बृहद्यात्रा - ध्वजातपत्रादिशकुन

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


ध्वजातपत्रायुधसन्निपातः क्षितौ प्रयाणे यदि मानवानाम् ।

उत्तिष्ठतो वाम्बरम् एति सङ्गं पतेच् च वा तन्नृपतेः क्षयाय ।

दद्रुप्रतिश्यामविचर्चिकाः स्युः कर्णाक्षिरोगा पिटकोद्भवो वा ।

प्रायो बले नेतरि वा नृपे वा जानीत राज्ञो भयकारणं तत् ॥

उत्तानशय्यासनवातसर्गनिष्ठ्यूतदुर्दर्शनकासितानि ।

नेष्टानि शब्दाश् च तथैव यातुर् आगच्छतिष्ठप्रविशस्थिराद्याः ॥

कार्यम् तु मूलशकुने ऽन्यतरजे तदह्नि विद्यात् फलं नियतम् एवम् इमे विचिन्त्याः ।

प्रारम्भयानसमये तु तथा प्रवेशे ग्राह्यं क्षुतम् न शुभदं क्वचिद् अप्य् उशन्ति ॥

क्रोशाद् ऊर्ध्वं शकुनविरुतं निष्फलं प्राहुर् एके

तत्रानिष्टे प्रथमशुकुने मानयेत् पंच षड् वा ।

प्राणायामान् नृपतिर् अशुभे षोडशैवं द्वितीये

प्रत्यागच्छेत् स्वभवनम् अतो यद्य् अनिष्टस् तृतीयः ॥

चक्रे वराहमिहिरः शकुनोपदेशम् उद्देशतो मुनिमतान्य् अवलोक्य सम्यक् ।

यद् ग्रन्थविस्तरभयाद् अविजानतो वा नोक्तं तद् अन्यकथिताद् अपि चिन्तनीयम् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP