संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| विविध साधनानि ५ प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - विविध साधनानि ५ आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विविध साधनानि ५ Translation - भाषांतर नयनाकर्षणञ्चैव कालसर्पस्य दर्शनम् ।रणक्षोभप्रकारञ्च पञ्चेन्द्रियनिवारणम् ॥८१॥योगाविद्यासाधनञ्च भक्षप्रस्थानिरुपणम् ।चान्द्रायणव्रतञ्चैव श्रृणु तद्योगसिद्धये ॥८२॥यामलाग्रेण शंसन्ति यानि सर्वानि कानि च ।ब्रह्मण्डे यानि वस्तूनि सर्वत्र दुर्लभ शिवम् ॥८३॥येऽभ्यस्यन्ति महातन्त्रं बालाद्वा मन्त्रतोपि वा ।यामलं मम वक्त्राम्भोरुहसुन्दरसंभवम् ॥८४॥अतिगुह्यं महागुह्यं शब्दगुह्यं निराकुलम् ।नानासिद्धिसमुद्राणां गृहं योगमयं शुभम् ॥८५॥शास्त्रजालस्य सारं हि नानामन्त्रमयं प्रियम् ।वाराणसीपुरपतेः सदामोदं सुखास्पदम् ॥८६॥सरस्वतीदैवतं यत्कालीषु शिखरे वृतम ।महामोक्षं द्वारमोक्षं सर्वसंकेतशोभितम् ॥८७॥वाञ्छाकल्पद्रुमं तन्त्रं शिवसंस्कारसंस्कृतम् ।अप्रकाश्यं क्रियासारं सहस्त्रस्तुतिराजितम् ॥८८॥अष्टोत्तरशतं नाम सहस्त्रनाममङुलम् ।नानाद्रव्यसाधनादिविधृताञ्जनरञ्जितम् ॥८९॥कालीप्रत्यक्षकथनं कालीषोढादिसंपुटम् ।महाचमत्कारकरं स्थितिसंहारपालकम् ॥९०॥अष्टादशप्रकारञ्च षोढायाः सौख्यामुक्तये ।ये जानन्ति महाकाल यामलं कलिपावनम् ॥९१॥आब्राह्यस्तम्बपर्यन्तं करे तस्य न संशयः ।तत्प्रकारमहं वक्ष्ये निगमागममङुलम् ॥९२॥यस्माद्रुदो भवेज्ज्ञानीं नानतन्त्रर्थपारगः ।यामिनीविहितं कर्म कुलतन्त्राभिसाधनम् ॥९३॥महावीरहित यस्मात्पञ्चतत्त्वस्वरुपमकम् ।लंघन नास्ति मे नाथ अस्मिन् तन्त्र सुगोपनम् ॥९४॥ततो यामलाख्यात चन्द्रशेखर शङ्कर ।रुद्राक्षं साधनोत्कृष्टं शतयागफलप्रदम् ॥९५॥मनःसन्तोषविपुलं यामलं परिकीर्त्तितम् ।रुरुकादिभैरावाणाम ब्राह्मीदेव्याश्च साधनम् ॥९६॥नाम्बूनद लताकोटिहेमदासाधनम यतः ।मनसाधनं यत्र लङ्कालक्ष्मीप्रसाधनम् ॥९७॥देवतानाञ्च कवचं नानाध्यव्रतं महत्।अन्तर्यागविधानानि कलिकालफलानि च ॥९८॥भाति यत्नप्रभाकार प्रायश्चित्तविमर्षणम् ।पटलं त्रिंशता व्याप्तं ये पठन्ति निरन्तरम् ॥९९॥अवश्य सिद्धिमाप्नोति यद्यदिच्छति भूतले ।कर्मणा मनसा वाचा महातन्त्रस्य साधनम् ॥१००॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP