संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| विविध साधनानि ८ प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - विविध साधनानि ८ आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विविध साधनानि ८ Translation - भाषांतर स भवेत्कामनात्यागी भावमात्रोलक्षणम् ।वीरभावो महाभावो न भावं दुष्टचेतसाम् ॥१४१॥भावं मन्दगतं सूक्ष्मं रुद्रमूर्त्याः प्रसिद्धयति ।भ्रष्टाचार महागूढं त्रैलोक्यमङुल शुभम् ॥१४२॥पञ्चतत्त्वादिसिद्धयर्थ्म महामोहमदोद्भवम् ।सर्वपीठाकुलाचार हठादानन्दसागरम् ॥१४३॥कारुण्यवारिधिं वीरसाधने भक्तिकेवलम् ।ज्ञानीभूत्वा पशोर्भावे वीराचारं ततः परम ॥१४४॥वीराचाराद् भवेद्रुद्रोऽन्यथा नैव च नैव च ।भावद्वयस्थितो मन्त्री दिव्यभावं विचारयेत्॥१४५॥सदा शुचिर्दिव्यभावमाचरेत्सुसमाहितः ।देवतायाः प्रियार्थञ्च सर्वकर्मकुलेश्वर ॥१४६॥यद्यत्तत्सकल सिद्धयत्यस्माद् धर्मोदयं शुभम् ।देवतातुल्यभावश्च देवतायाः क्रियापरः ॥१४७॥तद् विद्धि देवताभावं सुदिव्यभाक्प्रकीर्तितम् ।सर्वेषां भाववर्गाणाम शक्तिमूलं न संशयः ॥१४८॥भक्तिं केन प्रकारेण प्राप्नोति साधकोत्तमः ।ज्ञात्त्वा देवशरीरस्य निजकार्यनुशासनात्॥१४९॥ ज्ञानेश्च त्रिविधं प्रोक्तमागमाचारसम्भवम् । शब्दब्रह्ममयं तद्धि ज्ञानमार्गेण पश्यति ॥१५०॥पठित्वा सर्वशास्त्राणि स्वकर्मगायनानि च ।कृशे विवेकमालम्ब्य नित्य ज्ञानी च साधकः ॥१५१॥विवेकसंभवं ज्ञानं शिवज्ञानप्रकाशकम् ।लोचनद्वयहीङ्च बाह्यभावविवर्जितम् ॥१५२॥लोकानां परिनिर्मुक्तं कालाकालविलोडनम् ।नित्यज्ञानं परं ज्ञानं तं विद्धि प्राणगोचरम् ॥१५३॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP