संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| विविध साधनानि २ प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - विविध साधनानि २ आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विविध साधनानि २ Translation - भाषांतर कृत्वा देवीसाधनञ्च कृत्वाहिसाधनं ततः ।नक्षत्रविद्यापटलं कालीपटलमेव च ॥२१॥श्मशानकालिकादेवीसाधनं भूतसाधनम् ।रतिक्रीडासाधनञ्च सुन्दरीसाधनं तथा ॥२२॥महामालासाधनञ्च महामायादिसाधनम् ।भद्रकालीसाधनञ्च नीलासाधनमेव च ॥२३॥भुवनेशीसाधनञ्च दुर्गासाधनमेव च ।वाराहीगारुडीचान्द्रीसाधनं परमाद्भुत्तम् ॥२४॥ब्रह्माणीसाधनं पश्चाद् हंसीसाधनमुत्तमम् ।माहेश्वरीसाधनञ्च कौमारीसाधनं तथा ॥२५॥वैष्णवीसाधनं धात्रीधनदारतिसाधनम् ।पञ्चाभ्राबलिपूर्णास्या नारसिंहीसुसाधनम् ॥२६॥कालिन्दी रुक्मिणीविद्याराधाविद्यादिसाधनम् ।गोपीश्वरीपद्मनेत्रापद्मालादिसाधनम् ॥२७॥मुण्डमलासाधनञ्च भृङासाधनं ततः ।सकलाकर्षणीविद्याकपालिन्यादिसाधनम् ॥२८॥गुह्यकालीसाधनञ्च बँगलामुखीसाधनम् ।महाबालासाधनञ्च कलावत्यादिसाधनम् ॥२९॥कुलजाकलिकाकक्षाकुक्कुटीसाधनं महत्।चिञ्चादेवीसाधञ्च शाङ्करीगूढसाधनम् ॥३०॥प्रफुल्लाब्जमुखीविद्याकाकिनीसाधनं ततः ।कुब्जिकासाधनं नित्यासरस्वत्यादिसाधनम् ॥३१॥भूर्लेखाशशिमुकुटा - उग्रकाल्यादिसाधनम् ।मणिद्वीपेश्वरीधात्रीसाधनं यक्षसाधनम् ॥३२॥केतकेक्मलाकान्तिप्रदाभेद्यादिसाधनम् ।वागीश्वरीमहाविद्या अन्नपूर्णादिसाधनम् ॥३३॥वज्रदण्डारक्तमयीमन्वारीसाधनं तथा ।हस्तिनीहस्तिकर्णाद्यामातङीसाधनं ततः ॥३४॥परानन्दानमयीसाधनं गतिसाधनम् ।कामेश्वरीमहालज्जाज्वलिनीसाधनं वसोः ॥३५॥गौरीवेतालकङ्कालीवासवीसाधनं तथा ।चन्द्रास्यासूर्यकिरणाटन्तीसाधनं ततः ॥३६॥किङिनी पावनीविद्या अवधूतेश्वरीति च ।एतासां सिद्धविद्यानां साधनाद्रुद एव सः ॥३७॥अलकाकलियुगस्थाशक्तिटङ्कारसाधनम् ।हरिणीमोहिनीक्षिप्रातृष्यादिसाधनं तथा ॥३८॥अट्टहासाघोर्नादामहामेघादिसाधनम् ।वल्लरीकैरविण्यादिसाधनं परमाद्भुतम ॥३९॥रङ्किणीसाधनं पश्चाद् नन्दकन्यादिसाधनम् ।मन्दिरासाधनं कात्यायनीसाधनमेव च ॥४०॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP