संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| मनुष्यजन्मस्य दुर्लभत्वम् प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - मनुष्यजन्मस्य दुर्लभत्वम् आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मनुष्यजन्मस्य दुर्लभत्वम् Translation - भाषांतर मानुषं सफलं जन्म सर्वशास्त्रेषु गोचरम् ।चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् ॥१५४॥न मानुष्यं विनान्यत्र तत्त्वज्ञानं तु विद्यते ।कदाचिल्लभ्यते जन्म मानुष्यं पुण्यसञ्चयात् ॥१५५॥सोपानीभूतमोक्षस्य मानुष्यं जन्म दर्लभम् ।मानुषेषु च शंसन्ति सिद्धयः स्युः प्रधानिकाः ॥१५६॥अणिमदिगुणोपेतास्माद् देवो नरोत्तमः ।विना देहेन कस्यापि पुरुषार्थो न लभ्यते ॥१५७॥तस्माच्छरीरं संरक्ष्य नित्यं ज्ञानं प्रसाधय ।मानुषं ज्ञाननिकरं ज्ञानात्मानं परं विदुः ॥१५८॥मुनयो मौनशीलाश्च मुनितन्त्रदिगोचरम् ।मानुषः सर्वगामी च नित्यस्थाननिराकुलः ॥१५९॥(मित्र)मन्त्रजापं योगजापं कृत्वा पापनिवारणम् ।परं मोक्षमवाप्नोति मानुषो नात्र संशयः ॥१६०॥मयोक्तनि च तन्त्राणि मद्भक्ता ये पठन्ति च ।पठित्वा कुरुते कर्म कृत्वा मत्सन्निधिं व्रजेत् ॥१६१॥मदुक्तानि च शास्त्राणि न ज्ञात्वा साधको यदि ।अन्यशास्त्राणि सम्बोध्य कोटिवर्षेण सिद्ध्यति ॥१६२॥शुक्तौ रजतविभ्रान्तिर्यथा भवति भैरव ।तथान्यदर्शनेभ्यश्च भुक्ति मुक्तिञ्च काड्क्षति ॥१६३॥यत्र भोगस्तत्र मोक्षो द्वयं कुत्र न सिद्ध्यति ।मम श्रीपादुकाम्भोजे सेवको मोक्षभोगगः ॥१६४॥चरन्ति शूकराद्याश्च व्रतिनस्ते भवन्ति किम् ।आकाशे पक्षिणः सर्वे भूतप्रेतादयोऽपि च ॥१८१॥चरन्ति रात्रिगाः सर्वे खेचराः किं महेश्वराः ।आजन्ममरणान्तञ्च गङुदितटनीस्थिताः ॥१८२॥मण्डूकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम् ।एतज्ज्ञाननिविष्टाङा यदि गच्छन्ति पण्डिताः ॥१८३॥तथापि कर्मदोषेण नरकस्था भवन्ति हि ।कौटिल्यालससंसर्गवर्जिता ये भवन्ति हि ॥१८४॥प्राप्नुवन्ति मम स्थानं मम भक्तिपरायणाः ।ऊद्र्ध्वं व्रजन्ति भूतानि शरीरमतिवाहिकम् ॥१८५॥निजदेहाभिशापेन नानारुपो भवेन्नरः ।शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ॥१८६॥इह दुश्चरितैः केचित् केचित् पूर्वकृतैस्तथा ।प्राप्नुवन्ति दुरात्मानो नरा रुपविपर्ययम् ॥१८७॥बाह्यद्रष्टा प्रगृहणाति आकाशस्थिततेजसम् ।ब्रह्मण्डज्ञानद्रष्टा च देशाण्डस्थं प्रपश्यति ॥१६५॥घटप्रत्यक्षसमगे आलोको व्यञ्जको यथा ।बिना घटत्त्वयोगेन न प्रत्यक्षो यथा घटः ॥१६६॥इतरादू भिद्यमानेऽपि न भेदमुपगच्छति ।पुरुषे नैव भेदोऽस्ति विना शक्तिं कथञ्चन ॥१६७॥शक्तिहीनो यथा देही निर्बलो योगविवर्जितः ।ज्ञानहीनस्तथात्मानं न पश्यति पदद्वयम् ॥१६८॥स्वभावं नाधिगच्छन्ति संसारज्ञानमोहिताः ।अभिपश्यति सश्लोको यद्भावं परिभाव्यते ॥१६९॥ईश्वरस्यापि दूतस्य यमराजस्य बन्धनम् ।निधनं चानुगच्छन्ति दृष्ट्वा च तनुजं धनम् ॥१७०॥लोको मोहसुरां पीत्त्वा न वेत्ति हितमात्मनः ।सम्पदः स्वप्नमेव स्याद् यौवनं कुसुमोपमम् ॥१७१॥तडिच्चपलमायुष्यं कस्याप्यज्ञानतो धुतिः ।शतं जीवति मर्त्यश्च निद्रा स्यादर्धहारिणी ॥१७२॥अर्धं हरति कामिन्याः शक्तिअबुद्धिप्रतापिनी ।असद्वृत्तिश्च मूढानां हन्त्यायुषमहर्निशम् ॥१७३॥बाल्यरोगजरादुःखैः सर्वं तदपि निष्फलम् ।स्त्रीपुत्तपितृमात्रादिसम्बन्धः केन हेतुना ॥१७४॥दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः ।अस्य त्यागः कृतो येन स सुखी नात्र संशयः ॥१७५॥सुखदुःखपरित्यागी कर्मणा किं न लभ्यते ।लोकाचारभयार्थं हि यः करोति क्रियाविधिम् ॥१७६॥ब्रह्मज्ञाताहमखिले ये जपन्ति निरादराः ।सांसरिकसुखासक्तं ब्रह्मज्ञोस्मीति वादिनम् ॥१७७॥त्यजेत् तं सततं धीरश्चाण्डालमिव दूरतः ।गृहारण्यसमालोके गतव्रीडा दिगम्बराः ॥१७८॥चरन्ति गर्दभाद्याश्च व्रतिनस्ते भवन्ति किम् ।तृणपर्णोदकाहाराः सततं वनवासिनः ॥१७९॥हरिणादिमृगाश्चैव तापासास्ते भवन्ति किम् ।शीतवातातपसहा भक्ष्याभक्ष्यसमा अपि ॥१८०॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP