बृहद्यात्रा - ग्रहयज्ञ

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


ग्रहयज्ञम् अतो वक्ष्ये तत्र निमित्तानि लक्षयेद् वेद्याम् । [चितेद् इन् ब्स् .]

भङ्गो मानोनायां दिग्भ्रष्टायाम् असिद्धिश् च ॥

नगरपुरोहितदेवीसेनापतिपार्थिवक्षयं कुरुते । [चितेद् इन् ब्स् .]

प्राग्दक्षिणापरोत्तरमध्यमभागेषु या विकला ॥

तत्रार्चा ताम्रमयी सवितुः पालाशिका सुस्रुक्समिधः ।

आ कृष्णेति च मन्त्रो रक्ता गन्धाः सहागुरणाः ॥

माषातसीतिलांश् चार्कसमुद्गचणकान् विहाय भोज्यविधिः ।

वकुलार्कागस्त्यपलाशशल्लकीकुसुमपूजा च ॥

अष्टशतसंमितेभ्यो विप्रेभ्यो दक्षिणाहिताग्निभ्यः ।

देया वृषकनकमही सहस्रकिरणं (स )मुद्दिश्य ॥ (सूर्यः )

न्यग्रोधात् स्रुक्समिधः स्फटिकाद् अर्चा च शितगोः कार्या ।

शैलेयकनखवर्ज्या गन्धाः कुसुमानि च सितानि ॥

गोधूमशालियावरवण्डगोपयः पूर्वम् अशनम् अथ मन्त्रः ।

आप्यायस्वेति भवेच् चातुर्वेदाय दद्याच् च ॥

मणिमुक्ताक्षौमहिरण्यसंयुतां श्वेततुल्यवत्साङ्गाम् ।

रजतशफविषाणां क्षीरिणीं च तु हिमांशुम् उद्दिश्य ॥ (चन्द्रः )

रक्तकरवीरसमिधो रक्ता गन्धाश् च चन्दनात् प्रतिमा ।

मन्त्रश् चाग्निर् मूर्धेत्य् अशनं गुडषष्टिकप्रायम् ॥

ताम्रकनकप्रवालौर्णिकानि देयानि दक्षिणा चास्य ।

उद्दिश्य धरातनयं छन्दोगेभ्यो व्रतस्थेभ्यः ॥मं (गलः )

मन्त्रश् चोद्बूध्यस्वेत्यादि प्रतिमा च युक्तिलोहमयी ।

स्रुक्समिधश् च मधूकाद् अथ वा चान्द्रेर् अपामार्गात् ॥

युक्तिप्राया गन्धाः कालीयककुङ्कुमप्रियंग्वाद्याः ।

कुसुमानि मालतीवकुलतिलकमदयन्तिकादीनि ॥

भोज्यं मसुरतिलशालिमुद्गचणकादि दक्षिणा स्वच्छश् च ।

सरजतमणिर् व्रतिभ्यश् चान्द्रेर् आथर्वणेभ्यश् च ॥बु (धः )

अश्वत्थ्यर्जुनसमिधः कनकार्चा त्व् अग्निवर्जिता गन्धाः ।

पीतकुसुमानि च गुरोर् भोज्यं तिलमुद्गचणकानि ॥

बह्वृग्भ्य एकवर्णं मध्यमवयसं तुरङ्गमं दद्यात् ।

शृङ्गीसुवर्णयुक्तं बृहस्पतेश् चेति गुरोर् मन्त्रः ॥बृ (हस्पतिः )

रजतार्चा मदनीया गन्धाः कुसुमानि चित्रसुरभीणि ।

पनसोदुम्बरसमिधो भोज्यं वृष्यं च भृगुसूनोः ॥

अन्नात् परिस्रुताद्यो मन्त्रः स्त्रीकर्कशास् त्व् अलङ्काराः ।

अध्वर्युभ्यो देया द्वात्रिंशद्भ्यः तदर्हेभ्यः ॥शु (क्रः )

शालशमीस्रुक्समिधः शन्नो देवीति भास्करेर् मन्त्रः ।

लोहार्चा शैलेयकमुस्तकशुक्त्युत्कटा गन्धाः ॥

गिरिकर्णिकातसीस्पन्दनांजनादीनि कृष्णपुष्पाणि ।

अशनानि कृष्णतिलमाषचणकनिष्पावमुख्यानि ॥

प्रेष्याम् अतीतवयसां त्रप्वंजनसीसकृष्णलोहयुताम् ।

दद्याद् उद्दिश्यार्किं वृषलीपतिवृद्धमूर्खेभ्यः ॥श (निः )

वैभीतस्रुक्समिधो राहोर् होमे ऽथवा भवेद् दूर्वा ।

मन्त्रश् च कया नश्चित्रपूर्वको ऽर्चा च नागमयी ॥

उद्दिश्य सैंहिकेयं महिषं प्रतिपादयेत् सुवृद्धेभ्यः ।

विप्रेभ्य इति यद् अन्यत् तत् सर्वं सूर्यपुत्रसमम् ॥ (राहुः )

केतोः कांस्यप्रतिमा केतुं कृण्वन्न् न केतवे मन्त्रः ।

आरण्यकुसुमपूजा स्रुक्समिधः खदिरकुशमय्यः ॥

मांसौदनम् अननं ब्रह्मबन्धुवर्गस्य दक्षिणा देया ।

प्रहरणफल्गुद्रव्याणि चैवं केतुं समुद्दिश्य ॥ (केतुः )

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP