बृहद्यात्रा - चन्द्रबल

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


सत्य आह गतिकर्मकल्पहा जन्मगस् तु हिमगुर्यियासतः ।

तत्र देहनवते ऽवजायते तेन कर्मसु न साधकः स्मृतः ॥

तच् च तस्य बहुभिर् विशोधितं लग्नम् एव सुतरां यतस् तनुः ।

तुल्यदेहनवतां प्रपद्य किं सोदयोदयम् उवाच शोभनम् ॥

अष्टवर्गपरिशोधितः शशी श्रेष्ठतां समनुवर्तते यदा ।

जन्मगो ऽपि हि तदा प्रशस्यते यो ऽष्टवर्गशुभदः स शोभनः ॥

सप्तमायदशषट्त्रिजन्मगो नेष्टदो द्विनिधनोपगैर् ग्रहैः ।

बन्धुरिःफनवपञ्चमस्थितैश् चेष्टदो यदि विलोमवेश्मगः ॥

यस्य गोचरफलप्रमाणता तस्य वेधफलम् इष्यते न वा ।

प्रायशो न बहुसंमतं त्व् इदं स्थूलमार्गफलदो हि गोचरः ॥

यस्योत्सृजत्य् उडुपतिः पुरुषो ऽपसव्यं जन्मर्क्षम् आपदम् उपैति स भूमिपालः ।

यायी तथेतरगृहोपगते सितादौ यायीतरेश् वरजयो बहुले क्षयश् च ॥

होराराशाव् उपचयगृहे जन्मभे वा यियासोर् हानिर् हानाव् उडुगणपतौ वृद्धिर् आपूर्यमाणे ।

पक्षस्य् आदाव् अपचयगृहे हानिर् आपूर्यमाणे वृद्धिस् तूक्ता ह्रसति हिमगौ कृष्णपक्षादिसंस्थे ॥

उपचयगृहयुक्तः सव्यगः शुक्लपक्षे शुभम् अभिलषमाणः सौम्यमध्यस्थितो वा ।

सखिवशिगृहयुक्तः कारकर्क्षे ऽपि चेन्दुर् जयसुखफलदाता तत्प्रहर्तान्य् अथातः ॥

प्रक्षीणे ऽप्य अनुपचयस्थिते ऽपे यायाद् विश्रब्धं यदि सखिवश्यकारकर्क्षे ।

नैवं चेद् उदयगृहात् स्वजन्मभाद् वा सम्पूर्णे ऽप्य् उपचयगे ऽपि न प्रयायात् ॥

भृगुसुतबुधभिन्ने रुक् सुरेड्येन मृत्युर् भयम् असितकुजाभ्यां केतुना स्त्रीप्रणाशः ।

अपटुकिरणकान्तौ गच्छतः शत्रुवृद्धिः सविकृतपरिवेषे नेत्रनाशः शशाङ्के ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP