संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय ८ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय ८ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय ८ Translation - भाषांतर कथ्यते सोमदेवेन मुग्धवैद्यप्रबुद्धये ।परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता ॥१॥धन्वन्तरिभागअर्धं सिद्धरसस्य तैलघृतयोर्लेहस्य भागोऽष्टमः संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः ।यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिम् सर्वारोग्यसुखाप्तये निगदितो भागः स धन्वन्तरेः ॥२॥रुद्रभाग (डेf.)भैषज्यक्रीणितद्रव्यभागोऽप्य् एकादशो हि यः ।वणिग्भ्यो गृह्यते वैद्यै रुद्रभागः स उच्यते ॥३॥विश्वासघातक (बद् फ्य्सिचिअन्/अल्छेमिस्त्)प्रगृह्याधिकरुद्रांशं योऽसमीचीनम् औषधम् ।दापयेल्लुब्धधीर् वैद्यः स स्याद् विश्वासघातकः ॥४॥कज्जलीधातुभिर् गन्धकाद्यैश्च निर्द्रवैर् मर्दितो रसः ।सुश्लक्ष्णः कज्जलाभोऽसौ कज्जलीत्यभिधीयते ॥५॥रसपङ्कसद्रवा मर्दिता सैव रसपङ्क इति स्मृता ॥६॥पिष्टी (१)अर्कांशतुल्याद् रसतोऽथ गन्धान् निष्कार्धतुल्यात् त्रुटिशोऽभि खल्ले ।अर्कातपे तीव्रतरे विमर्द्यात् पिष्टी भवेत् सा नवनीतरूपा ॥७॥पिष्टी (२)खल्ले विमर्द्य गन्धेन दुग्धेन सह पारदम् ।पेषणात् पिष्टतां याति सा पिष्टीति मता परैः ॥८॥पातनपिष्टीचतुर्थांशसुवर्णेन रसेन घृष्टिषष्टिका ।भवेत् पातनपिष्टी सा रसस्योत्तमसिद्धिदा ॥९॥कृष्टीरूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ।समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ॥१०॥पिष्टीं क्षिपेत् सुवर्णान्तर् न वर्णो हीयते तया ॥११॥स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ॥१२॥वरलोहकम्ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ।सगन्धलकुचद्रावे निर्गतं वरलोहकम् ॥१३॥हेमरक्तीतेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृतम् ॥१४॥निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।तारस्य रञ्जनी चापि बीजरागविधायिनी ॥१५॥ताररक्तीएवमेव प्रकर्तव्या ताररक्ती मनोहरा ।रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ॥१६॥दलमृतेन वा बद्धरसेन वान्यल्लोहेन वा साधितमन्यलोहम् ।सितं च पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ॥१७॥मासकृतबद्धेन रसेन सह योजितम् ।साधितं वान्यलोहेन सितं पीतं च तद्दलम् ॥१८॥शुल्बनागमाक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ॥१९॥नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।इति संसिद्धमेतद्धि शुल्वनागं प्रकीर्त्यते ॥२०॥साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।निहन्ति मासमात्रेण मेहव्यूहं विशेषतः ॥२१॥पथ्याशनस्य वर्षेण पलितवलिभिः सह ।गृध्रदृष्टिर्लसत्पुष्टिः सर्वारोग्यसमन्वितः ॥२२॥पिञ्जरीलोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ॥२३॥चन्द्रार्कभागाः षोडश तारस्य तथा द्वादश भास्वतः ।एकत्रावर्तितास्तेन चन्द्रार्कमिति कथ्यते ॥२४॥निर्वापणम्साध्यलोहेऽन्यलोहं चेत्प्रक्षिप्तं वङ्कनालतः ।निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ॥२५॥क्षिपेन्निर्वापणं द्रव्यं निर्वाह्ये समभागिकम् ।आवाह्यं वापनीये च भागे दृष्टे च दृष्टवत् ॥२६॥वारितरम्मृतं तरति यत्तोये लोहं वारितरं हि तत् ॥२७॥रेखपूर्णअङ्गुष्ठतर्जनीघृष्टं यत् तद् रेखान्तरे विशेत् ।मृतलोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ॥२८॥अपुनर्भवगुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् ।नायाति प्रकृतिं ध्मानाद् अपुनर्भवम् उच्यते ॥२९॥ऊनम, उत्तमतस्योपरि गुरु द्रव्यं धान्यं चोपनयेद्ध्रुवम् ।हंसवत् तीर्यते वारिण्युत्तमं परिकीर्तितम् ॥३०॥निरुत्थापुनर्भवरौप्येण सह संयुक्तं ध्मातं रौप्येण चेल् लगेत् ।तदा निरुत्थमित्युक्तं लोहं तद् अपुनर्भवम् ॥३१॥बीजनिर्वापणविशेषेण तत्तद्वर्णं भवेद्यदा ।मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते ॥३२॥उत्तरणइदमेव विनिर्दिष्टं वैद्यैरुत्तरणं खलु ।संस्पृष्टलोहयोरेकलोहस्य परिनाशनम् ॥३३॥ताडनप्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम् ॥३४॥धान्याभ्रचूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥३५॥सत्त्वक्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।यस्ततो निर्गतः सारः सत्त्वमित्यभिधीयते ॥३६॥(एक)कोलीसककोष्ठिकाशिखरापूर्णैः कोकिलैर् ध्मानयोगतः ।आकण्ठमनुप्राप्तैर् एककोलीसको मतः ॥३७॥द्रावणे सत्त्वपाते च माधुकाः खादिराः शुभाः ।दुर्द्रावे वंशजास्ते तु स्वेदने बादराः शुभाः ॥३८॥हिङ्गुलाकृष्टविद्याधराख्ययन्त्रस्थाद् आर्द्रकद्रावमर्दितात् ।समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ॥३९॥घोषाकृष्टस्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।मुक्तरङ्गं हि तत्ताम्रं घोषाकृष्टम् उदाहृतम् ॥४०॥वरनागतीक्ष्णनीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ।कृष्णं द्रुतद्रावं वरनागं तदुच्यते ॥४१॥उत्थापनमृतस्य पुनरुद्भूतिः सम्प्रोक्तोत्थापनाख्यया ॥४२॥ढालनद्रुतद्रव्यस्य निक्षेपो द्रवे तड्ढालनं मतम् ॥४३॥चपल औस् Bलेइत्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ।विमर्द्य पुटयेत्तावद्यावत्कर्षावशेषितम् ॥४४॥न तत्पुटसहस्रेण क्षयमायाति सर्वथा ।चपलोऽयं समादिष्टो वार्त्तिकैर् नागसम्भवः ॥४५॥चपल इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः ॥४६॥चपल - रसबन्धतत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ॥४७॥स रसो धातुवादेषु शस्यते न रसायने ।अयं हि खर्वणाख्येन लोकनाथेन कीर्तितः ॥४८॥धौतभूभुजंगशकृत्तोयैः प्रक्षाल्यापहृतं रजः ।कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ॥४९॥द्वंद्वानद्रव्ययोर् मर्दनाध्मानाद् द्वंद्वानं परिकीर्तितम् ॥५०॥भञ्जिनीभागाद् द्रव्याधिकक्षेपम् अनु वर्णसुवर्णके ।द्रवैर्वा वह्निकाग्रासो भञ्जनी वादिभिर् मता ॥५१॥चुल्लकापतङ्गीकल्कतो जाता लोहे तारे च हेमता ।दिनानि कतिचित्स्थित्वा यात्यसौ चुल्लका मता ॥५२॥पतंगीरागरञ्जिताद्धि चिराल्लोहाद्ध्मानाद्वा चिरकालतः ।विनिर्यासः स निर्दिष्टः पतङ्गीरागसंज्ञकः ॥५३॥आवाप, प्रतीवाप, आच्छादनद्रुते द्रव्यान्तरक्षेपो लोहाद्ये क्रियते हि यः ।स आवापः प्रतीवापस् तदेवाच्छादनं मतम् ॥५४॥अभिषेकद्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकम् ।सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ॥५५॥निर्वापतप्तस्याप्सु विनिक्षेपो निर्वापः स्नपनं च तत् ॥५६॥Zएइत्पुन्क्त् fंर् आवाप उस्w.प्रतीवापादिकं कार्यं द्रुते लोहे सुनिर्मले ॥५७॥शुद्धावर्तयदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ।शुद्धावर्तस् तदा ज्ञेयः स कालः सत्त्वनिर्गमे ॥५८॥बीजावर्तद्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ।द्रावस्योन्मुखता सेयं बीजावर्तः स उच्यते ॥५९॥स्वङ्गशीतलवह्निस्थम् एव शीतं यत्तदुक्तं स्वाङ्गशीतलम् ॥६०॥बहिःशीतअग्नेराकृष्य शीतं यत्तद् बहिःशीतमुच्यते ॥६१॥स्वेदनक्षाराम्लैर् औषधैर्वापि दोलायन्त्रे स्थितस्य हि ।पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ॥६२॥मर्दनउदितैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ।पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ॥६३॥मूर्छनमर्दनादिष्टभैषज्यैर् नष्टपिष्टत्वकारकम् ।तन्मूर्छनं हि वङ्गाहिभुजकञ्चुकनाशनम् ॥६४॥उत्थापनस्वेदातपादियोगेन स्वरूपापादनं हि यत् ।तदुत्थापनम् इत्युक्तं मूर्छाव्यापत्तिनाशनम् ॥६५॥नष्टपिष्टिस्वरूपस्य विनाशेन पिष्टत्वाद् बन्धनं हि तत् ।विद्वद्भिर्निर्जितः सूतो नष्टपिष्टिः स उच्यते ॥६६॥पातनउक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वम् अधश् च तिर्यक् ।निर्यातनं पातनसंज्ञम् उक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम् ॥६७॥रोधनजलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ।स्थितिर् आस्थापनी कुम्भे यासौ रोधनमुच्यते ॥६८॥नियमनरोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ।क्रियते पारदे स्वेदः प्रोक्तं नियमनं हि तत् ॥६९॥दीपनधातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः ।ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ॥७०॥ग्रासमानइयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ।इयतीत्युच्यते यासौ ग्रासमानं समीरितम् ॥७१॥जारणाग्रासस्य चारणं गर्भे द्रावणं जारणं तथा ।इति त्रिरूपा निर्दिष्टा जारणा वरवार्त्तिकैः ॥७२॥जारण--ग्रास, ...ग्रासः पिण्डः परिणामस्तिस्रश्चाख्याः परा पुनः ॥७३॥समुखा निर्मुखा चेति जारणा द्विविधा पुनः ॥७४॥निर्मुखजारणानिर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ॥७५॥बीज शुद्धं स्वर्णं च रूप्यं च बीजम् इत्यभिधीयते ॥७६॥समुखजारणाचतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ॥७७॥समुखरस-जारणाएवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् ।इयं हि समुखा प्रोक्ता जारणा मृगचारिणा ॥७८॥राक्षसवक्त्रवत्दिव्यौषधिसमायोगात् स्थितः प्रकटकोष्ठिषु ।भुञ्जीताखिललोहाद्यं योऽसौ राक्षसवक्त्रवान् ॥७९॥चारणारसस्य जठरे ग्रासक्षपणं चारणा मता ॥८०॥गर्भद्रुतिग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिर् उदाहृता ॥८१॥बाह्यद्रुतिबहिरेव द्रुतिं कृत्वा घनसत्त्वादिकं खलु ।जारणाय रसेन्द्रस्य सा बाह्यद्रुतिर् उच्यते ॥८२॥द्रुति (सुब्स्तन्चे)निर्लेपत्वं द्रुतत्वं च तेजस्त्वं लघुता तथा ।असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ॥८३॥द्रुतिऔषधाध्मानयोगेन लोहधात्वादिकं तथा ।संतिष्ठते द्रवाकारं सा द्रुतिः परिकीर्तिता ॥८४॥जारणा (संस्कार)द्रुतग्रासपरीणामो विडयन्त्रादियोगतः ।जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ॥८५॥विडक्षारैरम्लैश्च गन्धाद्यैर् मूत्रैश्च पटुभिस् तथा ।रसग्रासस्य जीर्णार्थं तद्विडं परिकीर्तितम् ॥८६॥रञ्जनसुसिद्धबीजधात्वादिजारणेन रसस्य हि ।पीतादिरागजननं रञ्जनं परिकीर्तितम् ॥८७॥सारणासूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ।वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ॥८८॥वेधव्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ।वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ॥८९॥वेधभेदाःलेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः ॥९०॥लेपवेधलेपनं कुरुते लोहं स्वर्णं वा रजतं तथा ।लेपवेधः स विज्ञेयः पुटमत्र च सौरकम् ॥९१॥क्षेपवेधप्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञितः ॥९२॥कुन्तवेधसंदंशधृतसूतेन द्रुतद्रव्याहृतिश्च या ।सुवर्णत्वादिकरणं कुन्तवेधः स उच्यते ॥९३॥धूमवेधवह्नौ धूमायमानेऽन्तः प्रक्षिप्तरसधूमतः ।स्वर्णाद्यापादनं लोहे धूमवेधः स उच्यते ॥९४॥शब्दवेधमुखस्थितरसेनाल्पलोहस्य धमनात् खलु ।स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः ॥९५॥उद्घाटनसिद्धद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ।प्रकाशनं च वर्णस्य तदुद्घाटनम् ईरितम् ॥९६॥स्वेदनक्षाराम्लैरौषधैः सार्द्धं भाण्डं रुद्ध्वातियत्नतः ।भूमौ निखन्यते यत्नात्स्वेदनं संप्रकीर्तितम् ॥९७॥संन्यासरसस्यौषधयुक्तस्य भाण्डरुद्धस्य यत्नतः ।मन्दाग्नियुतचुल्ल्यन्तः क्षेपः संन्यास उच्यते ॥९८॥स्वेदनसंन्यासगुणाःद्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ।गुणप्रभावजनकौ शीघ्रव्याप्तिकरौ तथा ॥९९॥रसनिगममहाब्धेः सोमदेवः समन्तात् स्फुटतरपरिभाषानामरत्नानि हृत्वा ।व्यरचयदतियत्नात्तैरिमां कण्ठमालां कलयतु भिषगग्र्यो मण्डनार्थं सभायाम् ॥१००॥भवेत्पठितवारोऽयमध्यायो रसवादिनाम् ।रसकर्माणि कुर्वाणो न स मुह्यति कुत्रचित् ॥१०१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP