संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| गुरूमहिमा अवमहिमा च १ प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - गुरूमहिमा अवमहिमा च १ आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल गुरूमहिमा अवमहिमा च १ Translation - भाषांतर गुरुपादविहीना ये ते नश्यन्ति ममाज्ञया ।गुरुर्मूलं हि मन्त्राणा गुरुर्मूलं परन्तपः ॥१८८॥गुरोः प्रसादमात्रेण सिद्धिरेव न संशयः ।अहं गुरुरहं देवो मन्त्रार्थोऽस्मि न संशयः ॥१८९॥भेदका नरकं यान्ति नानाशास्त्रार्थवर्जिताः ।सर्वासामेव विद्यानां दीक्षा मूलं यथा प्रभो ॥१९०॥गुरुमूलस्वतन्त्रस्य गुरुरात्मा न संशयः ।आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥१९१॥आत्मना क्रियते कर्म भावसिद्धिस्तदा भवेत् ।हीनाङी कपटी रोगी बहवाशी शीलवर्जित् ॥१९२॥मय्युपासनमास्थाय उपविद्यां सदाभ्यसेत् ।धनं धान्यं सुतं वित्तं राज्यं ब्राह्मणभोजनम् ॥१९३॥शुभार्थं सम्प्रयोक्तव्यं नान्यचिन्ता वृथाफलम् ।नित्यश्राद्धरतो मर्त्यो धर्मशालो नरोत्तमः ॥१९४॥महीपालः प्रियाचारः पीठभ्रमणतत्परः ।पीठे पीठे महाविद्यादर्शनं यदि लभ्यते ॥१९५॥तदा तस्य करे सर्वाः सिद्धयोऽव्यक्तमण्डलाः ।अकस्माज्जायते सिद्धिर्महामायाप्रसादतः ॥१९६॥महावीरो महाधीरो दिव्यभावस्थितोऽपि वा ।अथवा पशुभावस्थो मन्त्रपीठं विवासयेत् ॥१९७॥क्रियायाः फलदं प्रोक्तं भावत्रयमनोरमम ।तथा च युगभावेन दिव्यवीरेण भैरव ॥१९८॥प्रपश्यन्ति महावीराः पशवो हीनजातयः ।न पश्यन्ति कलियुगे शास्त्रभिभूतचेतसः ॥१९९॥अपि वर्षसहस्त्रेण शास्त्रान्तं नैव गच्छति ।तर्काद्यनेकशास्त्राणि अल्पायुर्विघ्नकोटयः ॥२००॥तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसि ।कलौ च दिववीराभ्यां नित्यं तद्गतचेतसः ॥२०१॥महाभक्ताः प्रपश्यन्ति महाविद्यापरं पदम् ।साधवो मौनशीलाश्च सदा साधनतत्पराः ॥१०२॥दिव्यवीरस्वभावेन पश्यन्ति मत्पदाम्बुजम् ।भावद्वयं ब्राह्मणांना महासत्फलकाङ्क्षिणाम् ॥२०३॥अथवा चावधूतानां भावद्वयमुदाह्रतम् ।भावद्वयप्रभावेण महायोगी भवेन्नरः ॥२०४॥मुर्खोऽपि वाक्पतिः श्रेष्ठी भावद्वयप्रसादतः ।ये जानन्ति महादेव मम तन्त्रार्थसाधनम् ॥२०५॥भावद्वयं हि वर्णानां ते रुद्रा नात्र संशयः ।भावुको भक्तियोगेन्द्रः सर्वभावज्ञसाधनः ॥२०६॥उन्मत्तजडवन्नित्यं निजतन्त्रार्थपारगः ।वृक्षो वहति पुष्पाणि गन्धं जानाति नासिका ॥२०७॥पठन्ति सर्वशास्त्राणि दुर्लभा भावबोधकाः ।प्रज्ञाहीनस्य पठनमन्धस्यादर्शदर्शनम् ॥२०८॥प्रज्ञावतो धर्मशास्त्रं बन्धनायोपकल्पते ।तत्त्वमीदृगिति भवेदिति शास्त्रार्थनिश्चयः ॥२०९॥अहं कर्ताऽहमात्मा च सर्वव्यापी निराकुलः ।मनसेति स्वभावञ्च चिन्तयत्यपि वाक्पतिः ॥२१०॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP