बृहद्यात्रा - लग्नबल

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


द्विपदवशगाः सर्वे सिंहं विहाय चतुष्पदाः सलिलनिलयाभर्क्षावश्याः सरीसृपजातयः ।

मृगपतिवशे तिष्ठन्त्य् एते विहाय सरीसृपान् न कथितगृहेषूह्यं वश्यं जनव्यवहारतः ॥

स्थलजलजसरीसृपाः स्वकानां बलम् अभिवीक्ष्य विधेयतां भजन्ते ।

विषमगृहवशे समा द्युसंस्था निशि विषमा वशवर्तिनः समानाम् ॥

शीर्षोदये समभिवांछितकार्यसिद्धिः पृष्ठोदये विफलतां बलविद्रवश् च ।

यातव्यदिङ्मुखगतस्य सुखेन सिद्धिर् व्यर्थश्रमो भवति दिक्प्रतिलोमलगेन् ॥

शस्तं दिवा दिनबले निशि नक्तवीर्ये राशौ विपर्ययबले गमनं न शस्तम् ।

इन्द्वर्कलग्नसहितेषु गमश्चराद्येष्व् अन्यस्वकोभयमहीप्रतिवृद्धिदाता ॥

मीनोदये प्रवसतः कुटिलः सदोषो मार्गे भवत्य् अकृतकार्यनिवर्तनम् च ।

अन्यांशकेष्व् अपि झषे फलम् एतद् एव मीनांशकेषु च परर्क्षसमाश्रितेषु ॥

रिपुनिधने रिपुनिधनं रिपुषष्ठे लग्नगे वधो यातुः ।

सत्यानुशासनम् इदं वासिष्ठे नायम् एकान्तः ॥

शत्रोः प्रसूतिसमये यदि निधनं संयुतं ग्रहैः पापैः ।

सौम्ययुतं वा षष्ठं सदसत्फलता ततस् ताभ्याम् ॥

क्लेशाद् विना फलम् अरिक्षयम् अर्थसिद्धिं प्राप्नोति लग्नसहिते प्रवसन् स्वलग्ने ।

अर्थक्षयं श्रममनर्थमतो द्वितीये कल्याणसौख्यविभवागमम् आहुर् एके ॥

भृत्यार्थवाहनसहायजयास् तृतीये बन्धार्थनाशभयसैन्यवधाश् चतुर्थे ।

मन्त्रोपजापविपदात्मजभे ऽरिवृद्धिः षष्ठे ऽरिवित्तबलदीप्तिजयागमाश् च ॥

द्यूने ऽध्ववाहनविपत्क्षुदतिश्रमार्तिर् बन्धो वधः परिभवो निधने रुजश् च ।

धर्मे ऽर्थनाशगदकार्यविपद्भयानि कार्यं विना बलभयं दशमे क्षयश् च ॥

केचिद् वदन्त्य् उपचयोपगृहीतम् एतत् तस्माच् छुभं दशमभे गमनं विलगेन् ।

अर्थाप्तिदीप्तिशुभसिद्धिजयाश् च लाभे रिप्फे छलं व्यअय्भये विजिते ऽपि भेदः ॥

रोगाज् जन्मगृहोदये सुतवधो ऽसिद्धिश् च तत्पञ्चमे

द्यूने क्लेशम् अवाप्य जन्मभवनात् प्राप्नोति पश्चात् सुखम् ।

मार्गाद् एव निवर्तनं नवमभे मेषूरणे ऽर्थागमः

शेषर्क्षेषु यथैव लग्नभवनात् तद्वत् फलं जन्मतः ॥

क्षुत्तृष्णार्तिमार्गनाशो ऽक्षिरोगः क्लेशावाप्तिस् तिग्मगोः प्राग्विलग्ने ।

शस्ता चान्द्रे देवतार्थं स्वदेशे कौजे पित्तव्यालशस्त्राग्निपीडा ॥

बौधे तुष्टिर् वांछिताप्तिर् यशश् च जैवे ऽथाप्तिः स्थानमानारिनाशाः ।

स्त्रीरत्नाप्तिः कार्यसिद्धिश् च शौक्रे मान्दे बन्धव्याधिनीचावमानाः ॥

सौम्यो ऽपि जन्मनि न यः शुभपुष्टिदाता स्थानं न तस्य शुभदं व्रजतो विलगेन् ।

पापो ऽपि यः शुभफलं प्रकरोति पुंसां स्थानं विलग्नगतम् इष्टम् उशन्ति तस्य ॥

अविधेयं भवनं यत् स्वजन्मलग्नर्क्षयोः प्रयातृणाम् ।

अप्य् अनुकूलं लग्नं धनक्षयायासदं भवति ॥

सखिवश्यताम् उपेते स्वजन्मलग्नर्क्षयोर् विलग्नर्क्षे ।

अपचयकरे ऽपि यातुर् जयधनमानागमाः क्षिप्रम् ॥

केचिद् वदन्ति यस्मिन् ग्रहो निरंशं करोति तल्लग्नम् ।

भवनं यातुर् अनिष्टं भयशोकोद्वेगदं यस्माद् ॥

वृषवृश्चिककर्कटैर् नृणाम् अनुकूलैर् अपि लग्नम् आश्रितैः ।

गमनं प्रवद्नय् अशोभनं मुनयो ऽन्यर्क्षसमाश्रितैर् अपि ॥

वेशिर्विलग्नोपगतो यियासोर् विनापि यत्नात् कुरुते फलाप्तिम् ।

गौयानम् इष्टं जलराशिलग्ने तद् अंशके चान्यगृहोदये ऽपि ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP