरपि ।धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यसाधने ॥७३॥कन्दुकयन्त्र (१)स्थूलस्थाल्यां जलं क्षिप्त्वा वासो बद्ध्वा मुखे दृढम् ।तत्र स्वेद्यं विनिक्षिप्य तन्मुखं प्रपिधाय च ॥७४॥अधस्ताज्ज्वालयेदग्निं यन्त्रं तत्कन्दुकाभिधम् ।स्वेदनीयन्त्रमित्यन्ये प्राहुश्चेदं मनीषिणः ॥७५॥कन्दुकयन्त्र (२)यद्वा स्थाल्यां जलं क्षिप्त्वा तृणं क्षिप्त्वा मुखोपरि ।स्वेद्यद्रव्यं परिक्षिप्य पिधानं प्रविधाय च ।अधस्ताज्ज्वालयेदग्निं यन्त्रं तत् कन्दुकं स्मृतम् ॥७६॥खल्व-ग्रिन्द्स्तोनेखल्लयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः ।षोडशाङ्गुलकोत्सेधा नवाङ्गुलकविस्तरा ॥७७॥खल्व-पेस्त्लेचतुर्विंशाङ्गुला दीर्घा घर्षणी द्वादशाङ्गुला ।विंशत्यङ्गुलदीर्घा वा स्यादुत्सेधे दशाङ्गुला ।खल्लप्रमाणं तज्ज्ञेयं श्रेष्ठं स्याद्रसकर्मणि ॥७८॥खल्व-खल्लयन्त्रं त्रिधा प्रोक्तं रसादिसुखमर्दने ॥७९॥निरुद्गारौ सुमसृणौ कार्यौ पुत्रिकया युतौ ॥८०॥खल्व-अर्धचन्द्रउत्सेधे स दशाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण दशाङ्गुलो मुनिमितैर्निम्नस् तयैवाङ्गुलैः ।पाल्यां द्व्यङ्गुलिविस्तरश्च मसृणोऽतीवार्धचन्द्रोपमो घर्षो द्वादशकाङ्गुलश्च तदयं खल्लो मतः सिद्धये ॥८१॥अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये ।तत्तदौचित्ययोगेन खल्लेष्वन्येषु योजयेत् ॥८२॥खल्व (२)द्वादशाङ्गुलविस्तारः खल्लोऽतिमसृणोपलः ।चतुरङ्गुलनिम्नश्च मध्येऽतिमसृणीकृतः ॥८३॥मर्दकश् चिपिटोऽधस्तात् सुग्राहश्च शिखोपरि ।अयं तु वर्तुलः खल्लो मर्दनेऽतिसुखप्रदः ॥८४॥तप्तखल्वलौहो नवाङ्गुलः खल्लो निम्नत्वे च षडङ्गुलः ।मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्लाभिधोऽप्ययम् ॥८५॥कृत्वा खल्लाकृतिं चुल्लीम् अङ्गारैः परिपूरिताम् ।तस्यां निवेश्य तं खल्लं पार्श्वे भस्त्रिकया धमेत् ॥८६॥तदन्तर्मर्दिता पिष्टिः क्षारैरम्लैश्च संयुता ।प्रद्रवत्यतिवेगेन स्वेदिता नात्र संशयः ।कृतः कान्तायसा सोऽयं भवेत् कोटिगुणो रसः ॥८७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP