संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय १२ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय १२ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय १२ Translation - भाषांतर ज्वरस्य रक्तपित्तस्य कासस्य श्वासहिध्मयोः ।वैस्वर्यस्य क्षयस्यापि तथारोचप्रसेकयोः ॥१॥छर्दिहृद्रोगयोश् चैव तृष्णामद्योद्भवार्शसाम् ।उदावर्तातिसाराणां ग्रहण्यर्तिप्रवाहिणोः ॥२॥विसूच्या वह्निमान्द्यस्य मूत्रकृच्छ्राश्मरुजाम् ।मेहस्य सोमरोगस्य पिटिकानां च विद्रधेः ॥३॥वृद्धिगुल्मादिरोगाणां शूलानामुदरस्य च ।पाण्डुशोफविसर्पाणां कुष्ठश्वित्रनभस्वताम् ॥४॥वातास्रस्यावृतानां च वन्ध्यानां गर्भिणीरुजाम् ।सूतिकाबालरोगाणाम् उन्मादेऽपस्मृताव् अपि ॥५॥नेत्ररोगे कर्णरोगे नासारोगास्यरोगयोः ।शिरःसंजातरोगेषु व्रणे भङ्गे भगंदरे ॥६॥ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे विषेषु च ।जरायास्त्वनपत्यानां बीजपोषणहेतवे ॥७॥परिपाट्यानया सर्वं रोगाणां हि चिकित्सनम् ।रसलोहविषैर् अत्र योगैर्वक्ष्ये यथागमम् ॥८॥रोमाञ्चकम्पौ वदने मधुत्वमुज्जृम्भणं मस्तकतोददाहौ ।वातज्वरस्योक्तम् इदं हि लक्ष्म भुक्तोत्तरं स्याद्यदि शश्वदेव ॥९॥विरेकशोषास्यकटुत्वतीव्रतापप्रलापभ्रममूर्छनानि ।एतानि पित्तज्वरलक्षणानि वमिः सतृष्णाङ्गविदाहिता च ॥१०॥कासश्वासौ मुखे जाड्यं माधुर्यं बहुनिद्रता ।प्रस्वेदः स्वल्पदाहश्च श्लेष्मजज्वरलक्षणम् ॥११॥मिश्रितं लक्षणं यत्तु द्वयोस् त्रिषु भवेच्च तत् ॥१२॥विमर्दिताभ्यां रसगन्धकाभ्यां नीरेण कुर्यादिह गोलकं तम् ।भाण्डे नवीने विनिवेश्य पश्चात्तद्गोलकस्योपरि ताम्रपात्रम् ॥१३॥सार्धं मुहूर्तं विनिरुध्य धीमान् उद्दीपयेद् दीप्तकृशानुनास्य ।अधस्ततः सिध्यति पर्पटीयं नवज्वरारण्यकृशानुमेघः ॥१४॥विलिप्य पूर्वं रसनां च तालुदेशं च सिन्धूद्भवजीरकार्द्रैः ।वल्लोन्मितां चार्द्रकतोयमिश्राम् एनां नियोज्य स्थगयेत् पटेन ॥१५॥घर्मोद्गमो यावदतः परं च तक्रौदनं पथ्यमिह प्रयोज्यम् ।कुर्याद्दिनानां त्रितयं यदीत्थं ज्वरस्य शङ्कापि तदा भवेत्किम् ॥१६॥सूतार्कगन्धचपलाजयपालतिक्तापथ्यात्रिवृच्च विषतिन्दुकजान् समांशान् ।संभाव्य वज्रिपयसा मधुना त्रिवल्लस् त्रैलोक्यडम्बररसोऽभिनवज्वरघ्नः ॥१७॥पादांशकं साररविः समांशगन्धो विपक्वः स्वकषायपिष्टः ।रसः क्रमान्माषमितोऽनिलादिज्वरेषु नाम्ना किल मेघनादः ॥१८॥दरदजलदयुक्तं शुद्धसूतं च गन्धं प्रहरमथ सुपिष्टं वल्लयुग्मं च दद्यात् ।ज्वरगजहरिसंज्ञं शृङ्गवेरोदकेन प्रथमजनितदाही क्षीरभक्तेन भोज्यः ॥१९॥संतप्तसीसभागं च पारदं गन्धकं कणाम् ।समभागं पृथक् तत्र मेलयेच्च यथाविधि ॥२०॥जम्बीरस्य रसे सर्वं मर्दयेच्च दिनत्रयम् ।मेघनादकुमार्योश्च रसे चापि दिनत्रयम् ॥२१॥दिनद्वयमजामूत्रे गवां मूत्रे दिनत्रयम् ।भावयेच्च यथायोग्यं तस्मिन्नेतानि दापयेत् ॥२२॥सैन्धवं चित्रकं भागं सौवर्चललवणं तथा ।तेन सम्मेलनं कृत्वा भावयेच्च पुनः पुनः ॥२३॥अनेन विधिना सम्यक् सिद्धो भवति तद्रसः ।शर्कराघृतसंयुक्तं दद्याद्वल्लत्रयं रसम् ॥२४॥गोधूमस्यौदनं पथ्यं माषसूपं च वास्तुकम् ।धात्रीफलसमायुक्तं सर्वज्वरविनाशनम् ।दीपिकारस इत्येष तन्त्रज्ञैः परिकीर्तितः ॥२५॥पारदं रसकं तालं तुत्थं गन्धकटङ्कणम् ।सर्वमेतत्समं शुद्धं कारवल्ल्या द्रवैर्दिनम् ॥२६॥मर्दयेत्तेन कल्केन ताम्रपात्रोदरं लिम्पेत् ।अङ्गुलार्धार्धमानेन तं पचेत्सिकताह्वये ॥२७॥यन्त्रे यावत्स्फुटन्त्येवं व्रीहयस्तस्य पृष्ठतः ।ततः सुशीतलं ग्राह्यं ताम्रपात्रोदराद् भिषक् ॥२८॥शीतभञ्जी रसो नाम चूर्णयेन्मरिचैः समम् ।माषैकं पर्णखण्डेन भक्षयेन्नाशयेज्ज्वरम् ।त्रिदिनैर् विषमं तीव्रमेकद्वित्रिचतुर्थकम् ॥२९॥सूततालशिलास्तुल्या मर्दयेत्कर्कटीरसे ।ताम्रपात्रे विनिक्षिप्य तत्कल्कं कज्जलीकृतम् ॥३०॥विपचेद्वालुकायन्त्रे यथोक्तविधिना ततः ।दद्यान्मरिचचूर्णेन माषमात्रं भिषग्वरः ॥३१॥प्रपिबेदुष्णतोयस्य चुलुकं शीतकज्वरे ।शीतभञ्जी रसः सोऽयं शीतज्वरनिवारणः ॥३२॥कूष्माण्डचूर्णतिलजैः प्रविशुद्धतालं गाढं विमर्द्य सुषवीसलिलेन तुल्यम् ।सूतेन हिङ्गुलभुवा सिकताख्ययन्त्रे गोलं विधाय परिवृत्तकपालमध्ये ॥३३॥पत्त्रेण तं दिनपतेश्च पिधाय रुद्ध्वा संधिं तयोर्गुडसुधाखटिकाशिवाभिः ।वह्नौ पचेन्मृदुनि पात्रशिरःस्थशालीवैवर्ण्यमात्रम् अवधिं प्रविधाय धीमान् ॥३४॥वल्लं ततः सुरसमिश्रममुष्य दद्यात् सर्पिः सिताकणपयोमधु चानुपेयम् ।जेतुं ज्वरान् प्रविषमान् इह वान्तिशान्त्यै मौलौ सुशीतलजलस्य ददीत धाराम् ॥३५॥अथामयान्तं रसराजमौलिभूषामणिं तं मृतजीवनाख्यम् ।सुधारसेनेव रसेन येन संजीवनं स्यात् सहसातुराणाम् ॥३६॥रसहिङ्गुलजेपालैर् वृद्ध्या दन्त्यम्बुमर्दितैः ।दिनार्धेन ज्वरं हन्याद्गुञ्जैकं सितया सह ॥३७॥शुद्धं सूतं विषं गन्धं धूर्तबीजं त्रिभिः समम् ।चतुर्भिश्च समं व्योषं चूर्णीकृत्य निधापयेत् ॥३८॥दन्तभाण्डेऽथ वा शार्ङ्गे काष्ठे नैव कदाचन ।वातश्लेष्मज्वरे देयं द्वंद्वजे वा त्रिदोषजे ॥३९॥रसेन शृङ्गवेरस्य जम्बीरस्याथवा पुनः ।गुञ्जाद्वयं च जीर्णेऽस्मिन्दधिभक्तं प्रयोजयेत् ॥४०॥एकद्वित्रिदिनैर्हन्याज् ज्वरान् दोषक्रमेण तु ।महाज्वराङ्कुशो नाम रसोऽयं शम्भुनोदितः ॥४१॥तालं ताम्ररजो रसश्च गगनं गन्धश्च नेपालकं दीनारप्रमितं तदर्धमुदितं टङ्कं शिलामाक्षिकम् ।दीनारद्वितयं विषस्य शिखिनः पिष्ट्वा रसैः पाचितो यश्चिन्तामणिवज्ज्वरौघविजयी नाम्ना तु मृत्युंजयः ॥४२॥तालं ताम्रम् अयोरजश्च चपला तुत्थाभ्रकं कान्तकं नागं स्याच्च समांशकं सुमृदितं मूलं च पौनर्नवम् ।भृङ्गीकासहरीपुनर्नवामहामन्दारपत्त्रोद्भवैः कल्कं वालुकयन्त्रपाचितम् इदं सर्वज्वरस्यान्तकृत् ॥४३॥तुत्थेन तुल्यः शिवजश्च गन्धो जम्बीरनीरेण विमर्दनीयः ।दिनत्रयं मेलय तेन तुल्यं व्योषं ततः सिध्यति चन्द्रसूर्यः ॥४४॥वल्लो विजेतुं विषमावलम्बि दलेन देयो भुजगाख्यवल्ल्याः ।दुग्धं हितं स्यादिह शृङ्गवेररसेन शैत्येषु निषेवणीयः ॥४५॥तक्रं सगर्भाज्वरशूलयोस्तु द्राक्षाम्बुना पथ्यमनन्तरोक्तम् ।रोधं वरायाः सलिलेन शूलं जम्बीरनीरेण वराजलेन ॥४६॥अपस्मृताव् अत्र नियोजनीयमभ्यञ्जनं बिम्बपयोभवाभ्याम् ।घृतौदनं स्यादिह भोजनाय जम्बीरनीरेण निहन्ति गुल्मम् ॥४७॥हिङ्ग्वम्लिकानिम्बुरसेन देयं प्लीहोदरे स्यादिह तक्रभक्तः ।स्तम्भार्थमस्मिन्ससितं पयः स्याद् गुडो नियोज्यो वमनप्रशान्त्यै ॥४८॥अशीतिर् यस्य वर्षाणि वसुवर्षाणि यस्य वा ।विषं तस्य न दातव्यं दत्तं चेद् दोषकारकम् ॥४९॥मेघपारदगन्धाश्मविषव्योषपटूनि च ।जीरकद्वयमेतानि समभागानि कारयेत् ॥५०॥सिन्दुवाररसेनापि लशुनस्य रसेन च ।अपामार्गरसेनापि सप्तरात्रं विमर्दयेत् ॥५१॥तत्पक्वं वालुकायन्त्रे गुञ्जामात्रं प्रयोजयेत् ।सनागवल्लीमरिचं ततः शीताम्बु पाययेत् ॥५२॥उमाप्रसादनो नाम रसः शीतज्वरापहः ।चातुर्थिकं त्रिरात्रं वा नाशयेत् किमुतापरान् ॥५३॥टङ्कणं रसगन्धौ च समभागान्प्रकल्पयेत् ।नेपालं द्विगुणं दत्त्वा मर्दयेत् खल्लमध्यतः ॥५४॥श्लक्ष्णतां याति तद्यावत्तावत्तन्मर्दयेच्छनैः ।सैन्धवं मरिचं शङ्खं चिञ्चाक्षारं समाक्षिकम् ॥५५॥तत्तुल्यम् एतत् कृत्वाथ निम्बूतोयेन मर्दयेत् ।चणप्रमाणवटिकाम् भक्षयेद्दिवसत्रयम् ॥५६॥ऐकाहिकं द्व्याहिकं च त्र्याहिकं च चतुर्थकम् ।सर्वज्वरविनाशाय ज्वराङ्कुश इति स्मृतः ॥५७॥अभ्रकं गन्धकं सूतं तोलकैकं पृथक्पृथक् ।गृहीत्वा विषतोलार्धं तोलार्धं तिन्तिडीफलम् ॥५८॥एतत्सर्वं समं कृत्वा मर्दयेत् खल्लमध्यतः ।श्लक्ष्णतां याति तद्यावत् तावत् संमर्दयेच्छनैः ॥५९॥विस्तारे परिणाहे च गर्तां कृत्वा षडङ्गुलाम् ।फणिवल्लीदलान्यन्तर्गर्तायां प्रक्षिपेन्नरः ॥६०॥पर्णेषु सूतकल्कं तं गर्तायां स्थापयेद् दृढम् ।कल्काद् उपरि तत्पर्णैर् गर्तावक्त्रं प्रपूरयेत् ॥६१॥गर्तायां तु ततो देयं पुटमारण्यकोत्पलैः ।स्वाङ्गशीतलतां ज्ञात्वा समाकर्षेत्ततः परम् ॥६२॥सूतलिप्तदलैः सार्धं कल्कं खल्ले विमर्दयेत् ।तोलार्धममृतं क्षिप्त्वा तोलार्धं तिन्तिडीफलम् ॥६३॥स्थापयेत्खल्लितं कल्कं योजयेद् गुञ्जमात्रया ।शृङ्गवेराम्भसा युक्तं तीक्ष्णचित्रकसैन्धवैः ॥६४॥संनिपाते तथा वाते त्रिदोषे विषमज्वरे ।अग्निमान्द्ये ग्रहिण्यां च तथा देयोऽतिसारिणि ॥६५॥भोजनं दधिभक्तं च रसेऽस्मिन् संप्रयोजयेत् ।व्याध्यादिकं यथा कुर्यादुदकं ढालयेत् ततः ॥६६॥एष योगवरः श्रीमान्प्राणिनां प्राणदायकः ।चिन्तामणिरितिख्यातो रसः सर्वाङ्गसुन्दरः ॥६७॥सूतेन्द्रं परिमर्द्य पञ्चपटुभिः क्षारैस् त्रिभिस् तं ततः पिण्डे हिङ्गुमहौषधासुरीमये संस्वेद्य धान्योदके ।निर्गुण्ड्यम्बुहुताशमन्थतिलपर्ण्युन्मत्तभृङ्गार्द्रकं कामातागिरिकर्णिकाप्लवदलापञ्चाङ्गुलोत्थैर् जलैः ॥६८॥सूतेन्द्रेण समैर् विमर्द्य सहजैः पित्तैस्ततो भावयेद् दंष्ट्रिच्छागलुलायमत्स्यशिखिनां सा संनिपाताञ्जयेत् ।विख्याता भुवि लोकनाथगुटिका मारीचमात्रा हिता स्यादस्याः सहितं दधीक्षुशकलं वीर्यं भवेच्छीतलम् ॥६९॥वज्रवैक्रान्तयोर् भस्म प्रत्येकं निष्कसम्मितम् ।शृङ्गीविषं द्विनिष्कं च त्रिनिष्कं चूलिकापटु ॥७०॥पञ्चनिष्कोऽग्निजारश्च सर्वमेकत्र मेलयेत् ।तावद्भस्म रसं यावन्मर्दयेद् दिवसत्रयम् ॥७१॥शार्ङ्गष्टादिकवर्गस्य क्षारनीरेण भावयेत् ।त्रयोविंशतिवाराणि विमर्द्य च विशोष्य च ॥७२॥ततो विमर्द्य दिवसं क्षिपेद् दन्तकरण्डके ।मृतसंजीवनाख्योऽयं सूचिकाभरणो रसः ॥७३॥संनिपातेन तीव्रेण मुमुर्षोर् भूगतस्य च ।तालुनि वृश्चयित्वाथ रसमेनं विनिक्षिपेत् ॥७४॥सूच्यातिसूक्ष्मया तोयभिन्नयातिप्रयत्नतः ।ततस्तैलेन तं लिप्त्वा निर्वाते संनिवेशयेत् ॥७५॥ततोऽर्धप्रहराद् ऊर्ध्वं मुक्तमूत्रपुरीषकम् ।लब्धसंज्ञं प्रतापाढ्यं दोलयन्तं शिरो मुहुः ॥७६॥आयुष्मन्तं विजानीयादन्यथा चान्यथा खलु ।ततः शीताम्बुसम्पूर्णे कटाहे तं निवेशयेत् ॥७७॥तत्र चोत्क्वथितं तोयम् अपनीयापरं क्षिपेत् ।याचमानम् अमुं पश्चात् पाययेत् ससितं पयः ॥७८॥दधि वा सितयोपेतं नारिकेलजलं तथा ।रम्भाफलानि दद्याच्च म्रियते सोऽन्यथा खलु ॥७९॥लब्धसंज्ञं प्रभाषन्तं याचमानं फलादिकम् ।तस्मादाकृष्य तैलाक्तं तैलं पिष्ट्वापनीय च ॥८०॥लेपयेद्गन्धकर्पूरैर् आ पादतलमस्तकम् ।इत्यादिशिशिरैर् द्रव्यैः सप्तरात्रम् उपाचरेत् ॥८१॥कर्णाक्षिनासिकावक्त्रे क्षिपेत् पोताश्रयं मुहुः ।अष्टमेऽहनि सम्प्राप्ते दर्दुरीमूलजं रसम् ॥८२॥ससितं पाययेद् वेगम् अवतारयितुं रसम् ।रसेऽवतारिते पश्चाद् यथेष्टं भोजनं दधि ॥८३॥श्वासोच्छ्वासयुतं चान्यैर् मुक्तजीवनलक्षणैः ।कटाहे जलसम्पूर्णे निक्षिपेद् बोधलब्धये ॥८४॥लब्धबोधं तमाकृष्य पूर्ववत् समुपाचरेत् ।जीवित्वा यावद् आयुष्यं म्रियते तदनन्तरम् ॥८५॥संनिपाते महाघोरे मज्जन्तं मृत्युसागरे ।उद्धरेत्तस्य धर्मस्य ब्रह्माप्यन्तं न विन्दति ॥८६॥संनिपातमहामृत्युभयनिर्मुक्तमानवः ।अपि सर्वस्वदानेन प्राणाचार्यं प्रपूजयेत् ॥८७॥अन्यथा नरके तावद् यावत् कल्पविकल्पना ।इत्याज्ञा शांकरी ज्ञेया शम्भुना परिकीर्तिता ॥८८॥प्रकाशा नैव कर्तव्या रसोत्तरणमूलिका ।शास्त्रं विना प्रयच्छन्ते मन्दा वित्ताभिकाङ्क्षया ।गुरुप्रसादम् आसाद्य संनिपाते प्रयुज्यताम् ॥८९॥शार्ङ्गष्टा च तथा व्याघ्री करीरस् तिलपर्णिका ।इन्द्रवारुणिका मुस्ता हरिद्राङ्कोलमूलिका ॥९०॥अपामार्गः कणा स्वर्णं कटुतुम्बी च तिन्तिडी ।शार्ङ्गष्टादिकवर्गोऽयं संनिपातहरः परम् ॥९१॥सूतं गन्धकतालकं मणिशिलां ताप्यं लवं तुत्थकं जेपालं विषटङ्कणं मधुफलं कृत्वा समांशं दृढम् ।कृत्वा कज्जलिकां विषोल्बणफणेः पित्तैश्च संभावयेत् क्षिप्त्वा सीसककूपिके रसवरं सूचीमुखं नामतः ॥९२॥ब्रह्मद्वारि विकीर्णलोहितलवे गुञ्जैकमात्रं ददेद् दत्त्वा सम्पुटबद्धतन्द्रिकधनुर्वाते सशाखाहिमे ।कासं श्वासमरोचकं प्रलपनं कम्पं च हिक्कातुरं मूकत्वं बधिरत्वम् उन्मदम् अपस्मारं जयेत् तत्क्षणात् ॥९३॥रसगन्धकताम्राभ्रं लाङ्गलीवह्निरामठम् ।वन्ध्यापटोलनिर्गुण्डीसुगन्धानिम्बपल्लवाः ॥९४॥पाठाक्षारत्रयं क्ष्वेडबोलधत्तूरतण्डुलैः ।शृङ्गीमधुकसारं च जम्बीराम्लेन मर्दयेत् ॥९५॥कुर्याद्धि निष्कमानेन वटिका सा नियच्छति ।सस्वेददाहाभिन्यासं संनिपातगजांकुशः ॥९६॥ससारा वैष्णवी सेना अचला कादि कङ्कणा ।रागरुद्रोपमोपेता प्रौढा मस्तकशालिनी ॥९७॥त्रिभागं तालकं विद्याद् एकभागं तु पारदम् ।तदर्धं गन्धकं चैव तदर्धं तु मनःशिला ॥९८॥कारवल्लीदलरसैर् मर्दयेत् तत्प्रहरत्रयम् ।पाचितो वालुकायन्त्रे चातुर्थिकहरो रसः ॥९९॥स्याद् रसेन समायुक्तो गन्धकः सुमनोहरः ।हियावल्लित्रिगुणितो निर्गुण्डीरसमर्दितः ॥१००॥सप्तवाराणि तद् योज्यम् आर्द्रकस्वरसेन तु ।संततादिज्वरं हन्याच्चातुर्थिकगजांकुशः ॥१०१॥ताप्यतालकजेपालवत्सनाभमनःशिलाः ।ताम्रगन्धकसूतं च मुसलीरसमर्दितः ।मृत्युंजय इति ख्यातः कुक्कुटीपुटपाचितः ॥१०२॥वल्लद्वयं प्रयुञ्जीत यथेष्टं दधिभोजनम् ।नवज्वरं संनिपातं हन्यादेष महारसः ॥१०३॥शुद्धं सूतं विषं गन्धं मरिचं टङ्कणं कणाम् ।मर्दयेद् धूर्तजद्रावैर् दिनम् एकं तु शोषयेत् ॥१०४॥पञ्चवक्त्रो रसो नाम द्विगुञ्जः संनिपातजित् ।अर्कमूलकषायं च सत्र्यूषम् अनुपाययेत् ।दध्योदनं हितं तत्र जलयोगं च कारयेत् ॥१०५॥रसगन्धकतुल्यांशं धत्तूरफलजद्रवैः ।मर्दयेद् दिनमेकं तु तत्तुल्यं त्रिकटु क्षिपेत् ।उन्मत्ताख्यो रसो नाम्ना नस्ये स्यात्संनिपातजित् ॥१०६॥निस्त्वग्जेपालजं बीजं दशनिष्कं प्रचूर्णयेत् ।मरिचं पिप्पलीं सूतं प्रतिनिष्कं विमिश्रयेत् ॥१०७॥भाव्यं जम्बीरजैर्द्रावैः सप्ताहं तत् प्रयत्नतः ।संनिपातं निहन्त्याशु अञ्जने यः शिवः स्मृतः ॥१०८॥मदनफलं विडलवणं सर्षपाः प्रतिनिष्कद्वयम् ।चूर्णयित्वा त्रिफलाक्वाथेन सटङ्कणं पिबेत् ॥१०९॥कुष्ठे ज्वरे कामलायां कण्ठरोगे ह्य् अजीर्णके ।नस्ये च गिरिकर्ण्युत्थबीजैकं शीतवारिणा ॥११०॥प्रत्येकं रसगन्धयोर् द्विपलयोः कृत्वा मषीं शुद्धयोर् रम्यां म्लेच्छलुलायलोचनमनोधात्रीप्रकुञ्चत्रयम् ।पथ्याया बदरत्रिकं त्रिकटु षट्शाणं वचा धर्मिणी वेल्लाम्भोधरपत्त्रकद्विरदकिञ्जल्काश्वगन्धाह्वयम् ॥१११॥पिष्ट्वैतत् समसारम् अखिलं कर्षोन्मितं न्यस्य तत् प्रोन्मर्द्यार्धकरञ्जकामृतयुतं सागस्तिकत्र्यूषणैः ।भूधात्रीविजयासरित्पतिफलं ज्वालामुखीमार्कवैः प्रत्येकं विदधीत निश्चलमतिः सप्त क्रमाद्भावनाः ॥११२॥पित्तैरथो पञ्च विधाय पञ्चभिः करञ्जपत्त्रामृतधूपनं ततः ।दत्त्वार्द्रकस्य स्वरसेन तण्डुलाकृतिं विदध्याद्गुटिकां भिषग्वरः ॥११३॥देयैका संनिपाते प्रतिहतविषये मोहनेत्रप्रसुप्त्योः स्याद्गुल्मे साजमोदा पवनविकृतिषु त्र्यूषणेन ग्रहण्याम् ।दातव्या जीरकेण द्विपतुरगनृणां प्राणसंरक्षणाय कायाम्भोधिर् एतं रसकसमरसं वैद्यनाथोऽभ्यधत्त ॥११४॥गन्धकाभ्रसमः सूतो वाराहीरसमर्दितः ।पाचितो वालुकायन्त्रे त्रिफलाव्योषचित्रकैः ॥११५॥त्रिक्षारं पञ्चलवणहिङ्गुगुग्गुलुदीप्यकैः ।सजीरकैः सेन्द्रयवैः पृथग्रससमैर्युतः ॥११६॥माषमात्रोऽनुपानेन द्विपलस्योष्णवारिणः ।अभिन्यासानलभ्रंशग्रहणीपाण्डुगुल्मिनाम् ॥११७॥कुर्यात्प्राणपरित्राणमतः प्राणेश्वरः स्मृतः ।व्याधिवृद्धौ प्रयोगोऽस्य द्वौ वारौ वैद्यसंमतः ॥११८॥रसायोव्योषकङ्कुष्ठशिलातालाभ्रहिङ्गुलान् ।कुम्भ्यग्निभृङ्गमारीतण्डुलीयकमाक्षिकान् ॥११९॥हस्तिशुण्डीयुतांस् तुल्यांस् तदर्धशिवगन्धकान् ।त्र्यहम् आर्द्राम्बुना पिष्ट्वा कूपीस्थं वालुकाग्निना ॥१२०॥जयाजम्बीरनिर्गुण्डीचाङ्गेरीवारि निक्षिपेत् ।पक्त्वा चतुर्दशाहानि पिष्ट्वार्द्राक्तं विशोषयेत् ॥१२१॥मृतसंजीवनाख्योऽयं रसो वल्लमितोऽशितः ।द्राग् जयेदौषधं संनिपातादीन् सकलान् गदान् ॥१२२॥रसभागो भवेदेको गन्धको द्विगुणो मतः ।विषतालककङ्कुष्ठशिलाहिङ्गुललोहकम् ॥१२३॥वह्नित्रिकटुभृङ्गाह्वहेममाक्षिकमभ्रकम् ।हस्तिशुण्डी विषं कुम्भी तण्डुलीयकताम्रकौ ॥१२४॥एषां प्रत्येकमेकैकं भागमादाय चूर्णयेत् ।आर्द्रकस्य द्रवेणैव मर्दयेच्च दिनत्रयम् ॥१२५॥जम्बीरस्य रसो ग्राह्यः पलत्रयपरीक्षितः ।त्रिफलायाश्च निर्गुण्ड्याः प्रत्येकं च पलत्रयम् ॥१२६॥रसस्य पलमात्रं तु चाङ्गेर्याः परिकीर्तितम् ।काचकूप्यां विनिक्षिप्य यन्त्रे क्षिप्त्वा प्रयत्नवान् ॥१२७॥उद्धृत्यार्द्रकनिर्यासैर् मर्दयित्वा विशोषयेत् ।मृतसंजीवनो नाम रसोऽयंविदितो भुवि ।गुञ्जाद्वयं ददीतास्य संनिपातापनुत्तये ॥१२८॥वङ्गं नागं च सूतं च नेपालं गन्धकं तथा ।शुल्बं विषं समांशेन रसेनार्द्रेण मर्दयेत् ॥१२९॥पुनर् मर्द्येत निर्गुण्ड्याश् चाङ्गेर्या रसमर्दितः ।वल्लप्रयोगेण रसोऽयं संनिपातनुत् ॥१३०॥गन्धकं च रसं शुद्धं प्रत्येकं कर्षसम्मितम् ।एकत्र कज्जलीं कृत्वा ततः कुर्वीत गोलकम् ॥१३१॥नवभाण्डे विनिक्षिप्य ताम्रपात्रेण गोपयेत् ।दृढं निरुध्य तत् पात्रमग्नावारोपयेत् ततः ॥१३२॥व्रीहिस्फुटनमात्रेण स्वाङ्गशीतं समुद्धरेत् ।नवज्वरे प्रयुञ्जीत रसं पर्पटिकाह्वयम् ॥१३३॥आर्द्रकस्य रसेनैव त्रिवल्लं त्रिदिनं भिषक् ।ज्वरितं छादयेद्गाढं यावत्स्वेदः समुद्भवेत् ॥१३४॥तक्रभक्तं भवेत्पथ्यं ज्वरमुक्तस्य देहिनः ।नवज्वरारिर् इत्येष रसः परमदुर्लभः ।वातज्वरे विशेषेण रसः साधारणो मतः ॥१३५॥टङ्कणं रसगन्धौ च मरिचानि समांशकम् ।सर्वं जम्बीरनीरेण दिनानि त्रीणि मर्दयेत् ॥१३६॥संशोष्य शर्करायुक्तं मत्स्यपित्तेन भावयेत् ।भावितं तद्रसं सिद्धमार्द्रकस्वरसैस्त्र्यहम् ॥१३७॥वल्लं वारत्रयं देयं पानार्थं वारि शीतलम् ।तक्रभक्तं भवेत्पथ्यं वृन्ताकफलसंयुतम् ।सर्वान् नवज्वरान् हन्ति रसोऽयं जलमञ्जरी ॥१३८॥कान्तस्य कण्टवेध्यानां पात्राणां भस्म कारयेत् ।तत्समश्च रसो गन्धष्टङ्कणो निम्बवारिणा ।ततः संपेष्य तत्कल्कं मर्दयेत्त्रिदिनं पुनः ॥१३९॥रसतुल्येन मत्स्यस्य पित्तेन परिभावयेत् ।सिद्धः कान्तरसो ह्य् एष प्रयोज्योऽभिनवज्वरे ।शृङ्गवेरानुपानेन मात्रया भिषगुत्तमैः ॥१४०॥रसगन्धौ तथा वङ्गम् अभ्रकं समभागतः ।मेलयित्वाथ वङ्गेन समं सूतं विमर्दयेत् ॥१४१॥तत्रैकीकृत्य गन्धाभ्रे पेष्यं जम्बीरवारिणा ।सामान्यं पुटम् आदद्यात् सप्तधा साधितं रसम् ॥१४२॥कुमार्या चित्रकेणापि भावयित्वाथ सप्तधा ।गुडेन जीरकेणापि ज्वरे जीर्णे प्रयोजयेत् ॥१४३॥कासे श्वासे कुमार्या च त्रिफलाक्वाथयोगतः ।उन्मादं च धनुर्वातम् अमृताक्वाथयोगतः ।इत्येवं रोगतापघ्नो रसश् चन्द्रोदयाभिधः ॥१४४॥नागं वङ्गं रसं ताम्रं गन्धकं टङ्कणं तथा ।विषं च नेपालं हरितालं समं तथा ॥१४५॥वटक्षीरेण संमर्द्य सर्वं कुर्यात्तु गोलकम् ।तं गोलकं भाण्डमध्ये पाचयेद्दीपवह्निना ॥१४६॥तं गोलं शीतलं कृत्वा भृङ्गराजेन मर्दयेत् ।आर्द्रकस्य रसेनापि मर्दयेच्च पुनः पुनः ॥१४७॥चणप्रमाणवटकान् रसेनार्द्रस्य दापयेत् ।गुञ्जाद्वयप्रमाणेन ज्वरं जीर्णं हरत्यसौ ॥१४८॥हरश्च गन्धकं चैव कुनटी च समं समम् ।मर्द्यं कर्कोटिकायाश्च रसेन विनियोजयेत् ॥१४९॥नवज्वरमुरारिः स्याद्वल्लं शर्करया सह ।तण्डुलीयरसेनानुपानं शर्करयापि वा ।गुञ्जाद्वयप्रमाणेन ज्वरान्हन्ति नवान्हठात् ॥१५०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP