संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| विविध साधनानि १ प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - विविध साधनानि १ आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विविध साधनानि १ Translation - भाषांतर भैरव उवाच परा श्रीपरमेशनीवदनाम्भोजनिःसृतम् ।श्रीयामलं महातन्त्रं स्वतन्त्रं विष्णुयामलम् ॥१॥शक्तियामलमाख्यातं ब्रह्मणः स्तुतिहेतुना ।ब्रह्मयामलवेदाङु सर्वञ्च कथितं प्रिये ॥२॥सरलासाम्बं सदाशिवं नत्वा गजवक्त्रं सरस्वतीम् ।स्वपितरं मनसा ध्यात्वा मातरं कमलां सतीम् ॥१॥रामान्वितकुबेरस्य आत्मजः श्रीसुधाकरः ।रुद्रयामलग्रन्थस्य भाषाटीकां तनोम्यहम् ॥२॥सिद्धि दिशन्तु मे देव्यो मातरो ललितादयः ।तन्त्रप्रोक्तास्तथा देवा भैरवीभैरवादयः ॥३॥दूरीकुर्वन्तु विघ्नानि मङुलानि दिशन्तु च ।पारयन्तु च तन्त्राब्धि दुर्विगाहं सुदुस्तरम् ॥४॥इदानीमुत्तराकाण्डं वद श्रीरुद्र्यामलम् ।यदि भाग्य्वशाद् देवि! तव श्रीमुखपङ्कजे ॥३॥यानि यानि स्वतन्त्राणि संदत्तानि महीतले ।प्रकाशय महातन्त्रं नान्यन्त्रेषु तृप्तिमान् ॥४॥सर्ववेदान्तवेदेषु कथितव्यं ततः परम् ।तदा ते भक्तवर्गाणां सिद्धिः सञ्चरते ध्रुवम् ॥५॥यदि भक्ते दया भद्रे ! वद त्रिपुरसुन्दरि ।महाभैरववाक्यञ्च पङ्कजायतलोचना ॥६॥श्रुत्वोवाच महाकाली कथयामास भैरवम् ।शम्भो महात्मदर्पघ्न कामहीन कुलाकुल ॥७॥चन्द्रमण्डलशीर्षाक्ष हालाहलनिषेवक ।आद्वितीयाघोरमूर्त्ते रक्तवर्णाशिखोज्ज्वल ॥८॥महाऋषिपते देव सर्वेषाञ्च नमो नमः ।सर्वेषा प्राणमथन श्रृणु आनन्दभैरव ॥९॥आदौ बालाभरवीणाम साधनं षट्कलात्मकम् ।पश्चात्कुमारीललिताशाधनं परमाद्भुतम् ॥१०॥कुरुकुल्लाविप्रचित्तासाधनं शक्तिसाधनम् ।योगिनीखेचरीयक्षकन्यकासाधन ततः ॥११॥उन्मत्तभैरवीविद्या-कालीविद्यादिसाधनम् ।पञ्च्मुद्रासाधनञ्च पञ्चबाणादिसाधनम् ॥१२॥प्रत्यङिरासाधनञ्च कलौ साक्षात्कार परम् ।हरितालिकास्वर्णविद्याधूम्रविद्यादिसाधनम् ॥१३॥आकाशगङा विविधा कन्यकासाधनं ततः ।भ्रूलतासाधन सिद्धसाधनं तदन्तरम् ॥१४॥उल्काविद्यासाधनं च पञ्चतारादिसाधनम् ॥अपराजितापुरुहूताचामुण्डासाधनं ततः ॥१५॥कालिकासाधनं कौलसाधनं घनसाधनम् ।चर्चिकसाधनं पश्चात् घर्घसाधनं ततः ॥१६॥विमलासाधनं रौद्री त्रिपुरासाधनं ततः ।सम्पत्प्रदासप्तकूटसाधनं चेटीसाधनम् ।शक्तिकूटादिषट्कूटानवकूटदिसाधनम् ॥१७॥कनकाभाकाञ्चनाभावहन्याभासाधनं ततः ।वज्रकूटापञ्चकूटासकलासाधनं ततः ॥१८॥तारिणीसाधनं पश्चात् षोडशीसाधनं स्मृतम् ।छिन्नादि-उग्रप्रचण्ड्यादिसाधनं सुमनोहरम् ॥१९॥उल्कामुखीरक्तमुखीसाधनं वीरसाधनम् ।नानाविधाननिर्माणशवसाधनमेव च ॥२०॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP