संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय १३ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय १३ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय १३ Translation - भाषांतर कट्वम्लतीक्ष्णलवणोष्णविदाहिरूक्षैः पित्तं प्रदुष्टम् अशनैर् अतिसेवितैस् तैः ।संदूष्य रक्तम् अमुनोभयमार्गवर्ति निर्यात्यसृक्स्थलयकृत्प्लिहतोऽतिमात्रम् ॥१॥पारदं हिङ्गुलुकं च ऊर्ध्वयन्त्रेण मेलयेत् ।कुक्कुटाण्डरसं भागं टङ्कणक्षारम् एव च ॥२॥गन्धकस्य तथा भागं घृतेन परिमर्दयेत् ।सिद्धं रसं समादाय जीरतोयेन दापयेत् ॥३॥दिनानि त्रीणि माषं च ग्रहणीरक्तदोषजित् ।ज्वरदाहविनाशं च रक्तपित्तविनाशनम् ॥४॥प्रत्येकं तोलमानेन सूतकं ताम्रभस्मकम् ।दिनानि त्रीणि गुटिकां कृत्वा चाग्नौ विनिक्षिपेत् ॥५॥ततः शुष्कं समादाय पुनरेव च मर्दयेत् ।समस्तैः समगन्धैश्च कृत्वा कज्जलिकां च तैः ॥६॥मुस्तादाडिमदूर्वाभिः केतकीस्तनवारिभिः ।सहदेव्याः कुमार्याश्च पर्पटस्यापि वारिणा ॥७॥रामशीतलिकातोयैः शतावर्या रसेन च ।भावयित्वा प्रयत्नेन दिवसे दिवसे पृथक् ॥८॥तिक्तं गुडूचिकासत्त्वं पर्पटीशीरमागधीः ।शृङ्गाटं सारिवा चैषां समानं सूक्ष्मचूर्णकम् ॥९॥द्राक्षादिककषायेण सप्तधा परिभावयेत् ।ततः पोताश्रयं क्षिप्त्वा वट्यः कार्याश्चणोपमाः ॥१०॥अयं चन्द्रकलानामा रसेन्द्रः परिकीर्तितः ।सर्वपित्तगदध्वंसी वातपित्तगदापहः ॥११॥अन्तर्बाह्यमहादाहविध्वंसनमहाक्षमः ।ग्रीष्मकाले शरत्काले विशेषेण प्रशस्यते ॥१२॥कुरुते नाग्निमान्द्यं च महातापज्वरं हरेत् ।श्रमं मूर्छां हरत्याशु स्त्रीणां रक्तमहास्रवम् ॥१३॥ऊर्ध्वाधो रक्तपित्तं च रक्तवान्तिं विशेषतः ।मूत्रकृच्छ्राणि सर्वाणि नाशयेन्नात्र संशयः ॥१४॥पटोलमायसं चूर्णं सूतेन्द्रं समचारितम् ।लोहारिवर्गसंघृष्टं रक्तपित्तहरं परम् ॥१५॥वृषादलानां स्वरसस्य कर्षं रसेन्द्रगुञ्जामधुशर्करायुतम् ।लिहन्प्रभाते मनुजो निहन्याद् दुःखाकरं दारुणरक्तपित्तम् ॥१६॥सपटोलकहिङ्गूलः सक्षौद्रो रक्तपित्तनुत् ॥१७॥नवनीतं सिता लाजा द्राक्षया सह भक्षयेत् ॥१८॥मस्तके च घृतं दद्याद्रक्तपित्तहरं परम् ॥१९॥द्राक्षावासायुतं क्वाथं शर्कराभावितं पिबेत् ॥२०॥वासारसं सिताक्षौद्रैर्लाजान्वा शर्करासमान् ।भक्षयन् रक्तपित्तार्तस् तृष्णादाहज्वरं जयेत् ॥२१॥धात्रीचूर्णं सितायुक्तं भक्षयेद्रक्तपित्तनुत् ॥२२॥दोषाः शोषमनोऽभितापकुपिताः कुर्वन्ति कासं ततः पीतं पूतिकफं प्रतीपनयनः पूयोपमं ष्ठीवति ।शीतोष्णेच्छुर् अकारणेन बहुभुक् स्निग्धप्रसन्नाननः पार्श्वार्त्यल्पबलक्षयाकृतिर् अपि प्रादुर्भवत्यन्यथा ॥२३॥सार्कतीक्ष्णाभ्रकोऽगस्त्यकासमर्दवरारसैः ।मर्दितो वेतसाम्लेन पिण्डितः कासनाशनः ॥२४॥तारे पिष्टशिलां क्षिप्त्वा हरितालाच्चतुर्गुणाम् ।वासागोक्षुरसाराभ्यां मर्दयेत् प्रहरद्वयम् ॥२५॥प्रस्विन्नो वालुकायन्त्रे गुञ्जाद्वितयसंमितः ।कासं त्रिकटुनिर्गुण्डीमूलचूर्णयुतो हरेत् ॥२६॥भूनागाभ्रकयोः सत्त्वं कान्तहेमाभ्ररूप्यकम् ।मुक्ताफलानि रत्नानि ताप्यं वैक्रान्तमेव च ॥२७॥भस्मीकृतमिदं सर्वं पृथङ् माषमितं मतम् ।निष्कमात्रमितं शुद्धं राजावर्तरजस्तथा ॥२८॥एतत्सर्वं समं योज्यं मर्दयित्वाम्लवेतसैः ।रुद्ध्वा मूषोदरे कोष्ठ्यां धमेदाकाशदर्शनम् ॥२९॥शतवारं धमेदेवं मर्दयित्वाम्लवेतसैः ।ततः संचूर्णिते चास्मिन्मुक्ताभस्म द्विशाणकम् ॥३०॥मरिचं पञ्च शाणेयं क्षिप्त्वा संमर्द्य यत्नतः ।रम्ये करण्डके क्षिप्त्वा स्थापयेत् तदनन्तरम् ॥३१॥सोऽयं रत्नकरण्डको रसवरो मध्वाज्यसंक्रामणो हन्याच्छ्वासगदं ज्वरं ग्रहणिकां कासं च हिध्मामयम् ।शूलं शोषमहोदरं बहुविधं कुष्ठं च हन्याद् गदान् बल्यो वृष्यकरः प्रदीपनतमः स्वस्थोचितो वेगवान् ॥३२॥शुद्धसूतस्य भागैकं भागैकं शुद्धगन्धकम् ।भागत्रयं मृतं ताम्रं मरिचं पञ्चभागिकम् ॥३३॥मृताभ्रस्य चतुर्भागं भागमेकं विषं क्षिपेत् ।भूताङ्कुशस्य भागैकं सर्वं चाम्लेन मर्दयेत् ॥३४॥यामं भूताङ्कुशो नाम माषैकं वातकासजित् ।अनुपानं लिहेत्क्षौद्रैर्विभीतकफलत्वचः ।पित्तकासारुचिश्वासक्षयकासांश्च नाशयेत् ॥३५॥रसभस्म विषं तुल्यं गन्धकं द्विगुणं मतम् ।बोलतालकवाह्लीककर्कोटीमाक्षिकं निशा ॥३६॥कण्टकारी यवक्षारलाङ्गलीक्षारसैन्धवम् ।मधूकसारं संचूर्ण्य सप्ताहं चार्द्रकद्रवैः ॥३७॥गुटिकां बदराकारां श्लेष्मकासापनुत्तये ।भक्षयेद् बोलबद्धोऽयं रसः सश्वासपाण्डुजित् ॥३८॥रसगन्धकपिप्पल्यो हरीतक्यक्षवासकम् ।षडुत्तरगुणं चूर्णं बब्बुलक्वाथभावितम् ॥३९॥एकविंशतिवाराणि शोषयित्वा विचूर्णयेत् ।भक्षयेन्मधुना हन्ति कासम् अग्निरसो ह्य् अयम् ॥४०॥त्रिकटु त्रिफला चैला जातीफललवंगकम् ।एतेषां समभागानां समः पूर्वरसो भवेत् ॥४१॥सम्पूर्यालोडयेत् क्षौद्रे भक्ष्यो निष्कद्वयं द्वयम् ।स्वयम् अग्निरसो नाम्ना क्षयकासनिकृन्तनः ॥४२॥भृङ्गराजस्य पत्त्राणि मधुना चूर्णितानि हि ।गोलकं धारयेद्वक्त्रे कासविष्टम्भशान्तये ॥४३॥अर्कैरण्डस्य पत्त्राणां रसं पीत्वा च कासजित् ॥४४॥दन्तीमूलस्य धूमं वा निर्गुण्ड्या वा पिबेज्जयेत् ॥४५॥इन्द्रवारुणिकामूलं भृङ्गीकृष्णातिलैः सह ।भक्षयेत् क्षयकासार्तो निष्कमात्रं प्रशान्तये ॥४६॥श्लेष्मोपरुद्धमनः पवनोऽतिदुष्टः संदूषयन्ननु जलान्नवहाश् च नाडीः ।आमाशयोद्भवम् इमं विदधात्य् उरस्थः श्वासं च वक्रगमनो हि शरीरभाजाम् ॥४७॥इन्द्रवारुणिकामूलं देवदारु कटुत्रयम् ।शर्करासहितं खादेद् ऊर्ध्वश्वासप्रशान्तये ॥४८॥सूतार्धं गन्धकं मर्द्यं यामैकं कन्यकाद्रवैः ।द्वयोः समं ताम्रपत्त्रं पूर्वकल्केन मेलयेत् ॥४९॥दिनैकं हण्डिकायन्त्रे पक्वमादाय चूर्णयेत् ।सूर्यावर्तरसो ह्य् एष द्विगुञ्जः श्वासजित् भवेत् ॥५०॥सूतः षोडश तत्समो दिनकरस्तस्यार्धभागो बलिः सिन्धुस्तस्य समः सुसूक्ष्ममृदितः षट् पिप्पली चूर्णितः ।जम्बीरस्वरसेन मर्दितम् इदं तप्तं सुपक्वं भवेत् कासश्वाससगुल्मशूलजठरं पाण्डुं लिहन्नाशयेत् ॥५१॥साधारणं तु वटकं वक्ष्यामि शृणु तत्त्वतः ।पारदं गन्धकं चैव पलमेकं पृथक् पृथक् ॥५२॥पलत्रयं त्रिकटुकं वङ्गम् एकपलं क्षिपेत् ।सर्वम् एकत्र संयोज्य दिनानि त्रीणि मर्दयेत् ॥५३॥गोमूत्रेण तथा त्रीणि दिनानि परिमर्दयेत् ।अक्षप्रमाणवटकं छायाशुष्कं तु कारयेत् ॥५४॥नित्यमेकं तु वटकं दिनानि त्रिंशदेव च ।श्वासकासज्वरहरम् अग्निमान्द्यारुचिप्रणुत् ॥५५॥रसभागो भवेदेको गन्धको द्विगुणो मतः ।त्रिभागा पिप्पली ग्राह्या चतुर्भागा हरीतकी ॥५६॥विभीतः पञ्चभागस्तु वासा षड्गुणिता भवेत् ।भार्ङ्गीसप्तगुणा ग्राह्या सर्वं चूर्णं प्रकल्पयेत् ॥५७॥बब्बुलक्वाथम् आदाय भावयेद् एकविंशतिः ।विभीतकप्रमाणेन मधुना गुटिकां चरेत् ॥५८॥एकैकां भक्षयेत्प्रातर्वटी सप्तामृताभिधा ।श्वासकासादिकं व्याधिं तत्क्षणान्नाशयेद् इयम् ॥५९॥सूतं शुल्बं सुलोहं बलिम् अमृतयुतं त्रित्रिकं रेणुकाब्दं गण्डीरं केसराग्निं द्विगुणगुडयुतं मर्दयित्वा समस्तम् ।कुर्यात् कोलास्थिमात्रान् सुरुचिरवटकान् भक्षयेत् प्राग्दिनादौ पथ्यासीसर्वरोगान् हरति च नितरां नीलकण्ठाभिधानः ॥६०॥तारताम्ररसपिष्टिका शिला गन्धतालसमभागिकं रसैः ।आटरूषसुरसार्द्रसम्भवैर् मर्दय प्रकुरु गोलकं ततः ॥६१॥मृत्स्नया च परिवेष्ट्य गोलकं यामयुग्मम् अथ भूधरे पचेत् ।गन्धकेन कुरु तत्समं ततश् चाटरूषकटुकैर् विभावयेत् ॥६२॥श्वासकासकरिकेसरीरसो वल्लयस्य परिसेवयेद् बुधः ॥६३॥रसगन्धकताम्राभ्रं कणाशुण्ठ्यूषणं समम् ।भूतम् एकं विषं चैकं सूर्यः कासादिनाशनः ॥६४॥गन्धकं मरिचं साज्यं पिबेच्छ्वासकफापहम् ।शिला हिङ्गु विडङ्गं च मरिचं कुष्ठसैन्धवम् ।मध्वाज्याभ्यां लिहेत् कर्षं श्वासकाशकफापहम् ॥६५॥विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः ।शीतपानाशनस्थानरजोधूमातपानिलैः ।व्यायामकर्मभाराध्ववेगाघातापतर्पणैः ।हिक्का श्वासश्च कासश्च नृणां समुपजायते ।रसगन्धकधान्याभ्रतालताप्योपलं क्रमात् ।भागवृद्धं वचाकुष्ठहरिद्राक्षारचित्रकैः ॥६६॥सपाठा लाङ्गली व्योषसैन्धवाक्षविषैः समम् ।भावितं भृङ्गनीरेण हिक्कावैस्वर्यकासनुत् ॥६७॥पक्वताम्रे रसः पिष्टो बलिना हिध्मिनां हितः ॥६८॥चूर्णं पाठेन्द्रवारुण्योर्भाण्डे दत्त्वाथ कुनटीम् ।तत्पृष्ठे शुद्धसूतं च कुनट्यंशं प्रदापयेत् ॥६९॥सूतार्धं कुनटीचूर्णं तस्यार्धं पूर्वमूलिका ।चूर्णं दत्त्वा पचेच्चुल्ल्या यामाष्ट मृदुवह्निना ।शिलापूतो रसो नाम हन्ति हिक्कां त्रिगुञ्जकः ॥७०॥मृतसूतं मृतं ताम्रं हिङ्गु पुष्करमूलकम् ।सैन्धवं गन्धकं तालं कटुकं चूर्णयेत् समान् ॥७१॥देवदालीपुनर्नवयोर् निर्गुण्डीमेघनादयोः ।तिक्तकोषातकीद्रावैर् दिनैकं मर्दयेद् दृढम् ॥७२॥माषमात्रं लिहेत् क्षौद्रैः रसं मन्थानभैरवम् ।कफरोगप्रशान्त्यर्थं निम्बक्वाथं पिबेदनु ॥७३॥विश्वादित्रिकनिर्गतद्रवनिशा कीरप्रियोत्थं दलं नीलग्रीवगलालयं सुरपतेस् तार्तीयनेत्राभिधम् ।विद्वत्पुञ्जवती कृमिप्रतिभटं निर्गुण्डिकावारिणा तुल्यांशाश् चणकप्रमाणवटिकाः सश्वासकासघ्निकाः ॥७४॥क्वाथं रास्नाबृहत्यग्निबलादुग्धैश् च पाययेत् ॥७५॥हिक्विनं पाययेद् धूमं पत्त्रैः शिखिनिशोद्भवैः ॥७६॥कर्षैकं गन्धकं शुद्धं घृतैश् चोष्णोदकैः पिबेत् ।कफं हन्त्यथ वा क्षौद्रैः पञ्चवक्त्ररसः खलु ॥७७॥अत्युच्चभाषणविषाध्ययनाभिघातसंदूषणैः प्रकुपिताः पवनादयस् तु ।स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः ॥७८॥पर्पटीरसं द्विगुणगन्धेन मर्दयित्वा सभृङ्गकम् ।लोहपात्रे घृताभ्यक्ते द्रावितं बदराग्निना ॥७९॥ऊर्ध्वाधो गोमयं दत्त्वा कदल्याः कोमले दले ।स्निग्धया लोहदर्व्या च पर्पटाकारतां नयेत् ॥८०॥लोहपात्रे विनिक्षिप्ता लोहपर्पटिका भवेत् ।ताम्रपात्रे विनिक्षिप्ता ताम्रपर्पटिका भवेत् ॥८१॥विषपादं च युञ्जीत तत्साध्येष्वामयेषु च ।सुरसाया जयन्त्याश् च कन्यकाटरूषकयोः ॥८२॥त्रिफलाया मुनेर् भार्ङ्ग्या मुण्ड्यास् त्रिकटुचित्रयोः ।भृङ्गराजस्य वह्नेश्च प्रत्यहं द्रवभावितम् ॥८३॥आर्द्रकस्य रसेनापि सप्तधा भावयेत्पुनः ।अङ्गारैः स्वेदयेद् ईषत् पर्पटरसम् उत्तमम् ॥८४॥गुञ्जाष्टकं ददीतास्य ताम्बूलीपत्त्रसंयुतम् ।पिप्पलीदशकैः क्वाथं निर्गुण्ड्याश् चानुपाययेत् ।स्वरभङ्गे कफे श्वासे प्रयोज्यः सर्वदा रसः ॥८५॥त्रिकण्टकस्य मूलानि शुण्ठीं संक्षुद्य निक्षिपेत् ।अजाक्षीरे सनीरार्धं यावत्क्षीरं विपाचयेत् ॥८६॥तत्क्षीरं पाययेद्रात्रौ सकणं भोजनेऽपि च ।कूष्माण्डं वर्जयेच्चिञ्चां वृन्ताकं कर्कटीम् अपि ॥८७॥आरनालं च तैलं च संसर्गं च विवर्जयेत् ।मासत्रयं च सेवेत कासश्वासनिवृत्तये ॥८८॥सजीरहिङ्गुकव्योषैः शमयेद् ग्रहणीं रसः ।दशमूलाम्भसा वातज्वरं त्रिकटुना कफम् ॥८९॥ज्वरं मधुकसारेण पञ्चकोलेन सर्वजम् ।यक्ष्माणं मधुपिप्पल्या गोमूत्रेण गुदाङ्कुरान् ॥९०॥शूलम् एरण्डतैलेन पाण्डुशोफं सगुग्गुलुः ।कुष्ठानि भृङ्गभल्लातवाकुची पञ्चनिम्बकैः ॥९१॥धत्तूरबीजसंयोगान्मेहोन्मादविनाशिनी ।अपस्मारं निहन्त्याशु व्योषनिम्बुदलैः सह ॥९२॥स्तनंधयशिशूनां तु रसोऽयं नितरां हितः ।पथ्याक्षचूर्णादिवशाद् व्याधींश् चान्यान् सुदुस्तरान् ॥९३॥सजातीफलशीतोदं योजयेत्पर्पटीरसम् ।पित्ताजीर्णे शिरश् चास्य शीततोयेन सेचयेत् ॥९४॥नस्यं निष्ठीवनं धूमं तीक्ष्णं वमनरेचनम् ।अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम् ।चिरकालस्थितं मद्यं योजयेत्कफरोगिणे ॥९५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP