संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| गुरूमहिमा अवमहिमा च २ प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - गुरूमहिमा अवमहिमा च २ आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल गुरूमहिमा अवमहिमा च २ Translation - भाषांतर सौदामिनीतेजसो वा सहस्त्रवर्षकं यदा ।प्रपश्यति महाज्ञानी एकचन्द्रं सह्स्त्रकम् ॥२११॥कोटिवर्षशतेनापि यत्फलं लभते नरः ।एकक्षणमङ्घ्ररजो ध्यात्वा तत्फलमश्नुते ॥२१२॥विचेद्यादि सर्वत्र केवलानन्दवर्धनम् ।कामरुपं महापीठं त्रिकोणाधारतैजसम् ॥२१३॥जलबुद्बुद्शब्दान्तमनन्तमङुलात्मकम ।स भवेन्मम दासेन्द्रो गणेशगुहवत्प्रियः ॥२१४॥कंकालाख्या - साट्टहासा - विकटाक्षोपपीठकम् ।विचरेत् साधकश्रेष्ठो मत्पादाब्जं यदीच्छति ॥२१५॥ज्वालामुखीमहापीठं मम प्रियमतर्कवित् ।यो भ्रमेन्मम तुष्टयर्थं स योगी भवति धुवम् ॥२१६॥भावद्वयादिनिकरं ज्वालामुख्यादिपीठकम् ।भ्रमन्ति ये साधकेन्द्रास्ते सिद्धा नात्र संशयः ॥२१७॥भावात् परतरं नास्ति त्रैलोक्यसिद्धिमिच्छाताम् ।भावो हि परमं ज्ञानं ब्रह्मज्ञानमनुत्तमम् ॥२१८॥कोटिकन्याप्रदानेन वाराणस्यां शताटनैः ।किं कुरुक्षेत्रगमने यदि भावो न लभ्यते ॥२१९॥गयायां श्राद्धदानेन नानापीठाटनेन किम् ।नानाहोमैः क्रियाभिः किं यदि भावो न लभ्यते ॥२२०॥भावेन ज्ञानमुत्पन्नं ज्ञानान्मोक्षमवाप्नुयात् ।आत्मनो मनसा देव्यागुरोरीश्वरमुच्यते ॥२२१॥ध्यानं संयोजन प्रोक्तं मोक्षमात्ममनोलयम् ।गुरोः प्रसादमात्रेण शक्तितोषो महान् भवेत् ॥२२२॥शक्तिसन्तोषमात्रेण मोक्षमाप्नोति साधकः ।गुरुमूलं जगत्सर्वं गुरुमूलं परन्तपः ॥२२३॥गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी ।न लङ्घयेद् गुरोराज्ञामुत्तरं न वदेत् तथा ॥२२४॥दिवारात्रौ गुरोराज्ञां दासवत् परिपालयेत् ।उक्तानुक्तेषु कार्येषु नोपेक्षां कारयेद् बुधः ॥२२५॥गच्छतः प्रयतो गच्छेद् गुरोराज्ञां न लङ्वयेत् ।न श्रृणोति गुरोर्वाक्यं श्रृणुयाद् वा पराङ्मुखः ॥२२६॥अहितं वा हितं वापि रौरवं नरकं व्रजेत् ।आज्ञाभङु गुरोर्दैवाद् यः करोति विबुद्धिमान् ॥२२७॥प्रयाति नरकं घोरं शूकरत्वमवाप्नुयात् ।आज्ञाभङुं तथा निन्दां गुरोरप्रियवर्तनम् ॥२२८॥गुरुरोहञ्च यः कुर्यात तत्संसर्गं न कारयेत् ।गुरुद्रव्याभिलाषी च गुरुस्तीगमनानि च ॥२२९॥पातकञ्च भवेत् तस्य प्रायश्चित्तं न कारयेत् ।गुरुं दुष्कृत्य रिपुवन्निर्हरेत् परिवादतः ॥२३०॥अरण्ये निर्जन देशे स भवेद् ब्रह्मराक्षसः ।पादुकाम आसनं वस्त्रं शयनं भूषणानि च ॥२३१॥दृष्टवा गुरुं नमस्कृत्य आत्मभोगं न कारयेत् ।सदा च पादुकामन्त्रं जिहवाग्रे यस्य वर्तते ॥२३२॥अनायासेन धर्मार्थकाममोक्षं लभेन्नरः ।श्रीगुरोश्चरणाम्भोज ध्यायेच्चैव सदैव तम् ॥२३३॥भक्तये मुक्तये वीरं नान्यभक्तं ततोऽधिकम् ।एकग्रामे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा ॥२३४॥एकदेशे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा ।सप्तयोजविस्तीर्णं मासैकं प्रणमेद् गुरुम् ॥२३५॥श्रीगुरोश्चरणाम्भोज यस्यां दिशि विराजते ।तस्यां दिशि नमस्कुर्यात् कायेन मनसा धिया ॥२३६॥विद्याङुमासनं मन्त्रं मुद्रां तन्त्रादिक प्रभो ।सर्वं गुरुमुखाल्लब्ध्वा सफलं नान्यथा भवेत् ॥२३७॥कम्बले कोमले वापि प्रासादे संस्थिते तथा ।दीर्घकाष्ठेऽथवा पृष्ठे गुरुञ्चैकासनं त्यजेत् ॥२३८॥श्रीगुरोः पादुकामन्त्रं मूलमन्त्रं स्वपादुकाम् ।शिष्याय नैव देवेश प्रवेदद् यस्य कस्यचित् ॥२३९॥यद् यदात्महितं वस्तु तद्द्रव्यं नैव वञ्चयेत् ।गुरोर्लब्ध्वा एकवर्णं तस्य तस्यापि सुव्रत ॥२४०॥भक्ष्यं वित्तानुसोरण गुरुमुदिदश्य यत्कृतम् ।स्वल्पैरपि महत्तुल्यं भुवनाद्यं दरिद्रताम् ॥२४१॥सर्वस्वमपि यो दद्याद् गुरुभक्तिविवर्जितः ।नरकान्तवाप्नोति भक्तिरेव हि कारणम् ॥२४२॥गुरुभक्त्या च शुक्रत्वभक्त्या शूकरो भवेत् ।गुरुभक्तः परं नास्ति भक्तिशास्त्रेषु सर्वतः ॥२४३॥गुरुपूजां विना नाथ कोटिपुण्यं वृथा भवेत् ॥२४४॥॥इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वविद्यानुष्ठाने सिद्धिमन्त्रप्रकरणे भैरवीभैरवसंवादे प्रथमः पटलः ॥१॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP